युधिष्ठिर उवाच:
नार्थोपभोगलिप्सार्थमिय़मर्थेप्सुता मम |
४९ क
युधिष्ठिर उवाच:
भरणार्थं तु विप्राणां व्रह्मन्काङ्क्षे न लोभतः ||
४९ ख
युधिष्ठिर उवाच:
कथं ह्यस्मद्विधो व्रह्मन्वर्तमानो गृहाश्रमे |
५० क
युधिष्ठिर उवाच:
भरणं पालनं चापि न कुर्यादनुय़ाय़िनाम् ||
५० ख
युधिष्ठिर उवाच:
संविभागो हि भूतानां सर्वेषामेव शिष्यते |
५१ क
युधिष्ठिर उवाच:
तथैवापचमानेभ्यः प्रदेय़ं गृहमेधिना ||
५१ ख
युधिष्ठिर उवाच:
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता |
५२ क
युधिष्ठिर उवाच:
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ||
५२ ख
युधिष्ठिर उवाच:
देय़मार्तस्य शय़नं स्थितश्रान्तस्य चासनम् |
५३ क
युधिष्ठिर उवाच:
तृषितस्य च पानीय़ं क्षुधितस्य च भोजनम् ||
५३ ख
युधिष्ठिर उवाच:
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् |
५४ क
युधिष्ठिर उवाच:
प्रत्युद्गम्याभिगमनं कुर्यान्न्याय़ेन चार्चनम् ||
५४ ख
युधिष्ठिर उवाच:
अघिहोत्रमनड्वांश्च ज्ञातय़ोऽतिथिवान्धवाः |
५५ क
युधिष्ठिर उवाच:
पुत्रदारभृताश्चैव निर्दहेय़ुरपूजिताः ||
५५ ख
युधिष्ठिर उवाच:
नात्मार्थं पाचय़ेदन्नं न वृथा घातय़ेत्पशून् |
५६ क
युधिष्ठिर उवाच:
न च तत्स्वय़मश्नीय़ाद्विधिवद्यन्न निर्वपेत् ||
५६ ख
युधिष्ठिर उवाच:
श्वभ्यश्च श्वपचेभ्यश्च वय़ोभ्यश्चावपेद्भुवि |
५७ क
युधिष्ठिर उवाच:
वैश्वदेवं हि नामैतत्साय़म्प्रातर्विधीय़ते ||
५७ ख
युधिष्ठिर उवाच:
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः |
५८ क
युधिष्ठिर उवाच:
विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् ||
५८ ख
युधिष्ठिर उवाच:
एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे |
५९ क
युधिष्ठिर उवाच:
तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे ||
५९ ख
शौनक उवाच:
अहो वत महत्कष्टं विपरीतमिदं जगत् |
६० क
शौनक उवाच:
येनापत्रपते साधुरसाधुस्तेन तुष्यति ||
६० ख
शौनक उवाच:
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं वहु |
६१ क
शौनक उवाच:
मोहरागसमाक्रान्त इन्द्रिय़ार्थवशानुगः ||
६१ ख
शौनक उवाच:
ह्रिय़ते वुध्यमानोऽपि नरो हारिभिरिन्द्रिय़ैः |
६२ क
शौनक उवाच:
विमूढसञ्ज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः ||
६२ ख
शौनक उवाच:
षडिन्द्रिय़ाणि विषय़ं समागच्छन्ति वै यदा |
६३ क
शौनक उवाच:
तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः ||
६३ ख
शौनक उवाच:
मनो यस्येन्द्रिय़ग्रामविषय़ं प्रति चोदितम् |
६४ क
शौनक उवाच:
तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजाय़ते ||
६४ ख
शौनक उवाच:
ततः सङ्कल्पवीर्येण कामेन विषय़ेषुभिः |
६५ क
शौनक उवाच:
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत् ||
६५ ख
शौनक उवाच:
ततो विहारैराहारैर्मोहितश्च विशां पते |
६६ क
शौनक उवाच:
महामोहमुखे मग्नो नात्मानमववुध्यते ||
६६ ख
शौनक उवाच:
एवं पतति संसारे तासु तास्विह योनिषु |
६७ क
शौनक उवाच:
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ||
६७ ख
शौनक उवाच:
व्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते |
६८ क
शौनक उवाच:
जले भुवि तथाकाशे जाय़मानः पुनः पुनः ||
६८ ख
शौनक उवाच:
अवुधानां गतिस्त्वेषा वुधानामपि मे शृणु |
६९ क
शौनक उवाच:
ये धर्मे श्रेय़सि रता विमोक्षरतय़ो जनाः ||
६९ ख
शौनक उवाच:
यदिदं वेदवचनं कुरु कर्म त्यजेति च |
७० क
शौनक उवाच:
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ||
७० ख
शौनक उवाच:
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः |
७१ क
शौनक उवाच:
अलोभ इति मार्गोऽय़ं धर्मस्याष्टविधः स्मृतः ||
७१ ख
शौनक उवाच:
तत्र पूर्वश्चतुर्वर्गः पितृय़ानपथे स्थितः |
७२ क
शौनक उवाच:
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ||
७२ ख
शौनक उवाच:
उत्तरो देवय़ानस्तु सद्भिराचरितः सदा |
७३ क
शौनक उवाच:
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ||
७३ ख
शौनक उवाच:
सम्यक्सङ्कल्पसम्वन्धात्सम्यक्चेन्द्रिय़निग्रहात् |
७४ क
शौनक उवाच:
सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ||
७४ ख
शौनक उवाच:
सम्यगाहारय़ोगाच्च सम्यक्चाध्ययनागमात् |
७५ क
शौनक उवाच:
सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् |
७५ ख
शौनक उवाच:
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः ||
७५ ग
शौनक उवाच:
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः |
७६ क
शौनक उवाच:
रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि |
७६ ख
शौनक उवाच:
योगैश्वर्येण संय़ुक्ता धारय़न्ति प्रजा इमाः ||
७६ ग
शौनक उवाच:
तथा त्वमपि कौन्तेय़ शममास्थाय़ पुष्कलम् |
७७ क
शौनक उवाच:
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ||
७७ ख
शौनक उवाच:
पितृमातृमय़ी सिद्धिः प्राप्ता कर्ममय़ी च ते |
७८ क
शौनक उवाच:
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय़ वै ||
७८ ख
शौनक उवाच:
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात् |
७९ क
शौनक उवाच:
तस्मात्तपः समास्थाय़ कुरुष्वात्ममनोरथम् ||
७९ ख