chevron_left आश्वमेधिक पर्व अध्याय २०
वासुदेव उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
वासुदेव उवाच:
दम्पत्योः पार्थ संवादमभय़ं नाम नामतः ||
१ ख
वासुदेव उवाच:
व्राह्मणी व्राह्मणं कञ्चिज्ज्ञानविज्ञानपारगम् |
२ क
वासुदेव उवाच:
दृष्ट्वा विविक्त आसीनं भार्या भर्तारमव्रवीत् ||
२ ख
वासुदेव उवाच:
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता |
३ क
वासुदेव उवाच:
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ||
३ ख
वासुदेव उवाच:
भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् |
४ क
वासुदेव उवाच:
त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ||
४ ख
वासुदेव उवाच:
एवमुक्तः स शान्तात्मा तामुवाच हसन्निव |
५ क
वासुदेव उवाच:
सुभगे नाभ्यसूय़ामि वाक्यस्यास्य तवानघे ||
५ ख
वासुदेव उवाच:
ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते |
६ क
वासुदेव उवाच:
एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ||
६ ख
वासुदेव उवाच:
मोहमेव निय़च्छन्ति कर्मणा ज्ञानवर्जिताः |
७ क
वासुदेव उवाच:
नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ||
७ ख
वासुदेव उवाच:
कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् |
८ क
वासुदेव उवाच:
जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते ||
८ ख
वासुदेव उवाच:
रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु |
९ क
वासुदेव उवाच:
आत्मस्थमात्मना तेन दृष्टमाय़तनं मय़ा ||
९ ख
वासुदेव उवाच:
यत्र तद्व्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना |
१० क
वासुदेव उवाच:
व्यवाय़ं कुरुते नित्यं धीरो भूतानि धारय़न् ||
१० ख
वासुदेव उवाच:
यत्र व्रह्मादय़ो युक्तास्तदक्षरमुपासते |
११ क
वासुदेव उवाच:
विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रिय़ाः ||
११ ख
वासुदेव उवाच:
घ्राणेन न तदाघ्रेय़ं न तदाद्यं च जिह्वय़ा |
१२ क
वासुदेव उवाच:
स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते ||
१२ ख
वासुदेव उवाच:
चक्षुषा न विषह्यं च यत्किञ्चिच्छ्रवणात्परम् |
१३ क
वासुदेव उवाच:
अगन्धमरसस्पर्शमरूपाशव्दमव्ययम् ||
१३ ख
वासुदेव उवाच:
यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति |
१४ क
वासुदेव उवाच:
प्राणोऽपानः समानश्च व्यानश्चोदान एव च ||
१४ ख
वासुदेव उवाच:
तत एव प्रवर्तन्ते तमेव प्रविशन्ति च |
१५ क
वासुदेव उवाच:
समानव्यानय़ोर्मध्ये प्राणापानौ विचेरतुः ||
१५ ख
वासुदेव उवाच:
तस्मिन्सुप्ते प्रलीय़ेते समानो व्यान एव च |
१६ क
वासुदेव उवाच:
अपानप्राणय़ोर्मध्ये उदानो व्याप्य तिष्ठति |
१६ ख
वासुदेव उवाच:
तस्माच्छय़ानं पुरुषं प्राणापानौ न मुञ्चतः ||
१६ ग
वासुदेव उवाच:
प्राणानाय़म्यते येन तमुदानं प्रचक्षते |
१७ क
वासुदेव उवाच:
तस्मात्तपो व्यवस्यन्ति तद्भवं व्रह्मवादिनः ||
१७ ख
वासुदेव उवाच:
तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम् |
१८ क
वासुदेव उवाच:
अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ||
१८ ख
वासुदेव उवाच:
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् |
१९ क
वासुदेव उवाच:
मनो वुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ||
१९ ख
वासुदेव उवाच:
घ्रेय़ं पेय़ं च दृश्यं च स्पृश्यं श्रव्यं तथैव च |
२० क
वासुदेव उवाच:
मन्तव्यमथ वोद्धव्यं ताः सप्त समिधो मम ||
२० ख
वासुदेव उवाच:
घ्राता भक्षय़िता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः |
२१ क
वासुदेव उवाच:
मन्ता वोद्धा च सप्तैते भवन्ति परमर्त्विजः ||
२१ ख
वासुदेव उवाच:
घ्रेय़े पेय़े च दृश्ये च स्पृश्ये श्रव्ये तथैव च |
२२ क
वासुदेव उवाच:
हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु |
२२ ख
वासुदेव उवाच:
सम्यक्प्रक्षिप्य विद्वांसो जनय़न्ति स्वय़ोनिषु ||
२२ ग
वासुदेव उवाच:
पृथिवी वाय़ुराकाशमापो ज्योतिश्च पञ्चमम् |
२३ क
वासुदेव उवाच:
मनो वुद्धिश्च सप्तैते योनिरित्येव शव्दिताः ||
२३ ख
वासुदेव उवाच:
हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् |
२४ क
वासुदेव उवाच:
अन्तर्वासमुषित्वा च जाय़न्ते स्वासु योनिषु |
२४ ख
वासुदेव उवाच:
तत्रैव च निरुध्यन्ते प्रलय़े भूतभावने ||
२४ ग
वासुदेव उवाच:
ततः सञ्जाय़ते गन्धस्ततः सञ्जाय़ते रसः |
२५ क
वासुदेव उवाच:
ततः सञ्जाय़ते रूपं ततः स्पर्शोऽभिजाय़ते ||
२५ ख
वासुदेव उवाच:
ततः सञ्जाय़ते शव्दः संशय़स्तत्र जाय़ते |
२६ क
वासुदेव उवाच:
ततः सञ्जाय़ते निष्ठा जन्मैतत्सप्तधा विदुः ||
२६ ख
वासुदेव उवाच:
अनेनैव प्रकारेण प्रगृहीतं पुरातनैः |
२७ क
वासुदेव उवाच:
पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा ||
२७ ख