chevron_left स्वर्गारोहण पर्व अध्याय २
युधिष्ठिर उवाच:
नेह पश्यामि विवुधा राधेय़ममितौजसम् |
१ क
युधिष्ठिर उवाच:
भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ||
१ ख
युधिष्ठिर उवाच:
जुहुवुर्ये शरीराणि रणवह्नौ महारथाः |
२ क
युधिष्ठिर उवाच:
राजानो राजपुत्राश्च ये मदर्थे हता रणे ||
२ ख
युधिष्ठिर उवाच:
क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः |
३ क
युधिष्ठिर उवाच:
तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ||
३ ख
युधिष्ठिर उवाच:
यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः |
४ क
युधिष्ठिर उवाच:
स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ||
४ ख
युधिष्ठिर उवाच:
कच्चिन्न तैरवाप्तोऽय़ं नृपैर्लोकोऽक्षय़ः शुभः |
५ क
युधिष्ठिर उवाच:
न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा ||
५ ख
युधिष्ठिर उवाच:
मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि |
६ क
युधिष्ठिर उवाच:
कर्णस्य क्रिय़तां तोय़मिति तप्यामि तेन वै ||
६ ख
युधिष्ठिर उवाच:
इदं च परितप्यामि पुनः पुनरहं सुराः |
७ क
युधिष्ठिर उवाच:
यन्मातुः सदृशौ पादौ तस्याहममितौजसः ||
७ ख
युधिष्ठिर उवाच:
दृष्ट्वैव तं नानुगतः कर्णं परवलार्दनम् |
८ क
युधिष्ठिर उवाच:
न ह्यस्मान्कर्णसहिताञ्जय़ेच्छक्रोऽपि संय़ुगे ||
८ ख
युधिष्ठिर उवाच:
तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् |
९ क
युधिष्ठिर उवाच:
अविज्ञातो मय़ा योऽसौ घातितः सव्यसाचिना ||
९ ख
युधिष्ठिर उवाच:
भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रिय़ं मम |
१० क
युधिष्ठिर उवाच:
अर्जुनं चेन्द्रसङ्काशं यमौ तौ च यमोपमौ ||
१० ख
युधिष्ठिर उवाच:
द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् |
११ क
युधिष्ठिर उवाच:
न चेह स्थातुमिच्छामि सत्यमेतद्व्रवीमि वः ||
११ ख
युधिष्ठिर उवाच:
किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः |
१२ क
युधिष्ठिर उवाच:
यत्र ते स मम स्वर्गो नाय़ं स्वर्गो मतो मम ||
१२ ख
देवा ऊचुः:
यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् |
१३ क
देवा ऊचुः:
प्रिय़े हि तव वर्तामो देवराजस्य शासनात् ||
१३ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् |
१४ क
वैशम्पाय़न उवाच:
युधिष्ठिरस्य सुहृदो दर्शय़ेति परन्तप ||
१४ ख
वैशम्पाय़न उवाच:
ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः |
१५ क
वैशम्पाय़न उवाच:
सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ||
१५ ख
वैशम्पाय़न उवाच:
अग्रतो देवदूतस्तु यय़ौ राजा च पृष्ठतः |
१६ क
वैशम्पाय़न उवाच:
पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ||
१६ ख
वैशम्पाय़न उवाच:
तमसा संवृतं घोरं केशशैवलशाद्वलम् |
१७ क
वैशम्पाय़न उवाच:
युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम् ||
१७ ख
वैशम्पाय़न उवाच:
दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम् |
१८ क
वैशम्पाय़न उवाच:
इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ||
१८ ख
वैशम्पाय़न उवाच:
अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् |
१९ क
वैशम्पाय़न उवाच:
ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ||
१९ ख
वैशम्पाय़न उवाच:
अय़ोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम् |
२० क
वैशम्पाय़न उवाच:
सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ||
२० ख
वैशम्पाय़न उवाच:
मेदोरुधिरय़ुक्तैश्च छिन्नवाहूरुपाणिभिः |
२१ क
वैशम्पाय़न उवाच:
निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः ||
२१ ख
वैशम्पाय़न उवाच:
स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् |
२२ क
वैशम्पाय़न उवाच:
जगाम राजा धर्मात्मा मध्ये वहु विचिन्तय़न् ||
२२ ख
वैशम्पाय़न उवाच:
ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् |
२३ क
वैशम्पाय़न उवाच:
असिपत्रवनं चैव निशितक्षुरसंवृतम् ||
२३ ख
वैशम्पाय़न उवाच:
करम्भवालुकास्तप्ता आय़सीश्च शिलाः पृथक् |
२४ क
वैशम्पाय़न उवाच:
लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः ||
२४ ख
वैशम्पाय़न उवाच:
कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम् |
२५ क
वैशम्पाय़न उवाच:
ददर्श चापि कौन्तेय़ो यातनाः पापकर्मिणाम् ||
