अष्टावक्र उवाच:
त्वय़ापि सुप्यतां भद्रे रजनी ह्यतिवर्तते ||
४८ ख
अष्टावक्र उवाच:
संलापात्तेन विप्रेण तथा सा तत्र भाषिता |
४९ क
अष्टावक्र उवाच:
द्वितीय़े शय़ने दिव्ये संविवेश महाप्रभे ||
४९ ख
अष्टावक्र उवाच:
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा |
५० क
अष्टावक्र उवाच:
व्यपदिश्य महर्षेर्वै शय़नं चाध्यरोहत ||
५० ख
अष्टावक्र उवाच:
स्वागतं स्वागतेनास्तु भगवांस्तामभाषत |
५१ क
अष्टावक्र उवाच:
सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ ||
५१ ख
अष्टावक्र उवाच:
निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा |
५२ क
अष्टावक्र उवाच:
दुःखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह ||
५२ ख
अष्टावक्र उवाच:
व्रह्मन्न कामकारोऽस्ति स्त्रीणां पुरुषतो धृतिः |
५३ क
अष्टावक्र उवाच:
कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् ||
५३ ख
अष्टावक्र उवाच:
प्रहृष्टो भव विप्रर्षे समागच्छ मय़ा सह |
५४ क
अष्टावक्र उवाच:
उपगूह च मां विप्र कामार्ताहं भृशं त्वय़ि ||
५४ ख
अष्टावक्र उवाच:
एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम् |
५५ क
अष्टावक्र उवाच:
प्रार्थितं दर्शनादेव भजमानां भजस्व माम् ||
५५ ख
अष्टावक्र उवाच:
सद्म चेदं वनं चेदं यच्चान्यदपि पश्यसि |
५६ क
अष्टावक्र उवाच:
प्रभुत्वं तव सर्वत्र मय़ि चैव न संशय़ः ||
५६ ख
अष्टावक्र उवाच:
सर्वान्कामान्विधास्यामि रमस्व सहितो मय़ा |
५७ क
अष्टावक्र उवाच:
रमणीय़े वने विप्र सर्वकामफलप्रदे ||
५७ ख
अष्टावक्र उवाच:
त्वद्वशाहं भविष्यामि रंस्यसे च मय़ा सह |
५८ क
अष्टावक्र उवाच:
सर्वान्कामानुपाश्नानो ये दिव्या ये च मानुषाः ||
५८ ख
अष्टावक्र उवाच:
नातः परं हि नारीणां कार्यं किञ्चन विद्यते |
५९ क
अष्टावक्र उवाच:
यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ||
५९ ख
अष्टावक्र उवाच:
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः |
६० क
अष्टावक्र उवाच:
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ||
६० ख
अष्टावक्र उवाच:
परदारानहं भद्रे न गच्छेय़ं कथञ्चन |
६१ क
अष्टावक्र उवाच:
दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् ||
६१ ख
अष्टावक्र उवाच:
भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे |
६२ क
अष्टावक्र उवाच:
विषय़ेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः ||
६२ ख
अष्टावक्र उवाच:
एवं लोकान्गमिष्यामि पुत्रैरिति न संशय़ः |
६३ क
अष्टावक्र उवाच:
भद्रे धर्मं विजानीष्व ज्ञात्वा चोपरमस्व ह ||
६३ ख
स्त्र्यु उवाच:
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज |
६४ क
स्त्र्यु उवाच:
प्रिय़ाः स्त्रीणां यथा कामो रतिशीला हि योषितः ||
६४ ख
स्त्र्यु उवाच:
सहस्रैका यता नारी प्राप्नोतीह कदाचन |
६५ क
स्त्र्यु उवाच:
तथा शतसहस्रेषु यदि काचित्पतिव्रता ||
६५ ख
स्त्र्यु उवाच:
नैता जानन्ति पितरं न कुलं न च मातरम् |
६६ क
स्त्र्यु उवाच:
न भ्रातॄन्न च भर्तारं न पुत्रान्न च देवरान् ||
६६ ख
स्त्र्यु उवाच:
लीलाय़न्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः |
६७ क
स्त्र्यु उवाच:
दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत ||
६७ ख
भीष्म उवाच:
ततः स ऋषिरेकाग्रस्तां स्त्रिय़ं प्रत्यभाषत |
६८ क
भीष्म उवाच:
आस्यतां रुचिरं छन्दः किं वा कार्यं व्रवीहि मे ||
६८ ख
भीष्म उवाच:
सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः |
६९ क
भीष्म उवाच:
वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि ||
६९ ख
भीष्म उवाच:
व्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर |
७० क
भीष्म उवाच:
वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशय़ः ||
७० ख
भीष्म उवाच:
अथर्षिरभिसम्प्रेक्ष्य स्त्रिय़ं तां जरय़ान्विताम् |
७१ क
भीष्म उवाच:
चिन्तां परमिकां भेजे सन्तप्त इव चाभवत् ||
७१ ख
भीष्म उवाच:
यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा |
७२ क
भीष्म उवाच:
नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता ||
७२ ख
भीष्म उवाच:
देवतेय़ं गृहस्यास्य शापान्नूनं विरूपिता |
७३ क
भीष्म उवाच:
अस्याश्च कारणं वेत्तुं न युक्तं सहसा मय़ा ||
७३ ख
भीष्म उवाच:
इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः |
७४ क
भीष्म उवाच:
व्यगमत्तदहःशेषं मनसा व्याकुलेन तु ||
७४ ख
भीष्म उवाच:
अथ सा स्त्री तदोवाच भगवन्पश्य वै रवेः |
७५ क
भीष्म उवाच:
रूपं सन्ध्याभ्रसंय़ुक्तं किमुपस्थाप्यतां तव ||
७५ ख
भीष्म उवाच:
स उवाच तदा तां स्त्रीं स्नानोदकमिहानय़ |
७६ क
भीष्म उवाच:
उपासिष्ये ततः सन्ध्यां वाग्यतो निय़तेन्द्रिय़ः ||
७६ ख