chevron_left सौप्तिक पर्व अध्याय २
कृप उवाच:
श्रुतं ते वचनं सर्वं हेतुय़ुक्तं मय़ा विभो |
१ क
कृप उवाच:
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज ||
१ ख
कृप उवाच:
आवद्धा मानुषाः सर्वे निर्वन्धाः कर्मणोर्द्वय़ोः |
२ क
कृप उवाच:
दैवे पुरुषकारे च परं ताभ्यां न विद्यते ||
२ ख
कृप उवाच:
न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम |
३ क
कृप उवाच:
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ||
३ ख
कृप उवाच:
ताभ्यामुभाभ्यां सर्वार्था निवद्धा ह्यधमोत्तमाः |
४ क
कृप उवाच:
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ||
४ ख
कृप उवाच:
पर्जन्यः पर्वते वर्षन्किं नु साधय़ते फलम् |
५ क
कृप उवाच:
कृष्टे क्षेत्रे तथावर्षन्किं नु साधय़ते फलम् ||
५ ख
कृप उवाच:
उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम् |
६ क
कृप उवाच:
व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चय़ः ||
६ ख
कृप उवाच:
प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षिते |
७ क
कृप उवाच:
वीजं महागुणं भूय़ात्तथा सिद्धिर्हि मानुषी ||
७ ख
कृप उवाच:
तय़ोर्दैवं विनिश्चित्य स्ववशेनैव वर्तते |
८ क
कृप उवाच:
प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः ||
८ ख
कृप उवाच:
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ |
९ क
कृप उवाच:
विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि ||
९ ख
कृप उवाच:
कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यति |
१० क
कृप उवाच:
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् ||
१० ख
कृप उवाच:
उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् |
११ क
कृप उवाच:
अफलं दृश्यते लोके सम्यगप्युपपादितम् ||
११ ख
कृप उवाच:
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः |
१२ क
कृप उवाच:
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ||
१२ ख
कृप उवाच:
प्राय़शो हि कृतं कर्म अफलं दृश्यते भुवि |
१३ क
कृप उवाच:
अकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम् ||
१३ ख
कृप उवाच:
चेष्टामकुर्वँल्लभते यदि किञ्चिद्यदृच्छय़ा |
१४ क
कृप उवाच:
यो वा न लभते कृत्वा दुर्दशौ तावुभावपि ||
१४ ख
कृप उवाच:
शक्नोति जीवितुं दक्षो नालसः सुखमेधते |
१५ क
कृप उवाच:
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्राय़ो हितैषिणः ||
१५ ख
कृप उवाच:
यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम् |
१६ क
कृप उवाच:
नास्य वाच्यं भवेत्किञ्चित्तत्त्वं चाप्यधिगच्छति ||
१६ ख
कृप उवाच:
अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः |
१७ क
कृप उवाच:
स तु वक्तव्यतां याति द्वेष्यो भवति प्राय़शः ||
१७ ख
कृप उवाच:
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा |
१८ क
कृप उवाच:
स करोत्यात्मनोऽनर्थान्नैष वुद्धिमतां नय़ः ||
१८ ख
कृप उवाच:
हीनं पुरुषकारेण यदा दैवेन वा पुनः |
१९ क
कृप उवाच:
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् |
१९ ख
कृप उवाच:
हीनं पुरुषकारेण कर्म त्विह न सिध्यति ||
१९ ग
कृप उवाच:
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते |
२० क
कृप उवाच:
दक्षो दाक्षिण्यसम्पन्नो न स मोघं विहन्यते ||
२० ख
कृप उवाच:
सम्यगीहा पुनरिय़ं यो वृद्धानुपसेवते |
२१ क
कृप उवाच:
आपृच्छति च यच्छ्रेय़ः करोति च हितं वचः ||
२१ ख
कृप उवाच:
उत्थाय़ोत्थाय़ हि सदा प्रष्टव्या वृद्धसंमताः |
२२ क
कृप उवाच:
तेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते ||
२२ ख
कृप उवाच:
वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रय़ोजय़ेत् |
२३ क
कृप उवाच:
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् ||
२३ ख
कृप उवाच:
रागात्क्रोधाद्भय़ाल्लोभाद्योऽर्थानीहेत मानवः |
२४ क
कृप उवाच:
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रिय़ः ||
२४ ख
कृप उवाच:
सोऽय़ं दुर्योधनेनार्थो लुव्धेनादीर्घदर्शिना |
२५ क
कृप उवाच:
असमर्थ्य समारव्धो मूढत्वादविचिन्तितः ||
२५ ख
कृप उवाच:
हितवुद्धीननादृत्य संमन्त्र्यासाधुभिः सह |
२६ क
कृप उवाच:
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः ||
२६ ख
कृप उवाच:
पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हति |
२७ क
कृप उवाच:
तपत्यर्थे विपन्ने हि मित्राणामकृतं वचः ||
२७ ख
कृप उवाच:
अन्वावर्तामहि वय़ं यत्तु तं पापपूरुषम् |
२८ क
कृप उवाच:
अस्मानप्यनय़स्तस्मात्प्राप्तोऽय़ं दारुणो महान् ||
२८ ख
कृप उवाच:
अनेन तु ममाद्यापि व्यसनेनोपतापिता |
२९ क
कृप उवाच:
वुद्धिश्चिन्तय़तः किञ्चित्स्वं श्रेय़ो नाववुध्यते ||
२९ ख
कृप उवाच:
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो वुधाः |
३० क
कृप उवाच:
ते च पृष्टा यथा व्रूय़ुस्तत्कर्तव्यं तथा भवेत् ||
३० ख
कृप उवाच:
ते वय़ं धृतराष्ट्रं च गान्धारीं च समेत्य ह |
३१ क
कृप उवाच:
उपपृच्छामहे गत्वा विदुरं च महामतिम् ||
३१ ख
कृप उवाच:
ते पृष्टाश्च वदेय़ुर्यच्छ्रेय़ो नः समनन्तरम् |
३२ क
कृप उवाच:
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः ||
३२ ख
कृप उवाच:
अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित् |
३३ क
कृप उवाच:
कृते पुरुषकारे च येषां कार्यं न सिध्यति |
३३ ख
कृप उवाच:
दैवेनोपहतास्ते तु नात्र कार्या विचारणा ||
३३ ग