भीम उवाच:
पौरोगवो व्रुवाणोऽहं वल्लवो नाम नामतः |
१ क
भीम उवाच:
उपस्थास्यामि राजानं विराटमिति मे मतिः ||
१ ख
भीम उवाच:
सूपानस्य करिष्यामि कुशलोऽस्मि महानसे |
२ क
भीम उवाच:
कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः |
२ ख
भीम उवाच:
तानप्यभिभविष्यामि प्रीतिं सञ्जनय़न्नहम् ||
२ ग
भीम उवाच:
आहरिष्यामि दारूणां निचय़ान्महतोऽपि च |
३ क
भीम उवाच:
तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति ||
३ ख
भीम उवाच:
द्विपा वा वलिनो राजन्वृषभा वा महावलाः |
४ क
भीम उवाच:
विनिग्राह्या यदि मय़ा निग्रहीष्यामि तानपि ||
४ ख
भीम उवाच:
ये च केचिन्निय़ोत्स्यन्ति समाजेषु निय़ोधकाः |
५ क
भीम उवाच:
तानहं निहनिष्यामि प्रीतिं तस्य विवर्धय़न् ||
५ ख
भीम उवाच:
न त्वेतान्युध्यमानान्वै हनिष्यामि कथञ्चन |
६ क
भीम उवाच:
तथैतान्पातय़िष्यामि यथा यास्यन्ति न क्षय़म् ||
६ ख
भीम उवाच:
आरालिको गोविकर्ता सूपकर्ता निय़ोधकः |
७ क
भीम उवाच:
आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः ||
७ ख
भीम उवाच:
आत्मानमात्मना रक्षंश्चरिष्यामि विशां पते |
८ क
भीम उवाच:
इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा ||
८ ख
युधिष्ठिर उवाच:
यमग्निर्व्राह्मणो भूत्वा समागच्छन्नृणां वरम् |
९ क
युधिष्ठिर उवाच:
दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा ||
९ ख
युधिष्ठिर उवाच:
महावलं महावाहुमजितं कुरुनन्दनम् |
१० क
युधिष्ठिर उवाच:
सोऽय़ं किं कर्म कौन्तेय़ः करिष्यति धनञ्जय़ः ||
१० ख
युधिष्ठिर उवाच:
योऽय़मासाद्य तं दावं तर्पय़ामास पावकम् |
११ क
युधिष्ठिर उवाच:
विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् |
११ ख
युधिष्ठिर उवाच:
श्रेष्ठः प्रतिय़ुधां नाम सोऽर्जुनः किं करिष्यति ||
११ ग
युधिष्ठिर उवाच:
सूर्यः प्रतपतां श्रेष्ठो द्विपदां व्राह्मणो वरः |
१२ क
युधिष्ठिर उवाच:
आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः ||
१२ ख
युधिष्ठिर उवाच:
आय़ुधानां वरो वर्जः ककुद्मी च गवां वरः |
१३ क
युधिष्ठिर उवाच:
ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः ||
१३ ख
युधिष्ठिर उवाच:
धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो वरः |
१४ क
युधिष्ठिर उवाच:
पुत्रः प्रिय़ाणामधिको भार्या च सुहृदां वरा ||
१४ ख
युधिष्ठिर उवाच:
यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर |
१५ क
युधिष्ठिर उवाच:
एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् ||
१५ ख
युधिष्ठिर उवाच:
सोऽय़मिन्द्रादनवरो वासुदेवाच्च भारत |
१६ क
युधिष्ठिर उवाच:
गाण्डीवधन्वा श्वेताश्वो वीभत्सुः किं करिष्यति ||
१६ ख
युधिष्ठिर उवाच:
उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि |
१७ क
युधिष्ठिर उवाच:
दिव्यान्यस्त्राण्यवाप्तानि देवरूपेण भास्वता ||
१७ ख
युधिष्ठिर उवाच:
यं मन्ये द्वादशं रुद्रमादित्यानां त्रय़ोदशम् |
१८ क
युधिष्ठिर उवाच:
यस्य वाहू समौ दीर्घौ ज्याघातकठिनत्वचौ |
१८ ख
युधिष्ठिर उवाच:
दक्षिणे चैव सव्ये च गवामिव वहः कृतः ||
१८ ग
युधिष्ठिर उवाच:
हिमवानिव शैलानां समुद्रः सरितामिव |
१९ क
युधिष्ठिर उवाच:
त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट् ||
१९ ख
युधिष्ठिर उवाच:
मृगाणामिव शार्दूलो गरुडः पततामिव |
२० क
युधिष्ठिर उवाच:
वरः संनह्यमानानामर्जुनः किं करिष्यति ||
२० ख
अर्जुन उवाच:
प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते |
२१ क
अर्जुन उवाच:
ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ ||
२१ ख
अर्जुन उवाच:
कर्णय़ोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे |
२२ क
अर्जुन उवाच:
वेणीकृतशिरा राजन्नाम्ना चैव वृहन्नडा ||
२२ ख
अर्जुन उवाच:
पठन्नाख्याय़िकां नाम स्त्रीभावेन पुनः पुनः |
२३ क
अर्जुन उवाच:
रमय़िष्ये महीपालमन्यांश्चान्तःपुरे जनान् ||
२३ ख
अर्जुन उवाच:
गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा |
२४ क
अर्जुन उवाच:
शिक्षय़िष्याम्यहं राजन्विराटभवने स्त्रिय़ः ||
२४ ख
अर्जुन उवाच:
प्रजानां समुदाचारं वहु कर्मकृतं वदन् |
२५ क
अर्जुन उवाच:
छादय़िष्यामि कौन्तेय़ माय़यात्मानमात्मना ||
२५ ख
अर्जुन उवाच:
युधिष्ठिरस्य गेहेऽस्मि द्रौपद्याः परिचारिका |
२६ क
अर्जुन उवाच:
उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत ||
२६ ख
अर्जुन उवाच:
एतेन विधिना छन्नः कृतकेन यथा नलः |
२७ क
अर्जुन उवाच:
विहरिष्यामि राजेन्द्र विराटभवने सुखम् ||
२७ ख