वैशम्पाय़न उवाच:
एवं सम्पूजितो राजा पाण्डवैरम्विकासुतः |
१ क
वैशम्पाय़न उवाच:
विजहार यथापूर्वमृषिभिः पर्युपासितः ||
१ ख
वैशम्पाय़न उवाच:
व्रह्मदेय़ाग्रहारांश्च प्रददौ स कुरूद्वहः |
२ क
वैशम्पाय़न उवाच:
तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत ||
२ ख
वैशम्पाय़न उवाच:
आनृशंस्यपरो राजा प्रीय़माणो युधिष्ठिरः |
३ क
वैशम्पाय़न उवाच:
उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः ||
३ ख
वैशम्पाय़न उवाच:
मय़ा चैव भवद्भिश्च मान्य एष नराधिपः |
४ क
वैशम्पाय़न उवाच:
निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत् |
४ ख
वैशम्पाय़न उवाच:
विपरीतश्च मे शत्रुर्निरस्यश्च भवेन्नरः ||
४ ग
वैशम्पाय़न उवाच:
परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि |
५ क
वैशम्पाय़न उवाच:
ददातु राजा सर्वेषां यावदस्य चिकीर्षितम् ||
५ ख
वैशम्पाय़न उवाच:
ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः |
६ क
वैशम्पाय़न उवाच:
व्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्यनेकशः ||
६ ख
वैशम्पाय़न उवाच:
धर्मराजश्च भीमश्च सव्यसाची यमावपि |
७ क
वैशम्पाय़न उवाच:
तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षय़ा ||
७ ख
वैशम्पाय़न उवाच:
कथं नु राजा वृद्धः सन्पुत्रशोकसमाहतः |
८ क
वैशम्पाय़न उवाच:
शोकमस्मत्कृतं प्राप्य न म्रिय़ेतेति चिन्त्यते ||
८ ख
वैशम्पाय़न उवाच:
यावद्धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम् |
९ क
वैशम्पाय़न उवाच:
वभूव तदवाप्नोतु भोगांश्चेति व्यवस्थिताः ||
९ ख
वैशम्पाय़न उवाच:
ततस्ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः |
१० क
वैशम्पाय़न उवाच:
तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने ||
१० ख
वैशम्पाय़न उवाच:
धृतराष्ट्रश्च तान्वीरान्विनीतान्विनय़े स्थितान् |
११ क
वैशम्पाय़न उवाच:
शिष्यवृत्तौ स्थितान्नित्यं गुरुवत्पर्यपश्यत ||
११ ख
वैशम्पाय़न उवाच:
गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः |
१२ क
वैशम्पाय़न उवाच:
आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य वै ||
१२ ख
वैशम्पाय़न उवाच:
एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः |
१३ क
वैशम्पाय़न उवाच:
भ्रातृभिः सहितो धीमान्पूजय़ामास तं नृपम् ||
१३ ख