chevron_left शल्य पर्व अध्याय २
वैशम्पाय़न उवाच:
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्विकासुतः |
१ क
वैशम्पाय़न उवाच:
विललाप महाराज दुःखाद्दुःखतरं गतः ||
१ ख
वैशम्पाय़न उवाच:
सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः |
२ क
वैशम्पाय़न उवाच:
विचिन्त्य च महाराज ततो वचनमव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
अहो वत महद्दुःखं यदहं पाण्डवान्रणे |
३ क
वैशम्पाय़न उवाच:
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै ||
३ ख
वैशम्पाय़न उवाच:
वज्रसारमय़ं नूनं हृदय़ं सुदृढं मम |
४ क
वैशम्पाय़न उवाच:
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा ||
४ ख
वैशम्पाय़न उवाच:
चिन्तय़ित्वा वचस्तेषां वालक्रीडां च सञ्जय़ |
५ क
वैशम्पाय़न उवाच:
अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः ||
५ ख
वैशम्पाय़न उवाच:
अन्धत्वाद्यदि तेषां तु न मे रूपनिदर्शनम् |
६ क
वैशम्पाय़न उवाच:
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता ||
६ ख
वैशम्पाय़न उवाच:
वालभावमतिक्रान्तान्यौवनस्थांश्च तानहम् |
७ क
वैशम्पाय़न उवाच:
मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तथानघ ||
७ ख
वैशम्पाय़न उवाच:
तानद्य निहताञ्श्रुत्वा हृतैश्वर्यान्हृतौजसः |
८ क
वैशम्पाय़न उवाच:
न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः ||
८ ख
वैशम्पाय़न उवाच:
एह्येहि पुत्र राजेन्द्र ममानाथस्य साम्प्रतम् |
९ क
वैशम्पाय़न उवाच:
त्वय़ा हीनो महावाहो कां नु यास्याम्यहं गतिम् ||
९ ख
वैशम्पाय़न उवाच:
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा |
१० क
वैशम्पाय़न उवाच:
अन्धं वृद्धं च मां वीर विहाय़ क्व नु गच्छसि ||
१० ख
वैशम्पाय़न उवाच:
सा कृपा सा च ते प्रीतिः सा च राजन्सुमानिता |
११ क
वैशम्पाय़न उवाच:
कथं विनिहतः पार्थैः संय़ुगेष्वपराजितः ||
११ ख
वैशम्पाय़न उवाच:
कथं त्वं पृथिवीपालान्भुक्त्वा तात समागतान् |
१२ क
वैशम्पाय़न उवाच:
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा ||
१२ ख
वैशम्पाय़न उवाच:
को नु मामुत्थितं काल्ये तात तातेति वक्ष्यति |
१३ क
वैशम्पाय़न उवाच:
महाराजेति सततं लोकनाथेति चासकृत् ||
१३ ख
वैशम्पाय़न उवाच:
परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः |
१४ क
वैशम्पाय़न उवाच:
अनुशाधीति कौरव्य तत्साधु वद मे वचः ||
१४ ख
वैशम्पाय़न उवाच:
ननु नामाहमश्रौषं वचनं तव पुत्रक |
१५ क
वैशम्पाय़न उवाच:
भूय़सी मम पृथ्वीय़ं यथा पार्थस्य नो तथा ||
१५ ख
वैशम्पाय़न उवाच:
भगदत्तः कृपः शल्य आवन्त्योऽथ जय़द्रथः |
१६ क
वैशम्पाय़न उवाच:
भूरिश्रवाः सोमदत्तो महाराजोऽथ वाह्लिकः ||
१६ ख
वैशम्पाय़न उवाच:
अश्वत्थामा च भोजश्च मागधश्च महावलः |
१७ क
वैशम्पाय़न उवाच:
वृहद्वलश्च काशीशः शकुनिश्चापि सौवलः ||
१७ ख
वैशम्पाय़न उवाच:
म्लेच्छाश्च वहुसाहस्राः शकाश्च यवनैः सह |
१८ क
वैशम्पाय़न उवाच:
सुदक्षिणश्च काम्वोजस्त्रिगर्ताधिपतिस्तथा ||
१८ ख
वैशम्पाय़न उवाच:
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः |
१९ क
वैशम्पाय़न उवाच:
श्रुताय़ुश्चाच्युताय़ुश्च शताय़ुश्चापि वीर्यवान् ||
१९ ख
वैशम्पाय़न उवाच:
जलसन्धोऽथार्श्यशृङ्गी राक्षसश्चाप्यलाय़ुधः |
२० क
वैशम्पाय़न उवाच:
अलम्वुसो महावाहुः सुवाहुश्च महारथः ||
२० ख
वैशम्पाय़न उवाच:
एते चान्ये च वहवो राजानो राजसत्तम |
२१ क
वैशम्पाय़न उवाच:
मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो ||
२१ ख
वैशम्पाय़न उवाच:
येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः |
२२ क
वैशम्पाय़न उवाच:
योधय़िष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः ||
२२ ख
वैशम्पाय़न उवाच:
चेदींश्च नृपशार्दूल द्रौपदेय़ांश्च संय़ुगे |
२३ क
वैशम्पाय़न उवाच:
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् ||
२३ ख
वैशम्पाय़न उवाच:
एकोऽप्येषां महाराज समर्थः संनिवारणे |
२४ क
वैशम्पाय़न उवाच:
समरे पाण्डवेय़ानां सङ्क्रुद्धो ह्यभिधावताम् |
२४ ख
वैशम्पाय़न उवाच:
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः ||
२४ ग
वैशम्पाय़न उवाच:
अथ वा सर्व एवैते पाण्डवस्यानुय़ाय़िभिः |
२५ क
वैशम्पाय़न उवाच:
योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे ||
२५ ख
वैशम्पाय़न उवाच:
कर्णस्त्वेको मय़ा सार्धं निहनिष्यति पाण्डवान् |
२६ क
वैशम्पाय़न उवाच:
ततो नृपतय़ो वीराः स्थास्यन्ति मम शासने ||
२६ ख
वैशम्पाय़न उवाच:
यश्च तेषां प्रणेता वै वासुदेवो महावलः |
२७ क
वैशम्पाय़न उवाच:
न स संनह्यते राजन्निति मामव्रवीद्वचः ||
२७ ख
वैशम्पाय़न उवाच:
तस्याहं वदतः सूत वहुशो मम संनिधौ |
२८ क
वैशम्पाय़न उवाच:
युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे ||
२८ ख
वैशम्पाय़न उवाच:
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः |
२९ क
वैशम्पाय़न उवाच:
व्याय़च्छमानाः समरे किमन्यद्भागधेय़तः ||
२९ ख
वैशम्पाय़न उवाच:
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् |
३० क
वैशम्पाय़न उवाच:
शिखण्डिनं समासाद्य मृगेन्द्र इव जम्वुकम् ||
३० ख
वैशम्पाय़न उवाच:
द्रोणश्च व्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः |
३१ क
वैशम्पाय़न उवाच:
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेय़तः ||
३१ ख
वैशम्पाय़न उवाच:
भूरिश्रवा हतो यत्र सोमदत्तश्च संय़ुगे |
३२ क
वैशम्पाय़न उवाच:
वाह्लीकश्च महाराज किमन्यद्भागधेय़तः ||
३२ ख
