chevron_left शान्ति पर्व अध्याय १९९
मनुरु उवाच:
यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह |
१ क
मनुरु उवाच:
अथ तद्द्रक्ष्यसे व्रह्म मणौ सूत्रमिवार्पितम् ||
१ ख
मनुरु उवाच:
तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः |
२ क
मनुरु उवाच:
मुक्तास्वथ प्रवालेषु मृन्मय़े राजते तथा ||
२ ख
मनुरु उवाच:
तद्वद्गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु |
३ क
मनुरु उवाच:
तद्वत्कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः ||
३ ख
मनुरु उवाच:
येन येन शरीरेण यद्यत्कर्म करोत्ययम् |
४ क
मनुरु उवाच:
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ||
४ ख
मनुरु उवाच:
यथा ह्येकरसा भूमिरोषध्यात्मानुसारिणी |
५ क
मनुरु उवाच:
तथा कर्मानुगा वुद्धिरन्तरात्मानुदर्शिनी ||
५ ख
मनुरु उवाच:
ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसन्धिता |
६ क
मनुरु उवाच:
अभिसन्धिपूर्वकं कर्म कर्ममूलं ततः फलम् ||
६ ख
मनुरु उवाच:
फलं कर्मात्मकं विद्यात्कर्म ज्ञेय़ात्मकं तथा |
७ क
मनुरु उवाच:
ज्ञेय़ं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम् ||
७ ख
मनुरु उवाच:
ज्ञानानां च फलानां च ज्ञेय़ानां कर्मणां तथा |
८ क
मनुरु उवाच:
क्षय़ान्ते तत्फलं दिव्यं ज्ञानं ज्ञेय़प्रतिष्ठितम् ||
८ ख
मनुरु उवाच:
महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः |
९ क
मनुरु उवाच:
अवुधास्तं न पश्यन्ति ह्यात्मस्था गुणवुद्धय़ः ||
९ ख
मनुरु उवाच:
पृथिवीरूपतो रूपमपामिह महत्तरम् |
१० क
मनुरु उवाच:
अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान् ||
१० ख
मनुरु उवाच:
पवनाच्च महद्व्योम तस्मात्परतरं मनः |
११ क
मनुरु उवाच:
मनसो महती वुद्धिर्वुद्धेः कालो महान्स्मृतः ||
११ ख
मनुरु उवाच:
कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत् |
१२ क
मनुरु उवाच:
नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते ||
१२ ख
मनुरु उवाच:
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः |
१३ क
मनुरु उवाच:
अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते ||
१३ ख
मनुरु उवाच:
तद्व्रह्म परमं प्रोक्तं तद्धाम परमं स्मृतम् |
१४ क
मनुरु उवाच:
तद्गत्वा कालविषय़ाद्विमुक्ता मोक्षमाश्रिताः ||
१४ ख
मनुरु उवाच:
गुणैस्त्वेतैः प्रकाशन्ते निर्गुणत्वात्ततः परम् |
१५ क
मनुरु उवाच:
निवृत्तिलक्षणो धर्मस्तथानन्त्याय़ कल्पते ||
१५ ख
मनुरु उवाच:
ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः |
१६ क
मनुरु उवाच:
जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः ||
१६ ख
मनुरु उवाच:
न चैवमिष्यते व्रह्म शरीराश्रय़सम्भवम् |
१७ क
मनुरु उवाच:
न यत्नसाध्यं तद्व्रह्म नादिमध्यं न चान्तवत् ||
१७ ख
मनुरु उवाच:
ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते |
१८ क
मनुरु उवाच:
अन्तश्चादिमतां दृष्टो न चादिर्व्रह्मणः स्मृतः ||
१८ ख
मनुरु उवाच:
अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् |
१९ क
मनुरु उवाच:
अव्ययत्वाच्च निर्द्वन्द्वं द्वन्द्वाभावात्ततः परम् ||
१९ ख
मनुरु उवाच:
अदृष्टतोऽनुपाय़ाच्च अप्यभिसन्धेश्च कर्मणः |
२० क
मनुरु उवाच:
न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत्परम् ||
२० ख
मनुरु उवाच:
विषय़ेषु च संसर्गाच्छाश्वतस्य च दर्शनात् |
२१ क
मनुरु उवाच:
मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ||
२१ ख
मनुरु उवाच:
गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः |
२२ क
मनुरु उवाच:
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः ||
२२ ख
मनुरु उवाच:
गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान् |
२३ क
मनुरु उवाच:
अनुमानाद्धि गन्तव्यं गुणैरवय़वैः सह ||
२३ ख
मनुरु उवाच:
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः |
२४ क
मनुरु उवाच:
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् ||
२४ ख
मनुरु उवाच:
ज्ञानेन निर्मलीकृत्य वुद्धिं वुद्ध्या तथा मनः |
२५ क
मनुरु उवाच:
मनसा चेन्द्रिय़ग्राममनन्तं प्रतिपद्यते ||
२५ ख
मनुरु उवाच:
वुद्धिप्रहीणो मनसासमृद्ध; स्तथा निराशीर्गुणतामुपैति |
२६ क
मनुरु उवाच:
परं त्यजन्तीह विलोभ्यमाना; हुताशनं वाय़ुरिवेन्धनस्थम् ||
२६ ख
मनुरु उवाच:
गुणादाने विप्रय़ोगे च तेषां; मनः सदा वुद्धिपरावराभ्याम् |
२७ क
मनुरु उवाच:
अनेनैव विधिना सम्प्रवृत्तो; गुणादाने व्रह्मशरीरमेति ||
२७ ख
मनुरु उवाच:
अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा; सोऽव्यक्तत्वं गच्छति ह्यन्तकाले |
२८ क
मनुरु उवाच:
तैरेवाय़ं चेन्द्रिय़ैर्वर्धमानै; र्ग्लाय़द्भिर्वा वर्तते कर्मरूपः ||
२८ ख
मनुरु उवाच:
सर्वैरय़ं चेन्द्रिय़ैः सम्प्रय़ुक्तो; देहः प्राप्तः पञ्चभूताश्रय़ः स्यात् |
२९ क
मनुरु उवाच:
नासामर्थ्याद्गच्छति कर्मणेह; हीनस्तेन परमेणाव्ययेन ||
२९ ख
मनुरु उवाच:
पृथ्व्या नरः पश्यति नान्तमस्या; ह्यन्तश्चास्या भविता चेति विद्धि |
३० क
मनुरु उवाच:
परं नय़न्तीह विलोभ्यमानं; यथा प्लवं वाय़ुरिवार्णवस्थम् ||
३० ख
मनुरु उवाच:
दिवाकरो गुणमुपलभ्य निर्गुणो; यथा भवेद्व्यपगतरश्मिमण्डलः |
३१ क
मनुरु उवाच:
तथा ह्यसौ मुनिरिह निर्विशेषवा; न्स निर्गुणं प्रविशति व्रह्म चाव्ययम् ||
३१ ख
मनुरु उवाच:
अनागतिं सुकृतिमतां परां गतिं; स्वय़म्भुवं प्रभवनिधानमव्ययम् |
३२ क
मनुरु उवाच:
सनातनं यदमृतमव्ययं पदं; विचार्य तं शमममृतत्वमश्नुते ||
३२ ख