chevron_left कर्ण पर्व अध्याय २
सञ्जय़ उवाच:
हते द्रोणे महेष्वासे तव पुत्रा महारथाः |
१ क
सञ्जय़ उवाच:
वभूवुराश्वस्तमुखा विषण्णा गतचेतसः ||
१ ख
सञ्जय़ उवाच:
अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते |
२ क
सञ्जय़ उवाच:
अप्रेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम् ||
२ ख
सञ्जय़ उवाच:
तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत |
३ क
सञ्जय़ उवाच:
ऊर्ध्वमेवाभ्यवेक्षन्त दुःखत्रस्तान्यनेकशः ||
३ ख
सञ्जय़ उवाच:
शस्त्राण्येषां च राजेन्द्र शोणिताक्तान्यशेषतः |
४ क
सञ्जय़ उवाच:
प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं निपातितम् ||
४ ख
सञ्जय़ उवाच:
तानि वद्धान्यनिष्टानि लम्वमानानि भारत |
५ क
सञ्जय़ उवाच:
अदृश्यन्त महाराज नक्षत्राणि यथा दिवि ||
५ ख
सञ्जय़ उवाच:
तथार्तं स्तिमितं दृष्ट्वा गतसत्त्वमिव स्थितम् |
६ क
सञ्जय़ उवाच:
स्वं वलं तन्महाराज राजा दुर्योधनोऽव्रवीत् ||
६ ख
सञ्जय़ उवाच:
भवतां वाहुवीर्यं हि समाश्रित्य मय़ा युधि |
७ क
सञ्जय़ उवाच:
पाण्डवेय़ाः समाहूता युद्धं चेदं प्रवर्तितम् ||
७ ख
सञ्जय़ उवाच:
तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते |
८ क
सञ्जय़ उवाच:
युध्यमानाश्च समरे योधा वध्यन्ति सर्वतः ||
८ ख
सञ्जय़ उवाच:
जय़ो वापि वधो वापि युध्यमानस्य संय़ुगे |
९ क
सञ्जय़ उवाच:
भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः ||
९ ख
सञ्जय़ उवाच:
पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि |
१० क
सञ्जय़ उवाच:
प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महावलम् ||
१० ख
सञ्जय़ उवाच:
यस्य वै युधि सन्त्रासात्कुन्तीपुत्रो धनञ्जय़ः |
११ क
सञ्जय़ उवाच:
निवर्तते सदामर्षात्सिंहात्क्षुद्रमृगो यथा ||
११ ख
सञ्जय़ उवाच:
येन नागाय़ुतप्राणो भीमसेनो महावलः |
१२ क
सञ्जय़ उवाच:
मानुषेणैव युद्धेन तामवस्थां प्रवेशितः ||
१२ ख
सञ्जय़ उवाच:
येन दिव्यास्त्रविच्छूरो माय़ावी स घटोत्कचः |
१३ क
सञ्जय़ उवाच:
अमोघय़ा रणे शक्त्या निहतो भैरवं नदन् ||
१३ ख
सञ्जय़ उवाच:
तस्य दुष्पारवीर्यस्य सत्यसन्धस्य धीमतः |
१४ क
सञ्जय़ उवाच:
वाह्वोर्द्रविणमक्षय़्यमद्य द्रक्ष्यथ संय़ुगे ||
१४ ख
सञ्जय़ उवाच:
द्रोणपुत्रस्य विक्रान्तं राधेय़स्यैव चोभय़ोः |
१५ क
सञ्जय़ उवाच:
पाण्डुपाञ्चालसैन्येषु द्रक्ष्यथापि महात्मनोः ||
१५ ख
सञ्जय़ उवाच:
सर्व एव भवन्तश्च शूराः प्राज्ञाः कुलोद्गताः |
१६ क
सञ्जय़ उवाच:
शीलवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम् ||
१६ ख
सञ्जय़ उवाच:
एवमुक्ते महाराज कर्णो वैकर्तनो नृपः |
१७ क
सञ्जय़ उवाच:
सिंहनादं विनद्योच्चैः प्राय़ुध्यत महावलः ||
१७ ख
सञ्जय़ उवाच:
स सृञ्जय़ानां सर्वेषां पाञ्चालानां च पश्यताम् |
१८ क
सञ्जय़ उवाच:
केकय़ानां विदेहानामकरोत्कदनं महत् ||
१८ ख
सञ्जय़ उवाच:
तस्येषुधाराः शतशः प्रादुरासञ्शरासनात् |
१९ क
सञ्जय़ उवाच:
अग्रे पुङ्खे च संसक्ता यथा भ्रमरपङ्क्तय़ः ||
१९ ख
सञ्जय़ उवाच:
स पीडय़ित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः |
२० क
सञ्जय़ उवाच:
हत्वा सहस्रशो योधानर्जुनेन निपातितः ||
२० ख