वैशम्पाय़न उवाच:
सुदक्षिणो हतो यत्र जलसन्धश्च कौरवः |
३३ क
वैशम्पाय़न उवाच:
श्रुताय़ुश्चाच्युताय़ुश्च किमन्यद्भागधेय़तः ||
३३ ख
वैशम्पाय़न उवाच:
वृहद्वलो हतो यत्र मागधश्च महावलः |
३४ क
वैशम्पाय़न उवाच:
आवन्त्यो निहतो यत्र त्रिगर्तश्च जनाधिपः |
३४ ख
वैशम्पाय़न उवाच:
संशप्तकाश्च वहवः किमन्यद्भागधेय़तः ||
३४ ग
वैशम्पाय़न उवाच:
अलम्वुसस्तथा राजन्राक्षसश्चाप्यलाय़ुधः |
३५ क
वैशम्पाय़न उवाच:
आर्श्यशृङ्गश्च निहतः किमन्यद्भागधेय़तः ||
३५ ख
वैशम्पाय़न उवाच:
नाराय़णा हता यत्र गोपाला युद्धदुर्मदाः |
३६ क
वैशम्पाय़न उवाच:
म्लेच्छाश्च वहुसाहस्राः किमन्यद्भागधेय़तः ||
३६ ख
वैशम्पाय़न उवाच:
शकुनिः सौवलो यत्र कैतव्यश्च महावलः |
३७ क
वैशम्पाय़न उवाच:
निहतः सवलो वीरः किमन्यद्भागधेय़तः ||
३७ ख
वैशम्पाय़न उवाच:
राजानो राजपुत्राश्च शूराः परिघवाहवः |
३८ क
वैशम्पाय़न उवाच:
निहता वहवो यत्र किमन्यद्भागधेय़तः ||
३८ ख
वैशम्पाय़न उवाच:
नानादेशसमावृत्ताः क्षत्रिय़ा यत्र सञ्जय़ |
३९ क
वैशम्पाय़न उवाच:
निहताः समरे सर्वे किमन्यद्भागधेय़तः ||
३९ ख
वैशम्पाय़न उवाच:
पुत्राश्च मे विनिहताः पौत्राश्चैव महावलाः |
४० क
वैशम्पाय़न उवाच:
वय़स्या भ्रातरश्चैव किमन्यद्भागधेय़तः ||
४० ख
वैशम्पाय़न उवाच:
भागधेय़समाय़ुक्तो ध्रुवमुत्पद्यते नरः |
४१ क
वैशम्पाय़न उवाच:
यश्च भाग्यसमाय़ुक्तः स शुभं प्राप्नुय़ान्नरः ||
४१ ख
वैशम्पाय़न उवाच:
अहं विय़ुक्तः स्वैर्भाग्यैः पुत्रैश्चैवेह सञ्जय़ |
४२ क
वैशम्पाय़न उवाच:
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ||
४२ ख
वैशम्पाय़न उवाच:
नान्यदत्र परं मन्ये वनवासादृते प्रभो |
४३ क
वैशम्पाय़न उवाच:
सोऽहं वनं गमिष्यामि निर्वन्धुर्ज्ञातिसङ्क्षय़े ||
४३ ख
वैशम्पाय़न उवाच:
न हि मेऽन्यद्भवेच्छ्रेय़ो वनाभ्युपगमादृते |
४४ क
वैशम्पाय़न उवाच:
इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय़ ||
४४ ख
वैशम्पाय़न उवाच:
दुर्योधनो हतो यत्र शल्यश्च निहतो युधि |
४५ क
वैशम्पाय़न उवाच:
दुःशासनो विशस्तश्च विकर्णश्च महावलः ||
४५ ख
वैशम्पाय़न उवाच:
कथं हि भीमसेनस्य श्रोष्येऽहं शव्दमुत्तमम् |
४६ क
वैशम्पाय़न उवाच:
एकेन समरे येन हतं पुत्रशतं मम ||
४६ ख
वैशम्पाय़न उवाच:
असकृद्वदतस्तस्य दुर्योधनवधेन च |
४७ क
वैशम्पाय़न उवाच:
दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः ||
४७ ख
वैशम्पाय़न उवाच:
एवं स शोकसन्तप्तः पार्थिवो हतवान्धवः |
४८ क
वैशम्पाय़न उवाच:
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः ||
४८ ख
वैशम्पाय़न उवाच:
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्विकासुतः |
४९ क
वैशम्पाय़न उवाच:
दीर्घमुष्णं च निःश्वस्य चिन्तय़ित्वा पराभवम् ||
४९ ख