द्रुपद उवाच:
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् |
१ क
द्रुपद उवाच:
ममापि परमो हर्षः सम्वन्धेऽस्मिन्कृते विभो ||
१ ख
द्रुपद उवाच:
गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् |
२ क
द्रुपद उवाच:
न तु तावन्मय़ा युक्तमेतद्वक्तुं स्वय़ं गिरा ||
२ ख
द्रुपद उवाच:
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः |
३ क
द्रुपद उवाच:
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ||
३ ख
द्रुपद उवाच:
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः |
४ क
द्रुपद उवाच:
एतौ हि पुरुषव्याघ्रावेषां प्रिय़हिते रतौ ||
४ ख
युधिष्ठिर उवाच:
परवन्तो वय़ं राजंस्त्वय़ि सर्वे सहानुगाः |
५ क
युधिष्ठिर उवाच:
यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वय़म् ||
५ ख
वैशम्पाय़न उवाच:
ततोऽव्रवीद्वासुदेवो गमनं मम रोचते |
६ क
वैशम्पाय़न उवाच:
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ||
६ ख
द्रुपद उवाच:
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः |
७ क
द्रुपद उवाच:
प्राप्तकालं महावाहुः सा वुद्धिर्निश्चिता मम ||
७ ख
द्रुपद उवाच:
यथैव हि महाभागाः कौन्तेय़ा मम साम्प्रतम् |
८ क
द्रुपद उवाच:
तथैव वासुदेवस्य पाण्डुपुत्रा न संशय़ः ||
८ ख
द्रुपद उवाच:
न तद्ध्याय़ति कौन्तेय़ो धर्मपुत्रो युधिष्ठिरः |
९ क
द्रुपद उवाच:
यदेषां पुरुषव्याघ्रः श्रेय़ो ध्याय़ति केशवः ||
९ ख
वैशम्पाय़न उवाच:
ततस्ते समनुज्ञाता द्रुपदेन महात्मना |
१० क
वैशम्पाय़न उवाच:
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ||
१० ख
वैशम्पाय़न उवाच:
आदाय़ द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् |
११ क
वैशम्पाय़न उवाच:
सविहारं सुखं जग्मुर्नगरं नागसाह्वय़म् ||
११ ख
वैशम्पाय़न उवाच:
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः |
१२ क
वैशम्पाय़न उवाच:
प्रतिग्रहाय़ पाण्डूनां प्रेषय़ामास कौरवान् ||
१२ ख
वैशम्पाय़न उवाच:
विकर्णं च महेष्वासं चित्रसेनं च भारत |
१३ क
वैशम्पाय़न उवाच:
द्रोणं च परमेष्वासं गौतमं कृपमेव च ||
१३ ख
वैशम्पाय़न उवाच:
तैस्ते परिवृता वीराः शोभमाना महारथाः |
१४ क
वैशम्पाय़न उवाच:
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ||
१४ ख
वैशम्पाय़न उवाच:
कौतूहलेन नगरं दीर्यमाणमिवाभवत् |
१५ क
वैशम्पाय़न उवाच:
यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः ||
१५ ख
वैशम्पाय़न उवाच:
तत उच्चावचा वाचः प्रिय़ाः प्रिय़चिकीर्षुभिः |
१६ क
वैशम्पाय़न उवाच:
उदीरिता अशृण्वंस्ते पाण्डवा हृदय़ङ्गमाः ||
१६ ख
वैशम्पाय़न उवाच:
अय़ं स पुरुषव्याघ्रः पुनराय़ाति धर्मवित् |
१७ क
वैशम्पाय़न उवाच:
यो नः स्वानिव दाय़ादान्धर्मेण परिरक्षति ||
१७ ख
वैशम्पाय़न उवाच:
अद्य पाण्डुर्महाराजो वनादिव वनप्रिय़ः |
१८ क
वैशम्पाय़न उवाच:
आगतः प्रिय़मस्माकं चिकीर्षुर्नात्र संशय़ः ||
१८ ख
वैशम्पाय़न उवाच:
किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रिय़म् |
१९ क
वैशम्पाय़न उवाच:
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ||
१९ ख
वैशम्पाय़न उवाच:
यदि दत्तं यदि हुतं विद्यते यदि नस्तपः |
२० क
वैशम्पाय़न उवाच:
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ||
२० ख
वैशम्पाय़न उवाच:
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः |
२१ क
वैशम्पाय़न उवाच:
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ||
२१ ख
वैशम्पाय़न उवाच:
कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते |
२२ क
वैशम्पाय़न उवाच:
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ||
२२ ख
वैशम्पाय़न उवाच:
विश्रान्तास्ते महात्मानः कञ्चित्कालं महावलाः |
२३ क
वैशम्पाय़न उवाच:
आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ||
२३ ख
धृतराष्ट्र उवाच:
भ्रातृभिः सह कौन्तेय़ निवोधेदं वचो मम |
२४ क
धृतराष्ट्र उवाच:
पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश ||
२४ ख
धृतराष्ट्र उवाच:
न च वो वसतस्तत्र कश्चिच्छक्तः प्रवाधितुम् |
२५ क
धृतराष्ट्र उवाच:
संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा |
२५ ख
धृतराष्ट्र उवाच:
अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश ||
२५ ग
वैशम्पाय़न उवाच:
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च |
२६ क
वैशम्पाय़न उवाच:
प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः |
२६ ख
वैशम्पाय़न उवाच:
अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन् ||
२६ ग
वैशम्पाय़न उवाच:
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः |
२७ क
वैशम्पाय़न उवाच:
मण्डय़ां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ||
२७ ख
वैशम्पाय़न उवाच:
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः |
२८ क
वैशम्पाय़न उवाच:
नगरं मापय़ामासुर्द्वैपाय़नपुरोगमाः ||
२८ ख
वैशम्पाय़न उवाच:
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् |
२९ क
वैशम्पाय़न उवाच:
प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ||
२९ ख
वैशम्पाय़न उवाच:
पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च |
३० क
वैशम्पाय़न उवाच:
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ||
३० ख
वैशम्पाय़न उवाच:
द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः |
३१ क
वैशम्पाय़न उवाच:
गुप्तमभ्रचय़प्रख्यैर्गोपुरैर्मन्दरोपमैः ||
३१ ख
वैशम्पाय़न उवाच:
विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः |
३२ क
वैशम्पाय़न उवाच:
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः |
३२ ख
वैशम्पाय़न उवाच:
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ||
३२ ग
वैशम्पाय़न उवाच:
तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् |
३३ क
वैशम्पाय़न उवाच:
आय़सैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ||
३३ ख
वैशम्पाय़न उवाच:
सुविभक्तमहारथ्यं देवतावाधवर्जितम् |
३४ क
वैशम्पाय़न उवाच:
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ||
३४ ख
वैशम्पाय़न उवाच:
तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत |
३५ क
वैशम्पाय़न उवाच:
मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् ||
३५ ख
वैशम्पाय़न उवाच:
तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् |
३६ क
वैशम्पाय़न उवाच:
शुशुभे धनसम्पूर्णं धनाध्यक्षक्षय़ोपमम् ||
३६ ख
वैशम्पाय़न उवाच:
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः |
३७ क
वैशम्पाय़न उवाच:
निवासं रोचय़न्ति स्म सर्वभाषाविदस्तथा ||
३७ ख
वैशम्पाय़न उवाच:
वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः |
३८ क
वैशम्पाय़न उवाच:
सर्वशिल्पविदश्चैव वासाय़ाभ्यागमंस्तदा ||
३८ ख
वैशम्पाय़न उवाच:
उद्यानानि च रम्याणि नगरस्य समन्ततः |
३९ क
वैशम्पाय़न उवाच:
आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ||
३९ ख
वैशम्पाय़न उवाच:
पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा |
४० क
वैशम्पाय़न उवाच:
शालतालकदम्वैश्च वकुलैश्च सकेतकैः ||
४० ख
वैशम्पाय़न उवाच:
मनोहरैः पुष्पितैश्च फलभारावनामितैः |
४१ क
वैशम्पाय़न उवाच:
प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ||
४१ ख
वैशम्पाय़न उवाच:
जम्वूभिः पाटलाभिश्च कुव्जकैरतिमुक्तकैः |
४२ क
वैशम्पाय़न उवाच:
करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ||
४२ ख
वैशम्पाय़न उवाच:
नित्यपुष्पफलोपेतैर्नानाद्विजगणाय़ुतम् |
४३ क
वैशम्पाय़न उवाच:
मत्तवर्हिणसङ्घुष्टं कोकिलैश्च सदामदैः ||
४३ ख
वैशम्पाय़न उवाच:
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः |
४४ क
वैशम्पाय़न उवाच:
मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः |
४४ ख
वैशम्पाय़न उवाच:
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ||
४४ ग
वैशम्पाय़न उवाच:
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः |
४५ क
वैशम्पाय़न उवाच:
हंसकारण्डवय़ुतैश्चक्रवाकोपशोभितैः ||
४५ ख
वैशम्पाय़न उवाच:
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः |
४६ क
वैशम्पाय़न उवाच:
तडागानि च रम्याणि वृहन्ति च महान्ति च ||
४६ ख
वैशम्पाय़न उवाच:
तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् |
४७ क
वैशम्पाय़न उवाच:
पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ||
४७ ख
वैशम्पाय़न उवाच:
तत्र भीष्मेण राज्ञा च धर्मप्रणय़ने कृते |
४८ क
वैशम्पाय़न उवाच:
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ||
४८ ख