chevron_left स्त्री पर्व अध्याय २
वैशम्पाय़न उवाच:
ततोऽमृतसमैर्वाक्यैर्ह्लादय़न्पुरुषर्षभम् |
१ क
वैशम्पाय़न उवाच:
वैचित्रवीर्यं विदुरो यदुवाच निवोध तत् ||
१ ख
विदुर उवाच:
उत्तिष्ठ राजन्किं शेषे धारय़ात्मानमात्मना |
२ क
विदुर उवाच:
स्थिरजङ्गममर्त्यानां सर्वेषामेष निर्णय़ः ||
२ ख
विदुर उवाच:
सर्वे क्षय़ान्ता निचय़ाः पतनान्ताः समुच्छ्रय़ाः |
३ क
विदुर उवाच:
संय़ोगा विप्रय़ोगान्ता मरणान्तं हि जीवितम् ||
३ ख
विदुर उवाच:
यदा शूरं च भीरुं च यमः कर्षति भारत |
४ क
विदुर उवाच:
तत्किं न योत्स्यन्ति हि ते क्षत्रिय़ाः क्षत्रिय़र्षभ ||
४ ख
विदुर उवाच:
अय़ुध्यमानो म्रिय़ते युध्यमानश्च जीवति |
५ क
विदुर उवाच:
कालं प्राप्य महाराज न कश्चिदतिवर्तते ||
५ ख
विदुर उवाच:
न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि |
६ क
विदुर उवाच:
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् ||
६ ख
विदुर उवाच:
सर्वे स्वाध्याय़वन्तो हि सर्वे च चरितव्रताः |
७ क
विदुर उवाच:
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ||
७ ख
विदुर उवाच:
अदर्शनादापतिताः पुनश्चादर्शनं गताः |
८ क
विदुर उवाच:
न ते तव न तेषां त्वं तत्र का परिदेवना ||
८ ख
विदुर उवाच:
हतोऽपि लभते स्वर्गं हत्वा च लभते यशः |
९ क
विदुर उवाच:
उभय़ं नो वहुगुणं नास्ति निष्फलता रणे ||
९ ख
विदुर उवाच:
तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पय़िष्यति |
१० क
विदुर उवाच:
इन्द्रस्यातिथय़ो ह्येते भवन्ति पुरुषर्षभ ||
१० ख
विदुर उवाच:
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया |
११ क
विदुर उवाच:
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ||
११ ख
विदुर उवाच:
मातापितृसहस्राणि पुत्रदारशतानि च |
१२ क
विदुर उवाच:
संसारेष्वनुभूतानि कस्य ते कस्य वा वय़म् ||
१२ ख
विदुर उवाच:
शोकस्थानसहस्राणि भय़स्थानशतानि च |
१३ क
विदुर उवाच:
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||
१३ ख
विदुर उवाच:
न कालस्य प्रिय़ः कश्चिन्न द्वेष्यः कुरुसत्तम |
१४ क
विदुर उवाच:
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति ||
१४ ख
विदुर उवाच:
अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चय़ः |
१५ क
विदुर उवाच:
आरोग्यं प्रिय़संवासो गृध्येदेषु न पण्डितः ||
१५ ख
विदुर उवाच:
न जानपदिकं दुःखमेकः शोचितुमर्हसि |
१६ क
विदुर उवाच:
अप्यभावेन युज्येत तच्चास्य न निवर्तते ||
१६ ख
विदुर उवाच:
अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम् |
१७ क
विदुर उवाच:
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तय़ेत् |
१७ ख
विदुर उवाच:
चिन्त्यमानं हि न व्येति भूय़श्चापि विवर्धते ||
१७ ग
विदुर उवाच:
अनिष्टसम्प्रय़ोगाच्च विप्रय़ोगात्प्रिय़स्य च |
१८ क
विदुर उवाच:
मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पवुद्धय़ः ||
१८ ख
विदुर उवाच:
नार्थो न धर्मो न सुखं यदेतदनुशोचसि |
१९ क
विदुर उवाच:
न च नापैति कार्यार्थात्त्रिवर्गाच्चैव भ्रश्यते ||
१९ ख
विदुर उवाच:
अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः |
२० क
विदुर उवाच:
असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः ||
२० ख
विदुर उवाच:
प्रज्ञय़ा मानसं दुःखं हन्याच्छारीरमौषधैः |
२१ क
विदुर उवाच:
एतज्ज्ञानस्य सामर्थ्यं न वालैः समतामिय़ात् ||
२१ ख
विदुर उवाच:
शय़ानं चानुशय़ति तिष्ठन्तं चानुतिष्ठति |
२२ क
विदुर उवाच:
अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ||
२२ ख
विदुर उवाच:
यस्यां यस्यामवस्थाय़ां यत्करोति शुभाशुभम् |
२३ क
विदुर उवाच:
तस्यां तस्यामवस्थाय़ां तत्तत्फलमुपाश्नुते ||
२३ ख