२५ ख
वैशम्पाय़न उवाच:
स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह |
२६ क
वैशम्पाय़न उवाच:
किय़दध्वानमस्माभिर्गन्तव्यमिदमीदृशम् ||
२६ ख
वैशम्पाय़न उवाच:
क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि |
२७ क
वैशम्पाय़न उवाच:
देशोऽय़ं कश्च देवानामेतदिच्छामि वेदितुम् ||
२७ ख
वैशम्पाय़न उवाच:
स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् |
२८ क
वैशम्पाय़न उवाच:
देवदूतोऽव्रवीच्चैनमेतावद्गमनं तव ||
२८ ख
वैशम्पाय़न उवाच:
निवर्तितव्यं हि मय़ा तथास्म्युक्तो दिवौकसैः |
२९ क
वैशम्पाय़न उवाच:
यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि ||
२९ ख
वैशम्पाय़न उवाच:
युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः |
३० क
वैशम्पाय़न उवाच:
निवर्तने धृतमनाः पर्यावर्तत भारत ||
३० ख
वैशम्पाय़न उवाच:
स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः |
३१ क
वैशम्पाय़न उवाच:
शुश्राव तत्र वदतां दीना वाचः समन्ततः ||
३१ ख
वैशम्पाय़न उवाच:
भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव |
३२ क
वैशम्पाय़न उवाच:
अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ||
३२ ख
वैशम्पाय़न उवाच:
आय़ाति त्वय़ि दुर्धर्षे वाति पुण्यः समीरणः |
३३ क
वैशम्पाय़न उवाच:
तव गन्धानुगस्तात येनास्मान्सुखमागमत् ||
३३ ख
वैशम्पाय़न उवाच:
ते वय़ं पार्थ दीर्घस्य कालस्य पुरुषर्षभ |
३४ क
वैशम्पाय़न उवाच:
सुखमासादय़िष्यामस्त्वां दृष्ट्वा राजसत्तम ||
३४ ख
वैशम्पाय़न उवाच:
सन्तिष्ठस्व महावाहो मुहूर्तमपि भारत |
३५ क
वैशम्पाय़न उवाच:
त्वय़ि तिष्ठति कौरव्य यातनास्मान्न वाधते ||
३५ ख
वैशम्पाय़न उवाच:
एवं वहुविधा वाचः कृपणा वेदनावताम् |
३६ क
वैशम्पाय़न उवाच:
तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ||
३६ ख
वैशम्पाय़न उवाच:
तेषां तद्वचनं श्रुत्वा दय़ावान्दीनभाषिणाम् |
३७ क
वैशम्पाय़न उवाच:
अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ||
३७ ख
वैशम्पाय़न उवाच:
स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः |
३८ क
वैशम्पाय़न उवाच:
ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ||
३८ ख
वैशम्पाय़न उवाच:
अवुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः |
३९ क
वैशम्पाय़न उवाच:
उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ||
३९ ख
वैशम्पाय़न उवाच:
इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे |
४० क
वैशम्पाय़न उवाच:
कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ||
४० ख
वैशम्पाय़न उवाच:
नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत |
४१ क
वैशम्पाय़न उवाच:
द्रौपदी द्रौपदेय़ाश्च इत्येवं ते विचुक्रुशुः ||
४१ ख
वैशम्पाय़न उवाच:
ता वाचः सा तदा श्रुत्वा तद्देशसदृशीर्नृप |
४२ क
वैशम्पाय़न उवाच:
ततो विममृशे राजा किं न्विदं दैवकारितम् ||
४२ ख
वैशम्पाय़न उवाच:
किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिः |
४३ क
वैशम्पाय़न उवाच:
कर्णेन द्रौपदेय़ैर्वा पाञ्चाल्या वा सुमध्यया ||
४३ ख
वैशम्पाय़न उवाच:
य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे |
४४ क
वैशम्पाय़न उवाच:
न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ||
४४ ख
वैशम्पाय़न उवाच:
किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुय़ोधनः |
४५ क
वैशम्पाय़न उवाच:
तथा श्रिय़ा युतः पापः सह सर्वैः पदानुगैः ||
४५ ख
वैशम्पाय़न उवाच:
महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः |
४६ क
वैशम्पाय़न उवाच:
कस्येदानीं विकारोऽय़ं यदिमे नरकं गताः ||
४६ ख
वैशम्पाय़न उवाच:
सर्वधर्मविदः शूराः सत्यागमपराय़णाः |
४७ क
वैशम्पाय़न उवाच:
क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः ||
४७ ख
वैशम्पाय़न उवाच:
किं नु सुप्तोऽस्मि जागर्मि चेतय़ानो न चेतय़े |
४८ क
वैशम्पाय़न उवाच:
अहो चित्तविकारोऽय़ं स्याद्वा मे चित्तविभ्रमः ||
४८ ख
वैशम्पाय़न उवाच:
एवं वहुविधं राजा विममर्श युधिष्ठिरः |
४९ क
वैशम्पाय़न उवाच:
दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रिय़ः ||
४९ ख
वैशम्पाय़न उवाच:
क्रोधमाहारय़च्चैव तीव्रं धर्मसुतो नृपः |
५० क
वैशम्पाय़न उवाच:
देवांश्च गर्हय़ामास धर्मं चैव युधिष्ठिरः ||
५० ख