chevron_left वन पर्व अध्याय २
वैशम्पाय़न उवाच:
प्रभाताय़ां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् |
१ क
वैशम्पाय़न उवाच:
वनं यिय़ासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः |
१ ख
वैशम्पाय़न उवाच:
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ||
१ ग
वैशम्पाय़न उवाच:
वय़ं हि हृतसर्वस्वा हृतराज्या हृतश्रिय़ः |
२ क
वैशम्पाय़न उवाच:
फलमूलामिषाहारा वनं यास्याम दुःखिताः ||
२ ख
वैशम्पाय़न उवाच:
वनं च दोषवहुलं वहुव्यालसरीसृपम् |
३ क
वैशम्पाय़न उवाच:
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ||
३ ख
वैशम्पाय़न उवाच:
व्राह्मणानां परिक्लेशो दैवतान्यपि सादय़ेत् |
४ क
वैशम्पाय़न उवाच:
किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ||
४ ख
व्राह्मणा ऊचुः:
गतिर्या भवतां राजंस्तां वय़ं गन्तुमुद्यताः |
५ क
व्राह्मणा ऊचुः:
नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः ||
५ ख
व्राह्मणा ऊचुः:
अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते |
६ क
व्राह्मणा ऊचुः:
विशेषतो व्राह्मणेषु सदाचारावलम्विषु ||
६ ख
युधिष्ठिर उवाच:
ममापि परमा भक्तिर्व्राह्मणेषु सदा द्विजाः |
७ क
युधिष्ठिर उवाच:
सहाय़विपरिभ्रंशस्त्वय़ं सादय़तीव माम् ||
७ ख
युधिष्ठिर उवाच:
आहरेय़ुर्हि मे येऽपि फलमूलमृगांस्तथा |
८ क
युधिष्ठिर उवाच:
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ||
८ ख
युधिष्ठिर उवाच:
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च |
९ क
युधिष्ठिर उवाच:
दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ||
९ ख
व्राह्मणा ऊचुः:
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव |
१० क
व्राह्मणा ऊचुः:
स्वय़माहृत्य वन्यानि अनुय़ास्यामहे वय़म् ||
१० ख
व्राह्मणा ऊचुः:
अनुध्यानेन जप्येन विधास्यामः शिवं तव |
११ क
व्राह्मणा ऊचुः:
कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ||
११ ख
युधिष्ठिर उवाच:
एवमेतन्न सन्देहो रमेय़ं व्राह्मणैः सह |
१२ क
युधिष्ठिर उवाच:
न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ||
१२ ख
युधिष्ठिर उवाच:
कथं द्रक्ष्यामि वः सर्वान्स्वय़माहृतभोजनान् |
१३ क
युधिष्ठिर उवाच:
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ||
१३ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा स नृपः शोचन्निषसाद महीतले |
१४ क
वैशम्पाय़न उवाच:
तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः |
१४ ख
वैशम्पाय़न उवाच:
योगे साङ्ख्ये च कुशलो राजानमिदमव्रवीत् ||
१४ ग
वैशम्पाय़न उवाच:
शोकस्थानसहस्राणि भय़स्थानशतानि च |
१५ क
वैशम्पाय़न उवाच:
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||
१५ ख
वैशम्पाय़न उवाच:
न हि ज्ञानविरुद्धेषु वहुदोषेषु कर्मसु |
१६ क
वैशम्पाय़न उवाच:
श्रेय़ोघातिषु सज्जन्ते वुद्धिमन्तो भवद्विधाः ||
१६ ख
वैशम्पाय़न उवाच:
अष्टाङ्गां वुद्धिमाहुर्यां सर्वाश्रेय़ोविघातिनीम् |
१७ क
वैशम्पाय़न उवाच:
श्रुतिस्मृतिसमाय़ुक्तां सा राजंस्त्वय़्यवस्थिता ||
१७ ख
वैशम्पाय़न उवाच:
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च |
१८ क
वैशम्पाय़न उवाच:
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ||
१८ ख
वैशम्पाय़न उवाच:
श्रूय़तां चाभिधास्यामि जनकेन यथा पुरा |
१९ क
वैशम्पाय़न उवाच:
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ||
१९ ख
वैशम्पाय़न उवाच:
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् |
२० क
वैशम्पाय़न उवाच:
तय़ोर्व्याससमासाभ्यां शमोपाय़मिमं शृणु ||
२० ख
वैशम्पाय़न उवाच:
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् |
२१ क
वैशम्पाय़न उवाच:
दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते ||
२१ ख
वैशम्पाय़न उवाच:
तदाशुप्रतिकाराच्च सततं चाविचिन्तनात् |
२२ क
वैशम्पाय़न उवाच:
आधिव्याधिप्रशमनं क्रिय़ाय़ोगद्वय़ेन तु ||
२२ ख
वैशम्पाय़न उवाच:
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते |
२३ क
वैशम्पाय़न उवाच:
मानसस्य प्रिय़ाख्यानैः सम्भोगोपनय़ैर्नृणाम् ||
२३ ख
वैशम्पाय़न उवाच:
मानसेन हि दुःखेन शरीरमुपतप्यते |
२४ क
वैशम्पाय़न उवाच:
अय़ःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ||
२४ ख
वैशम्पाय़न उवाच:
