chevron_left शान्ति पर्व अध्याय २०
वैशम्पाय़न उवाच:
तस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः |
१ क
वैशम्पाय़न उवाच:
अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम् ||
१ ख
वैशम्पाय़न उवाच:
यद्वचः फल्गुनेनोक्तं न ज्याय़ोऽस्ति धनादिति |
२ क
वैशम्पाय़न उवाच:
अत्र ते वर्तय़िष्यामि तदेकाग्रमनाः शृणु ||
२ ख
वैशम्पाय़न उवाच:
अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता |
३ क
वैशम्पाय़न उवाच:
तां जित्वा न वृथा राजंस्त्वं परित्यक्तुमर्हसि ||
३ ख
वैशम्पाय़न उवाच:
चतुष्पदी हि निःश्रेणी कर्मण्येषा प्रतिष्ठिता |
४ क
वैशम्पाय़न उवाच:
तां क्रमेण महावाहो यथावज्जय़ पार्थिव ||
४ ख
वैशम्पाय़न उवाच:
तस्मात्पार्थ महाय़ज्ञैर्यजस्व वहुदक्षिणैः |
५ क
वैशम्पाय़न उवाच:
स्वाध्याय़यज्ञा ऋषय़ो ज्ञानय़ज्ञास्तथापरे ||
५ ख
वैशम्पाय़न उवाच:
कर्मनिष्ठांस्तु वुध्येथास्तपोनिष्ठांश्च भारत |
६ क
वैशम्पाय़न उवाच:
वैखानसानां राजेन्द्र वचनं श्रूय़ते यथा ||
६ ख
वैशम्पाय़न उवाच:
ईहते धनहेतोर्यस्तस्यानीहा गरीय़सी |
७ क
वैशम्पाय़न उवाच:
भूय़ान्दोषः प्रवर्धेत यस्तं धनमपाश्रय़ेत् ||
७ ख
वैशम्पाय़न उवाच:
कृच्छ्राच्च द्रव्यसंहारं कुर्वन्ति धनकारणात् |
८ क
वैशम्पाय़न उवाच:
धनेन तृषितोऽवुद्ध्या भ्रूणहत्यां न वुध्यते ||
८ ख
वैशम्पाय़न उवाच:
अनर्हते यद्ददाति न ददाति यदर्हते |
९ क
वैशम्पाय़न उवाच:
अनर्हार्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ||
९ ख
वैशम्पाय़न उवाच:
यज्ञाय़ सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषो रक्षिता च |
१० क
वैशम्पाय़न उवाच:
तस्मात्सर्वं यज्ञ एवोपय़ोज्यं; धनं ततोऽनन्तर एव कामः ||
१० ख
वैशम्पाय़न उवाच:
यज्ञैरिन्द्रो विविधैरन्नवद्भि; र्देवान्सर्वानभ्ययान्महौजाः |
११ क
वैशम्पाय़न उवाच:
तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ; तस्माद्यज्ञे सर्वमेवोपय़ोज्यम् ||
११ ख
वैशम्पाय़न उवाच:
महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवो विभूतः |
१२ क
वैशम्पाय़न उवाच:
विश्वाँल्लोकान्व्याप्य विष्टभ्य कीर्त्या; विरोचते द्युतिमान्कृत्तिवासाः ||
१२ ख
वैशम्पाय़न उवाच:
आविक्षितः पार्थिवो वै मरुत्तः; स्वृद्ध्या मर्त्यो योऽजय़द्देवराजम् |
१३ क
वैशम्पाय़न उवाच:
यज्ञे यस्य श्रीः स्वय़ं संनिविष्टा; यस्मिन्भाण्डं काञ्चनं सर्वमासीत् ||
१३ ख
वैशम्पाय़न उवाच:
हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते; यज्ञैरिष्ट्वा पुण्यकृद्वीतशोकः |
१४ क
वैशम्पाय़न उवाच:
ऋद्ध्या शक्रं योऽजय़न्मानुषः सं; स्तस्माद्यज्ञे सर्वमेवोपय़ोज्यम् ||
१४ ख