सूत उवाच:
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः |
२३५ क
सूत उवाच:
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ||
२३५ ख
सूत उवाच:
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते |
२३६ क
सूत उवाच:
पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ||
२३६ ख
सूत उवाच:
इतिहासोत्तमादस्माज्जाय़न्ते कविवुद्धय़ः |
२३७ क
सूत उवाच:
पञ्चभ्य इव भूतेभ्यो लोकसंविधय़स्त्रय़ः ||
२३७ ख
सूत उवाच:
अस्याख्यानस्य विषय़े पुराणं वर्तते द्विजाः |
२३८ क
सूत उवाच:
अन्तरिक्षस्य विषय़े प्रजा इव चतुर्विधाः ||
२३८ ख
सूत उवाच:
क्रिय़ागुणानां सर्वेषामिदमाख्यानमाश्रय़ः |
२३९ क
सूत उवाच:
इन्द्रिय़ाणां समस्तानां चित्रा इव मनःक्रिय़ाः ||
२३९ ख
सूत उवाच:
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते |
२४० क
सूत उवाच:
आहारमनपाश्रित्य शरीरस्येव धारणम् ||
२४० ख
सूत उवाच:
इदं सर्वैः कविवरैराख्यानमुपजीव्यते |
२४१ क
सूत उवाच:
उदय़प्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ||
२४१ ख
सूत उवाच:
द्वैपाय़नौष्ठपुटनिःसृतमप्रमेय़ं; पुण्यं पवित्रमथ पापहरं शिवं च |
२४२ क
सूत उवाच:
यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ||
२४२ ख
सूत उवाच:
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण |
२४३ क
सूत उवाच:
श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ||
२४३ ख