chevron_left सभा पर्व अध्याय २
वैशम्पाय़न उवाच:
उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः |
१ क
वैशम्पाय़न उवाच:
पार्थैः प्रीतिसमाय़ुक्तैः पूजनार्होऽभिपूजितः ||
१ ख
वैशम्पाय़न उवाच:
गमनाय़ मतिं चक्रे पितुर्दर्शनलालसः |
२ क
वैशम्पाय़न उवाच:
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः ||
२ ख
वैशम्पाय़न उवाच:
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः |
३ क
वैशम्पाय़न उवाच:
स तय़ा मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः ||
३ ख
वैशम्पाय़न उवाच:
ददर्शानन्तरं कृष्णो भगिनीं स्वां महाय़शाः |
४ क
वैशम्पाय़न उवाच:
तामुपेत्य हृषीकेशः प्रीत्या वाष्पसमन्वितः ||
४ ख
वैशम्पाय़न उवाच:
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम् |
५ क
वैशम्पाय़न उवाच:
उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् ||
५ ख
वैशम्पाय़न उवाच:
तय़ा स्वजनगामीनि श्रावितो वचनानि सः |
६ क
वैशम्पाय़न उवाच:
सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः ||
६ ख
वैशम्पाय़न उवाच:
तामनुज्ञाप्य वार्ष्णेय़ः प्रतिनन्द्य च भामिनीम् |
७ क
वैशम्पाय़न उवाच:
ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः ||
७ ख
वैशम्पाय़न उवाच:
ववन्दे च यथान्याय़ं धौम्यं पुरुषसत्तमः |
८ क
वैशम्पाय़न उवाच:
द्रौपदीं सान्त्वय़ित्वा च आमन्त्र्य च जनार्दनः ||
८ ख
वैशम्पाय़न उवाच:
भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो वली |
९ क
वैशम्पाय़न उवाच:
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः ||
९ ख
वैशम्पाय़न उवाच:
अर्चय़ामास देवांश्च द्विजांश्च यदुपुङ्गवः |
१० क
वैशम्पाय़न उवाच:
माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि |
१० ख
वैशम्पाय़न उवाच:
स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः ||
१० ग
वैशम्पाय़न उवाच:
स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः |
११ क
वैशम्पाय़न उवाच:
वसु प्रदाय़ च ततः प्रदक्षिणमवर्तत ||
११ ख
वैशम्पाय़न उवाच:
काञ्चनं रथमास्थाय़ तार्क्ष्यकेतनमाशुगम् |
१२ क
वैशम्पाय़न उवाच:
गदाचक्रासिशार्ङ्गाद्यैराय़ुधैश्च समन्वितम् ||
१२ ख
वैशम्पाय़न उवाच:
तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते |
१३ क
वैशम्पाय़न उवाच:
प्रय़यौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः ||
१३ ख
वैशम्पाय़न उवाच:
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः |
१४ क
वैशम्पाय़न उवाच:
अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् |
१४ ख
वैशम्पाय़न उवाच:
अभीषून्सम्प्रजग्राह स्वय़ं कुरुपतिस्तदा ||
१४ ग
वैशम्पाय़न उवाच:
उपारुह्यार्जुनश्चापि चामरव्यजनं सितम् |
१५ क
वैशम्पाय़न उवाच:
रुक्मदण्डं वृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् ||
१५ ख
वैशम्पाय़न उवाच:
तथैव भीमसेनोऽपि यमाभ्यां सहितो वशी |
१६ क
वैशम्पाय़न उवाच:
पृष्ठतोऽनुय़यौ कृष्णमृत्विक्पौरजनैर्वृतः ||
१६ ख
वैशम्पाय़न उवाच:
स तथा भ्रातृभिः सार्धं केशवः परवीरहा |
१७ क
वैशम्पाय़न उवाच:
अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रिय़ैः ||
१७ ख
वैशम्पाय़न उवाच:
पार्थमामन्त्र्य गोविन्दः परिष्वज्य च पीडितम् |
१८ क
वैशम्पाय़न उवाच:
युधिष्ठिरं पूजय़ित्वा भीमसेनं यमौ तथा ||
१८ ख
वैशम्पाय़न उवाच:
परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः |
१९ क
वैशम्पाय़न उवाच:
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ||
१९ ख
वैशम्पाय़न उवाच:
निवर्तय़ित्वा च तदा पाण्डवान्सपदानुगान् |
२० क
वैशम्पाय़न उवाच:
स्वां पुरीं प्रय़यौ कृष्णः पुरन्दर इवापरः ||
२० ख
वैशम्पाय़न उवाच:
लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा |
२१ क
वैशम्पाय़न उवाच:
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वय़ात् ||
२१ ख
वैशम्पाय़न उवाच:
अतृप्तमनसामेव तेषां केशवदर्शने |
२२ क
वैशम्पाय़न उवाच:
क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रिय़दर्शनः ||
२२ ख
वैशम्पाय़न उवाच:
अकामा इव पार्थास्ते गोविन्दगतमानसाः |
२३ क
वैशम्पाय़न उवाच:
निवृत्योपय़युः सर्वे स्वपुरं पुरुषर्षभाः |
२३ ख
वैशम्पाय़न उवाच:
स्यन्दनेनाथ कृष्णोऽपि समय़े द्वारकामगात् ||
२३ ग