chevron_left द्रोण पर्व अध्याय २
सञ्जय़ उवाच:
हतं भीष्ममाधिरथिर्विदित्वा; भिन्नां नावमिवात्यगाधे कुरूणाम् |
१ क
सञ्जय़ उवाच:
सोदर्यवद्व्यसनात्सूतपुत्रः; सन्तारय़िष्यंस्तव पुत्रस्य सेनाम् ||
१ ख
सञ्जय़ उवाच:
श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं; निपातितं शान्तनवं महारथम् |
२ क
सञ्जय़ उवाच:
अथोपाय़ात्तूर्णममित्रकर्शनो; धनुर्धराणां प्रवरस्तदा वृषः ||
२ ख
सञ्जय़ उवाच:
हते तु भीष्मे रथसत्तमे परै; र्निमज्जतीं नावमिवार्णवे कुरून् |
३ क
सञ्जय़ उवाच:
पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः; सन्तारय़िष्यंस्तव पुत्रस्य सेनाम् ||
३ ख
कर्ण उवाच:
यस्मिन्धृतिर्वुद्धिपराक्रमौजो; दमः सत्यं वीरगुणाश्च सर्वे |
४ क
कर्ण उवाच:
अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः; प्रिय़ा च वागनपाय़ीनि भीष्मे ||
४ ख
कर्ण उवाच:
व्रह्मद्विषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म |
५ क
कर्ण उवाच:
स चेत्प्रशान्तः परवीरहन्ता; मन्ये हतानेव हि सर्वय़ोधान् ||
५ ख
कर्ण उवाच:
नेह ध्रुवं किञ्चन जातु विद्यते; अस्मिँल्लोके कर्मणोऽनित्ययोगात् |
६ क
कर्ण उवाच:
सूर्योदय़े को हि विमुक्तसंशय़ो; भावं कुर्वीताद्य महाव्रते हते ||
६ ख
कर्ण उवाच:
वसुप्रभावे वसुवीर्यसम्भवे; गते वसूनेव वसुन्धराधिपे |
७ क
कर्ण उवाच:
वसूनि पुत्रांश्च वसुन्धरां तथा; कुरूंश्च शोचध्वमिमां च वाहिनीम् ||
७ ख
सञ्जय़ उवाच:
महाप्रभावे वरदे निपातिते; लोकश्रेष्ठे शान्तनवे महौजसि |
८ क
सञ्जय़ उवाच:
पराजितेषु भरतेषु दुर्मनाः; कर्णो भृशं न्यश्वसदश्रु वर्तय़न् ||
८ ख
सञ्जय़ उवाच:
इदं तु राधेय़वचो निशम्य ते; सुताश्च राजंस्तव सैनिकाश्च ह |
९ क
सञ्जय़ उवाच:
परस्परं चुक्रुशुरार्तिजं भृशं; तदाश्रु नेत्रैर्मुमुचुर्हि शव्दवत् ||
९ ख
सञ्जय़ उवाच:
प्रवर्तमाने तु पुनर्महाहवे; विगाह्यमानासु चमूषु पार्थिवैः |
१० क
सञ्जय़ उवाच:
अथाव्रवीद्धर्षकरं वचस्तदा; रथर्षभान्सर्वमहारथर्षभः ||
१० ख
कर्ण उवाच:
जगत्यनित्ये सततं प्रधावति; प्रचिन्तय़न्नस्थिरमद्य लक्षय़े |
११ क
कर्ण उवाच:
भवत्सु तिष्ठत्स्विह पातितो रणे; गिरिप्रकाशः कुरुपुङ्गवः कथम् ||
११ ख
कर्ण उवाच:
निपातिते शान्तनवे महारथे; दिवाकरे भूतलमास्थिते यथा |
१२ क
कर्ण उवाच:
न पार्थिवाः सोढुमलं धनञ्जय़ं; गिरिप्रवोढारमिवानिलं द्रुमाः ||
१२ ख
कर्ण उवाच:
हतप्रधानं त्विदमार्तरूपं; परैर्हतोत्साहमनाथमद्य वै |
