वलदेव उवाच:
श्रुतं भवद्भिर्गदपूर्वजस्य; वाक्यं यथा धर्मवदर्थवच्च |
१ क
वलदेव उवाच:
अजातशत्रोश्च हितं हितं च; दुर्योधनस्यापि तथैव राज्ञः ||
१ ख
वलदेव उवाच:
अर्धं हि राज्यस्य विसृज्य वीराः; कुन्तीसुतास्तस्य कृते यतन्ते |
२ क
वलदेव उवाच:
प्रदाय़ चार्धं धृतराष्ट्रपुत्रः; सुखी सहास्माभिरतीव मोदेत् ||
२ ख
वलदेव उवाच:
लव्ध्वा हि राज्यं पुरुषप्रवीराः; सम्यक्प्रवृत्तेषु परेषु चैव |
३ क
वलदेव उवाच:
ध्रुवं प्रशान्ताः सुखमाविशेय़ु; स्तेषां प्रशान्तिश्च हितं प्रजानाम् ||
३ ख
वलदेव उवाच:
दुर्योधनस्यापि मतं च वेत्तुं; वक्तुं च वाक्यानि युधिष्ठिरस्य |
४ क
वलदेव उवाच:
प्रिय़ं मम स्याद्यदि तत्र कश्चि; द्व्रजेच्छमार्थं कुरुपाण्डवानाम् ||
४ ख
वलदेव उवाच:
स भीष्ममामन्त्र्य कुरुप्रवीरं; वैचित्रवीर्यं च महानुभावम् |
५ क
वलदेव उवाच:
द्रोणं सपुत्रं विदुरं कृपं च; गान्धारराजं च ससूतपुत्रम् ||
५ ख
वलदेव उवाच:
सर्वे च येऽन्ये धृतराष्ट्रपुत्रा; वलप्रधाना निगमप्रधानाः |
६ क
वलदेव उवाच:
स्थिताश्च धर्मेषु यथा स्वकेषु; लोकप्रवीराः श्रुतकालवृद्धाः ||
६ ख
वलदेव उवाच:
एतेषु सर्वेषु समागतेषु; पौरेषु वृद्धेषु च सङ्गतेषु |
७ क
वलदेव उवाच:
व्रवीतु वाक्यं प्रणिपातय़ुक्तं; कुन्तीसुतस्यार्थकरं यथा स्यात् ||
७ ख
वलदेव उवाच:
सर्वास्ववस्थासु च ते न कौट्या; द्ग्रस्तो हि सोऽर्थो वलमाश्रितैस्तैः |
८ क
वलदेव उवाच:
प्रिय़ाभ्युपेतस्य युधिष्ठिरस्य; द्यूते प्रमत्तस्य हृतं च राज्यम् ||
८ ख
वलदेव उवाच:
निवार्यमाणश्च कुरुप्रवीरैः; सर्वैः सुहृद्भिर्ह्ययमप्यतज्ज्ञः |
९ क
वलदेव उवाच:
गान्धारराजस्य सुतं मताक्षं; समाह्वय़ेद्देवितुमाजमीढः ||
९ ख
वलदेव उवाच:
दुरोदरास्तत्र सहस्रशोऽन्ये; युधिष्ठिरो यान्विषहेत जेतुम् |
१० क
वलदेव उवाच:
उत्सृज्य तान्सौवलमेव चाय़ं; समाह्वय़त्तेन जितोऽक्षवत्याम् ||
१० ख
वलदेव उवाच:
स दीव्यमानः प्रतिदेवनेन; अक्षेषु नित्यं सुपराङ्मुखेषु |
११ क
वलदेव उवाच:
संरम्भमाणो विजितः प्रसह्य; तत्रापराधः शकुनेर्न कश्चित् ||
११ ख
वलदेव उवाच:
तस्मात्प्रणम्यैव वचो व्रवीतु; वैचित्रवीर्यं वहुसामय़ुक्तम् |
१२ क
वलदेव उवाच:
तथा हि शक्यो धृतराष्ट्रपुत्रः; स्वार्थे निय़ोक्तुं पुरुषेण तेन ||
१२ ख
वैशम्पाय़न उवाच:
एवं व्रुवत्येव मधुप्रवीरे; शिनिप्रवीरः सहसोत्पपात |
१३ क
वैशम्पाय़न उवाच:
तच्चापि वाक्यं परिनिन्द्य तस्य; समाददे वाक्यमिदं समन्युः ||
१३ ख