मानसं शमय़ेत्तस्माज्ज्ञानेनाग्निमिवाम्वुना |
२५ क
वैशम्पाय़न उवाच:
प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति ||
२५ ख
वैशम्पाय़न उवाच:
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते |
२६ क
वैशम्पाय़न उवाच:
स्नेहात्तु सज्जते जन्तुर्दुःखय़ोगमुपैति च ||
२६ ख
वैशम्पाय़न उवाच:
स्नेहमूलानि दुःखानि स्नेहजानि भय़ानि च |
२७ क
वैशम्पाय़न उवाच:
शोकहर्षौ तथाय़ासः सर्वं स्नेहात्प्रवर्तते ||
२७ ख
वैशम्पाय़न उवाच:
स्नेहात्करणरागश्च प्रजज्ञे वैषय़स्तथा |
२८ क
वैशम्पाय़न उवाच:
अश्रेय़स्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ||
२८ ख
वैशम्पाय़न उवाच:
कोटराग्निर्यथाशेषं समूलं पादपं दहेत् |
२९ क
वैशम्पाय़न उवाच:
धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशय़ेत् ||
२९ ख
वैशम्पाय़न उवाच:
विप्रय़ोगे न तु त्यागी दोषदर्शी समागमात् |
३० क
वैशम्पाय़न उवाच:
विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ||
३० ख
वैशम्पाय़न उवाच:
तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसञ्चय़ात् |
३१ क
वैशम्पाय़न उवाच:
स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तय़ेत् ||
३१ ख
वैशम्पाय़न उवाच:
ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु |
३२ क
वैशम्पाय़न उवाच:
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ||
३२ ख
वैशम्पाय़न उवाच:
रागाभिभूतः पुरुषः कामेन परिकृष्यते |
३३ क
वैशम्पाय़न उवाच:
इच्छा सञ्जाय़ते तस्य ततस्तृष्णा प्रवर्तते ||
३३ ख
वैशम्पाय़न उवाच:
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् |
३४ क
वैशम्पाय़न उवाच:
अधर्मवहुला चैव घोरा पापानुवन्धिनी ||
३४ ख
वैशम्पाय़न उवाच:
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः |
३५ क
वैशम्पाय़न उवाच:
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ||
३५ ख
वैशम्पाय़न उवाच:
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् |
३६ क
वैशम्पाय़न उवाच:
विनाशय़ति सम्भूता अय़ोनिज इवानलः ||
३६ ख
वैशम्पाय़न उवाच:
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति |
३७ क
वैशम्पाय़न उवाच:
तथाकृतात्मा लोभेन सहजेन विनश्यति ||
३७ ख
वैशम्पाय़न उवाच:
राजतः सलिलादग्नेश्चोरतः स्वजनादपि |
३८ क
वैशम्पाय़न उवाच:
भय़मर्थवतां नित्यं मृत्योः प्राणभृतामिव ||
३८ ख
वैशम्पाय़न उवाच:
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि |
३९ क
वैशम्पाय़न उवाच:
भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ||
३९ ख
वैशम्पाय़न उवाच:
अर्थ एव हि केषाञ्चिदनर्थो भविता नृणाम् |
४० क
वैशम्पाय़न उवाच:
अर्थश्रेय़सि चासक्तो न श्रेय़ो विन्दते नरः |
४० ख
वैशम्पाय़न उवाच:
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ||
४० ग
वैशम्पाय़न उवाच:
कार्पण्यं दर्पमानौ च भय़मुद्वेग एव च |
४१ क
वैशम्पाय़न उवाच:
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ||
४१ ख
वैशम्पाय़न उवाच:
अर्थस्योपार्जने दुःखं पालने च क्षय़े तथा |
४२ क
वैशम्पाय़न उवाच:
नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ||
४२ ख
वैशम्पाय़न उवाच:
अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः |
४३ क
वैशम्पाय़न उवाच:
दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तय़ेत् ||
४३ ख
वैशम्पाय़न उवाच:
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः |
४४ क
वैशम्पाय़न उवाच:
अन्तो नास्ति पिपासाय़ाः सन्तोषः परमं सुखम् ||
४४ ख
वैशम्पाय़न उवाच:
तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः |
४५ क
वैशम्पाय़न उवाच:
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चय़ः |
४५ ख
वैशम्पाय़न उवाच:
ऐश्वर्यं प्रिय़संवासो गृध्येदेषु न पण्डितः ||
४५ ग
वैशम्पाय़न उवाच:
त्यजेत सञ्चय़ांस्तस्मात्तज्जं क्लेशं सहेत कः |
४६ क
वैशम्पाय़न उवाच:
न हि सञ्चय़वान्कश्चिद्दृश्यते निरुपद्रवः ||
४६ ख
वैशम्पाय़न उवाच:
अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते |
४७ क
वैशम्पाय़न उवाच:
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ||
४७ ख
वैशम्पाय़न उवाच:
युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि |
४८ क
वैशम्पाय़न उवाच:
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ||
४८ ख