१३ क
कर्ण उवाच:
मय़ा कुरूणां परिपाल्यमाहवे; वलं यथा तेन महात्मना तथा ||
१३ ख
कर्ण उवाच:
समाहितं चात्मनि भारमीदृशं; जगत्तथानित्यमिदं च लक्षय़े |
१४ क
कर्ण उवाच:
निपातितं चाहवशौण्डमाहवे; कथं नु कुर्यामहमाहवे भय़म् ||
१४ ख
कर्ण उवाच:
अहं तु तान्कुरुवृषभानजिह्मगैः; प्रवेरय़न्यमसदनं रणे चरन् |
१५ क
कर्ण उवाच:
यशः परं जगति विभाव्य वर्तिता; परैर्हतो युधि शय़िताथ वा पुनः ||
१५ ख
कर्ण उवाच:
युधिष्ठिरो धृतिमतिधर्मतत्त्ववा; न्वृकोदरो गजशततुल्यविक्रमः |
१६ क
कर्ण उवाच:
तथार्जुनस्त्रिदशवरात्मजो यतो; न तद्वलं सुजय़मथामरैरपि ||
१६ ख
कर्ण उवाच:
यमौ रणे यत्र यमोपमौ वले; ससात्यकिर्यत्र च देवकीसुतः |
१७ क
कर्ण उवाच:
न तद्वलं कापुरुषोऽभ्युपेय़िवा; न्निवर्तते मृत्युमुखादिवासकृत् ||
१७ ख
कर्ण उवाच:
तपोऽभ्युदीर्णं तपसैव गम्यते; वलं वलेनापि तथा मनस्विभिः |
१८ क
कर्ण उवाच:
मनश्च मे शत्रुनिवारणे ध्रुवं; स्वरक्षणे चाचलवद्व्यवस्थितम् ||
१८ ख
कर्ण उवाच:
एवं चैषां वुध्यमानः प्रभावं; गत्वैवाहं ताञ्जय़ाम्यद्य सूत |
१९ क
कर्ण उवाच:
मित्रद्रोहो मर्षणीय़ो न मेऽय़ं; भग्ने सैन्ये यः सहाय़ः स मित्रम् ||
१९ ख
कर्ण उवाच:
कर्तास्म्येतत्सत्पुरुषार्यकर्म; त्यक्त्वा प्राणाननुय़ास्यामि भीष्मम् |
२० क
कर्ण उवाच:
सर्वान्सङ्ख्ये शत्रुसङ्घान्हनिष्ये; हतस्तैर्वा वीरलोकं गमिष्ये ||
२० ख
कर्ण उवाच:
सम्प्राक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे |
२१ क
कर्ण उवाच:
मय़ा कृत्यमिति जानामि सूत; तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये ||
२१ ख
कर्ण उवाच:
कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसं; स्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् |
२२ क
कर्ण उवाच:
सर्वान्सङ्ख्ये शत्रुसङ्घान्निहत्य; दास्याम्यहं धार्तराष्ट्राय़ राज्यम् ||
२२ ख
कर्ण उवाच:
निवध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि |
२३ क
कर्ण उवाच:
शिरस्त्राणं चार्कसमानभासं; धनुः शरांश्चापि विषाहिकल्पान् ||
२३ ख
कर्ण उवाच:
उपासङ्गान्षोडश योजय़न्तु; धनूंषि दिव्यानि तथाहरन्तु |
२४ क
कर्ण उवाच:
असींश्च शक्तीश्च गदाश्च गुर्वीः; शङ्खं च जाम्वूनदचित्रभासम् ||
२४ ख
कर्ण उवाच:
एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे ध्वजमिन्दीवराभम् |
२५ क
कर्ण उवाच:
