chevron_left भीष्म पर्व अध्याय २
वैशम्पाय़न उवाच:
ततः पूर्वापरे सन्ध्ये समीक्ष्य भगवानृषिः |
१ क
वैशम्पाय़न उवाच:
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ||
१ ख
वैशम्पाय़न उवाच:
भविष्यति रणे घोरे भरतानां पितामहः |
२ क
वैशम्पाय़न उवाच:
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ||
२ ख
वैशम्पाय़न उवाच:
वैचित्रवीर्यं राजानं स रहस्यं व्रवीदिदम् |
३ क
वैशम्पाय़न उवाच:
शोचन्तमार्तं ध्याय़न्तं पुत्राणामनय़ं तदा ||
३ ख
व्यास उवाच:
राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः |
४ क
व्यास उवाच:
ते हनिष्यन्ति सङ्ग्रामे समासाद्येतरेतरम् ||
४ ख
व्यास उवाच:
तेषु कालपरीतेषु विनश्यत्सु च भारत |
५ क
व्यास उवाच:
कालपर्याय़माज्ञाय़ मा स्म शोके मनः कृथाः ||
५ ख
व्यास उवाच:
यदि त्विच्छसि सङ्ग्रामे द्रष्टुमेनं विशां पते |
६ क
व्यास उवाच:
चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय़ ||
६ ख
धृतराष्ट्र उवाच:
न रोचय़े ज्ञातिवधं द्रष्टुं व्रह्मर्षिसत्तम |
७ क
धृतराष्ट्र उवाच:
युद्धमेतत्त्वशेषेण शृणुय़ां तव तेजसा ||
७ ख
वैशम्पाय़न उवाच:
तस्मिन्ननिच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति |
८ क
वैशम्पाय़न उवाच:
वराणामीश्वरो दाता सञ्जय़ाय़ वरं ददौ ||
८ ख
व्यास उवाच:
एष ते सञ्जय़ो राजन्युद्धमेतद्वदिष्यति |
९ क
व्यास उवाच:
एतस्य सर्वं सङ्ग्रामे नपरोक्षं भविष्यति ||
९ ख
व्यास उवाच:
चक्षुषा सञ्जय़ो राजन्दिव्येनैष समन्वितः |
१० क
व्यास उवाच:
कथय़िष्यति ते युद्धं सर्वज्ञश्च भविष्यति ||
१० ख
व्यास उवाच:
प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा |
११ क
व्यास उवाच:
मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जय़ः ||
११ ख
व्यास उवाच:
नैनं शस्त्राणि भेत्स्यन्ति नैनं वाधिष्यते श्रमः |
१२ क
व्यास उवाच:
गावल्गणिरय़ं जीवन्युद्धादस्माद्विमोक्ष्यते ||
१२ ख
व्यास उवाच:
अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ |
१३ क
व्यास उवाच:
पाण्डवानां च सर्वेषां प्रथय़िष्यामि मा शुचः ||
१३ ख
व्यास उवाच:
दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि |
१४ क
व्यास उवाच:
न चैव शक्यं संय़न्तुं यतो धर्मस्ततो जय़ः ||
१४ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः |
१५ क
वैशम्पाय़न उवाच:
पुनरेव महावाहुं धृतराष्ट्रमुवाच ह ||
१५ ख
वैशम्पाय़न उवाच:
इह युद्धे महाराज भविष्यति महान्क्षय़ः |
१६ क
वैशम्पाय़न उवाच:
यथेमानि निमित्तानि भय़ाय़ाद्योपलक्षय़े ||
१६ ख
वैशम्पाय़न उवाच:
श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता वलैः |
१७ क
वैशम्पाय़न उवाच:
सम्पतन्ति वनान्तेषु समवाय़ांश्च कुर्वते ||
१७ ख
वैशम्पाय़न उवाच:
अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः |
१८ क
वैशम्पाय़न उवाच:
क्रव्यादा भक्षय़िष्यन्ति मांसानि गजवाजिनाम् ||
१८ ख
वैशम्पाय़न उवाच:
खटाखटेति वाशन्तो भैरवं भय़वेदिनः |
१९ क
वैशम्पाय़न उवाच:
कह्वाः प्रय़ान्ति मध्येन दक्षिणामभितो दिशम् ||
१९ ख
वैशम्पाय़न उवाच:
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत |
२० क
वैशम्पाय़न उवाच:
उदय़ास्तमने सूर्यं कवन्धैः परिवारितम् ||
२० ख
वैशम्पाय़न उवाच:
श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः |
२१ क
वैशम्पाय़न उवाच:
त्रिवर्णाः परिघाः सन्धौ भानुमावारय़न्त्युत ||
२१ ख
वैशम्पाय़न उवाच:
ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् |
२२ क
वैशम्पाय़न उवाच:
अहोरात्रं मय़ा दृष्टं तत्क्षय़ाय़ भविष्यति ||
२२ ख
वैशम्पाय़न उवाच:
अलक्ष्यः प्रभय़ा हीनः पौर्णमासीं च कार्त्तिकीम् |
२३ क
वैशम्पाय़न उवाच:
चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले ||
२३ ख
वैशम्पाय़न उवाच:
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः |
२४ क
वैशम्पाय़न उवाच:
राजानो राजपुत्राश्च शूराः परिघवाहवः ||
२४ ख
वैशम्पाय़न उवाच:
अन्तरिक्षे वराहस्य वृषदंशस्य चोभय़ोः |
२५ क
वैशम्पाय़न उवाच:
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षय़े ||
२५ ख
वैशम्पाय़न उवाच:
देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च |
२६ क
वैशम्पाय़न उवाच:
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ||
२६ ख
वैशम्पाय़न उवाच:
अनाहता दुन्दुभय़ः प्रणदन्ति विशां पते |
२७ क
वैशम्पाय़न उवाच:
अय़ुक्ताश्च प्रवर्तन्ते क्षत्रिय़ाणां महारथाः ||
२७ ख
वैशम्पाय़न उवाच:
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा |
२८ क
वैशम्पाय़न उवाच:
सारसाश्च मय़ूराश्च वाचो मुञ्चन्ति दारुणाः ||
२८ ख
वैशम्पाय़न उवाच:
गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः |
२९ क
वैशम्पाय़न उवाच:
अरुणोदय़ेषु दृश्यन्ते शतशः शलभव्रजाः ||
२९ ख
वैशम्पाय़न उवाच:
उभे सन्ध्ये प्रकाशेते दिशां दाहसमन्विते |
३० क
वैशम्पाय़न उवाच:
आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत ||
३० ख
वैशम्पाय़न उवाच:
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता |
३१ क
वैशम्पाय़न उवाच:
अरुन्धती तय़ाप्येष वसिष्ठः पृष्ठतः कृतः ||
३१ ख
वैशम्पाय़न उवाच:
रोहिणीं पीडय़न्नेष स्थितो राजञ्शनैश्चरः |
३२ क
वैशम्पाय़न उवाच:
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भय़म् ||
३२ ख
वैशम्पाय़न उवाच:
अनभ्रे च महाघोरं स्तनितं श्रूय़तेऽनिशम् |
३३ क
वैशम्पाय़न उवाच:
वाहनानां च रुदतां प्रपतन्त्यश्रुविन्दवः ||
३३ ख