chevron_left मौसल पर्व अध्याय २
जनमेजय़ उवाच:
कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह |
१ क
जनमेजय़ उवाच:
पश्यतो वासुदेवस्य भोजाश्चैव महारथाः ||
१ ख
वैशम्पाय़न उवाच:
षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनय़ो महान् |
२ क
वैशम्पाय़न उवाच:
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ||
२ ख
जनमेजय़ उवाच:
केनानुशप्तास्ते वीराः क्षय़ं वृष्ण्यन्धका यय़ुः |
३ क
जनमेजय़ उवाच:
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ||
३ ख
वैशम्पाय़न उवाच:
विश्वामित्रं च कण्वं च नारदं च तपोधनम् |
४ क
वैशम्पाय़न उवाच:
सारणप्रमुखा वीरा ददृशुर्द्वारकागतान् ||
४ ख
वैशम्पाय़न उवाच:
ते वै साम्वं पुरस्कृत्य भूषय़ित्वा स्त्रिय़ं यथा |
५ क
वैशम्पाय़न उवाच:
अव्रुवन्नुपसङ्गम्य दैवदण्डनिपीडिताः ||
५ ख
वैशम्पाय़न उवाच:
इय़ं स्त्री पुत्रकामस्य वभ्रोरमिततेजसः |
६ क
वैशम्पाय़न उवाच:
ऋषय़ः साधु जानीत किमिय़ं जनय़िष्यति ||
६ ख
वैशम्पाय़न उवाच:
इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः |
७ क
वैशम्पाय़न उवाच:
प्रत्यव्रुवंस्तान्मुनय़ो यत्तच्छृणु नराधिप ||
७ ख
वैशम्पाय़न उवाच:
वृष्ण्यन्धकविनाशाय़ मुसलं घोरमाय़सम् |
८ क
वैशम्पाय़न उवाच:
वासुदेवस्य दाय़ादः साम्वोऽय़ं जनय़िष्यति ||
८ ख
वैशम्पाय़न उवाच:
येन यूय़ं सुदुर्वृत्ता नृशंसा जातमन्यवः |
९ क
वैशम्पाय़न उवाच:
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ||
९ ख
वैशम्पाय़न उवाच:
समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलाय़ुधः |
१० क
वैशम्पाय़न उवाच:
जरा कृष्णं महात्मानं शय़ानं भुवि भेत्स्यति ||
१० ख
वैशम्पाय़न उवाच:
इत्यव्रुवन्त ते राजन्प्रलव्धास्तैर्दुरात्मभिः |
११ क
वैशम्पाय़न उवाच:
मुनय़ः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ||
११ ख
वैशम्पाय़न उवाच:
तथोक्त्वा मुनय़स्ते तु ततः केशवमभ्ययुः |
१३ क
वैशम्पाय़न उवाच:
अथाव्रवीत्तदा वृष्णीञ्श्रुत्वैवं मधुसूदनः |
१३ ख
वैशम्पाय़न उवाच:
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ||
१३ ग
वैशम्पाय़न उवाच:
एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान् |
१४ क
वैशम्पाय़न उवाच:
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ||
१४ ख
वैशम्पाय़न उवाच:
श्वोभूतेऽथ ततः साम्वो मुसलं तदसूत वै |
१५ क
वैशम्पाय़न उवाच:
वृष्ण्यन्धकविनाशाय़ किङ्करप्रतिमं महत् ||
१५ ख
वैशम्पाय़न उवाच:
प्रसूतं शापजं घोरं तच्च राज्ञे न्यवेदय़न् |
१६ क
वैशम्पाय़न उवाच:
विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारय़त् ||
१६ ख
वैशम्पाय़न उवाच:
प्राक्षिपन्सागरे तच्च पुरुषा राजशासनात् |
१७ क
वैशम्पाय़न उवाच:
अघोषय़ंश्च नगरे वचनादाहुकस्य च ||
१७ ख
वैशम्पाय़न उवाच:
अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्विह |
१८ क
वैशम्पाय़न उवाच:
सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः ||
१८ ख
वैशम्पाय़न उवाच:
यश्च नोऽविदितं कुर्यात्पेय़ं कश्चिन्नरः क्वचित् |
१९ क
वैशम्पाय़न उवाच:
जीवन्स शूलमारोहेत्स्वय़ं कृत्वा सवान्धवः ||
१९ ख
वैशम्पाय़न उवाच:
ततो राजभय़ात्सर्वे निय़मं चक्रिरे तदा |
२० क
वैशम्पाय़न उवाच:
नराः शासनमाज्ञाय़ तस्य राज्ञो महात्मनः ||
२० ख