श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानय़स्व; चित्रां मालां चात्र वद्ध्वा सजालाम् ||
२५ ख
कर्ण उवाच:
अश्वानग्र्यान्पाण्डुराभ्रप्रकाशा; न्पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः |
२६ क
कर्ण उवाच:
तप्तैर्भाण्डैः काञ्चनैरभ्युपेता; ञ्शीघ्राञ्शीघ्रं सूतपुत्रानय़स्व ||
२६ ख
कर्ण उवाच:
रथं चाग्र्यं हेमजालावनद्धं; रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः |
२७ क
कर्ण उवाच:
द्रव्यैर्युक्तं सम्प्रहारोपपन्नै; र्वाहैर्युक्तं तूर्णमावर्तय़स्व ||
२७ ख
कर्ण उवाच:
चित्राणि चापानि च वेगवन्ति; ज्याश्चोत्तमाः संहननोपपन्नाः |
२८ क
कर्ण उवाच:
तूणांश्च पूर्णान्महतः शराणा; मासज्य गात्रावरणानि चैव ||
२८ ख
कर्ण उवाच:
प्राय़ात्रिकं चानय़ताशु सर्वं; कन्याः पूर्णं वीरकांस्यं च हैमम् |
२९ क
कर्ण उवाच:
आनीय़ मालामववध्य चाङ्गे; प्रवादय़न्त्वाशु जय़ाय़ भेरीः ||
२९ ख
कर्ण उवाच:
प्रय़ाहि सूताशु यतः किरीटी; वृकोदरो धर्मसुतो यमौ च |
३० क
कर्ण उवाच:
तान्वा हनिष्यामि समेत्य सङ्ख्ये; भीष्माय़ वैष्यामि हतो द्विषद्भिः ||
३० ख
कर्ण उवाच:
यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः; समास्थितो भीमसेनार्जुनौ च |
३१ क
कर्ण उवाच:
वासुदेवः सात्यकिः सृञ्जय़ाश्च; मन्ये वलं तदजय़्यं महीपैः ||
३१ ख
कर्ण उवाच:
तं चेन्मृत्युः सर्वहरोऽभिरक्षे; त्सदाप्रमत्तः समरे किरीटिनम् |
३२ क
कर्ण उवाच:
तथापि हन्तास्मि समेत्य सङ्ख्ये; यास्यामि वा भीष्मपथा यमाय़ ||
३२ ख
कर्ण उवाच:
न त्वेवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत्तथाहं व्रवीमि |
३३ क
कर्ण उवाच:
मित्रद्रुहो दुर्वलभक्तय़ो ये; पापात्मानो न ममैते सहाय़ाः ||
३३ ख
सञ्जय़ उवाच:
स सिद्धिमन्तं रथमुत्तमं दृढं; सकूवरं हेमपरिष्कृतं शुभम् |
३४ क
सञ्जय़ उवाच:
पताकिनं वातजवैर्हय़ोत्तमै; र्युक्तं समास्थाय़ यय़ौ जय़ाय़ ||
३४ ख
सञ्जय़ उवाच:
सम्पूज्यमानः कुरुभिर्महात्मा; रथर्षभः पाण्डुरवाजिय़ाता |
३५ क
सञ्जय़ उवाच:
यय़ौ तदाय़ोधनमुग्रधन्वा; यत्रावसानं भरतर्षभस्य ||
३५ ख
सञ्जय़ उवाच:
वरूथिना महता सध्वजेन; सुवर्णमुक्तामणिवज्रशालिना |
३६ क
सञ्जय़ उवाच:
सदश्वय़ुक्तेन रथेन कर्णो; मेघस्वनेनार्क इवामितौजाः ||
३६ ख
सञ्जय़ उवाच:
हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै स्वरथे धनुर्धरः |
३७ क
सञ्जय़ उवाच:
स्थितो रराजाधिरथिर्महारथः; स्वय़ं विमाने सुरराडिव स्थितः ||
३७ ख