सञ्जय़ उवाच:
ततः स पाण्डवानीके जनय़ंस्तुमुलं महत् |
१ क
सञ्जय़ उवाच:
व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः ||
१ ख
सञ्जय़ उवाच:
निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् |
२ क
सञ्जय़ उवाच:
दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जय़ाः ||
२ ख
सञ्जय़ उवाच:
प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः |
३ क
सञ्जय़ उवाच:
ज्याघोषः श्रूय़तेऽत्यर्थं विस्फूर्जितमिवाशनेः ||
३ ख
सञ्जय़ उवाच:
रथिनः सादिनश्चैव नागानश्वान्पदातिनः |
४ क
सञ्जय़ उवाच:
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म साय़काः ||
४ ख
सञ्जय़ उवाच:
नानद्यमानः पर्जन्यः सानिलः शुचिसङ्क्षय़े |
५ क
सञ्जय़ उवाच:
अश्मवर्षमिवावर्षत्परेषामावहद्भय़म् ||
५ ख
सञ्जय़ उवाच:
व्यचरत्स तदा राजन्सेनां विक्षोभय़न्प्रभुः |
६ क
सञ्जय़ उवाच:
वर्धय़ामास सन्त्रासं शात्रवाणाममानुषम् ||
६ ख
सञ्जय़ उवाच:
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् |
७ क
सञ्जय़ उवाच:
भ्रमद्रथाम्वुदे तस्मिन्दृश्यते स्म पुनः पुनः ||
७ ख
सञ्जय़ उवाच:
स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः |
८ क
सञ्जय़ उवाच:
युगान्तकाले यन्तेव रौद्रां प्रास्कन्दय़न्नदीम् ||
८ ख
सञ्जय़ उवाच:
अमर्षवेगप्रभवां क्रव्यादगणसङ्कुलाम् |
९ क
सञ्जय़ उवाच:
वलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम् ||
९ ख
सञ्जय़ उवाच:
शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् |
१० क
सञ्जय़ उवाच:
कवचोडुपसंय़ुक्तां मांसपङ्कसमाकुलाम् ||
१० ख
सञ्जय़ उवाच:
मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम् |
११ क
सञ्जय़ उवाच:
सङ्ग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् ||
११ ख
सञ्जय़ उवाच:
नरनागाश्वसम्भूतां शरवेगौघवाहिनीम् |
१२ क
सञ्जय़ उवाच:
शरीरदारुशृङ्गाटां भुजनागसमाकुलाम् ||
१२ ख
सञ्जय़ उवाच:
उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम् |
१३ क
सञ्जय़ उवाच:
रथनागह्रदोपेतां नानाभरणनीरजाम् ||
१३ ख
सञ्जय़ उवाच:
महारथशतावर्तां भूमिरेणूर्मिमालिनीम् |
१४ क
सञ्जय़ उवाच:
महावीर्यवतां सङ्ख्ये सुतरां भीरुदुस्तराम् ||
१४ ख
सञ्जय़ उवाच:
शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम् |
१५ क
सञ्जय़ उवाच:
छिन्नच्छत्रमहाहंसां मुकुटाण्डजसङ्कुलाम् ||
१५ ख
सञ्जय़ उवाच:
चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम् |
१६ क
सञ्जय़ उवाच:
वडगृध्रसृगालानां घोरसङ्घैर्निषेविताम् ||
१६ ख
सञ्जय़ उवाच:
निहतान्प्राणिनः सङ्ख्ये द्रोणेन वलिना शरैः |
१७ क
सञ्जय़ उवाच:
वहन्तीं पितृलोकाय़ शतशो राजसत्तम ||
१७ ख
सञ्जय़ उवाच:
शरीरशतसम्वाधां केशशैवलशाद्वलाम् |
१८ क
सञ्जय़ उवाच:
नदीं प्रावर्तय़द्राजन्भीरूणां भय़वर्धिनीम् ||
१८ ख
सञ्जय़ उवाच:
तं जय़न्तमनीकानि तानि तान्येव भारत |
१९ क
सञ्जय़ उवाच:
सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः ||
१९ ख
सञ्जय़ उवाच:
तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः |
२० क
सञ्जय़ उवाच:
सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम् ||
२० ख
सञ्जय़ उवाच:
शतमाय़स्तु शकुनिः सहदेवं समाद्रवत् |
२१ क
सञ्जय़ उवाच:
सनिय़न्तृध्वजरथं विव्याध निशितैः शरैः ||
२१ ख
सञ्जय़ उवाच:
तस्य माद्रीसुतः केतुं धनुः सूतं हय़ानपि |
२२ क
सञ्जय़ उवाच:
नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम् ||
२२ ख
सञ्जय़ उवाच:
सौवलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात् |
२३ क
सञ्जय़ उवाच:
स तस्य गदय़ा राजन्रथात्सूतमपातय़त् ||
२३ ख
सञ्जय़ उवाच:
ततस्तौ विरथौ राजन्गदाहस्तौ महावलौ |
२४ क
सञ्जय़ उवाच:
चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ ||
२४ ख
सञ्जय़ उवाच:
द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः |
२५ क
सञ्जय़ उवाच:
वहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः ||
२५ ख
सञ्जय़ उवाच:
विविंशतिं भीमसेनो विंशत्या निशितैः शरैः |
२६ क
सञ्जय़ उवाच:
विद्ध्वा नाकम्पय़द्वीरस्तदद्भुतमिवाभवत् ||
२६ ख
सञ्जय़ उवाच:
विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् |
२७ क
सञ्जय़ उवाच:
भीमं चक्रे महाराज ततः सैन्यान्यपूजय़न् ||
२७ ख
सञ्जय़ उवाच:
स तन्न ममृषे वीरः शत्रोर्विजय़माहवे |
२८ क
सञ्जय़ उवाच:
ततोऽस्य गदय़ा दान्तान्हय़ान्सर्वानपातय़त् ||
२८ ख
सञ्जय़ उवाच:
शल्यस्तु नकुलं वीरः स्वस्रीय़ं प्रिय़मात्मनः |
२९ क
सञ्जय़ उवाच:
विव्याध प्रहसन्वाणैर्लाडय़न्कोपय़न्निव ||
२९ ख
सञ्जय़ उवाच:
तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः |
३० क
सञ्जय़ उवाच:
निपात्य नकुलः सङ्ख्ये शङ्खं दध्मौ प्रतापवान् ||
३० ख
सञ्जय़ उवाच:
धृष्टकेतुः कृपेनास्ताञ्छित्त्वा वहुविधाञ्शरान् |
३१ क
सञ्जय़ उवाच:
कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्त्रिभिः ||
३१ ख
सञ्जय़ उवाच:
तं कृपः शरवर्षेण महता समवाकिरत् |
३२ क
सञ्जय़ उवाच:
निवार्य च रणे विप्रो धृष्टकेतुमय़ोधय़त् ||
३२ ख
सञ्जय़ उवाच:
सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे |
३३ क
सञ्जय़ उवाच:
विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मय़न्निव ||
३३ ख
सञ्जय़ उवाच:
सप्तसप्ततिभिर्भोजस्तं विद्ध्वा निशितैः शरैः |
३४ क
सञ्जय़ उवाच:
नाकम्पय़त शैनेय़ं शीघ्रो वाय़ुरिवाचलम् ||
३४ ख
सञ्जय़ उवाच:
सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडय़त् |
३५ क
सञ्जय़ उवाच:
स चापि तं तोमरेण जत्रुदेशे अताडय़त् ||
३५ ख
सञ्जय़ उवाच:
वैकर्तनं तु समरे विराटः प्रत्यवारय़त् |
३६ क
सञ्जय़ उवाच:
सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् ||
३६ ख
सञ्जय़ उवाच:
तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् |
३७ क
सञ्जय़ उवाच:
यत्सैन्यं वारय़ामास शरैः संनतपर्वभिः ||
३७ ख
सञ्जय़ उवाच:
द्रुपदस्तु स्वय़ं राजा भगदत्तेन सङ्गतः |
३८ क
सञ्जय़ उवाच:
तय़ोर्युद्धं महाराज चित्ररूपमिवाभवत् |
३८ ख
सञ्जय़ उवाच:
भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ ||
३८ ग
सञ्जय़ उवाच:
भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् |
३९ क
सञ्जय़ उवाच:
महता साय़कौघेन छादय़ामास वीर्यवान् ||
३९ ख
सञ्जय़ उवाच:
शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते |
४० क
सञ्जय़ उवाच:
नवत्या साय़कानां तु कम्पय़ामास भारत ||
४० ख
सञ्जय़ उवाच:
राक्षसौ भीमकर्माणौ हैडिम्वालम्वुसावुभौ |
४१ क
सञ्जय़ उवाच:
चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ ||
४१ ख
सञ्जय़ उवाच:
माय़ाशतसृजौ दृप्तौ माय़ाभिरितरेतरम् |
४२ क
सञ्जय़ उवाच:
अन्तर्हितौ चेरतुस्तौ भृशं विस्मय़कारिणौ ||
४२ ख
सञ्जय़ उवाच:
चेकितानोऽनुविन्देन युय़ुधे त्वतिभैरवम् |
४३ क
सञ्जय़ उवाच:
यथा देवासुरे युद्धे वलशक्रौ महावलौ ||
४३ ख
सञ्जय़ उवाच:
लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् |
४४ क
सञ्जय़ उवाच:
यथा विष्णुः पुरा राजन्हिरण्याक्षेण संय़ुगे ||
४४ ख
सञ्जय़ उवाच:
ततः प्रजविताश्वेन विधिवत्कल्पितेन च |
४५ क
सञ्जय़ उवाच:
रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन् ||
४५ ख
सञ्जय़ उवाच:
ततोऽभिय़ाय़ त्वरितो युद्धाकाङ्क्षी महावलः |
४६ क
सञ्जय़ उवाच:
तेन चक्रे महद्युद्धमभिमन्युररिन्दमः ||
४६ ख
सञ्जय़ उवाच:
पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् |
४७ क
सञ्जय़ उवाच:
तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातय़त् ||
४७ ख
सञ्जय़ उवाच:
सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः |
४८ क
सञ्जय़ उवाच:
पञ्चभिस्तस्य विव्याध हय़ान्सूतं च साय़कैः ||
४८ ख
सञ्जय़ उवाच:
ततः संहर्षय़न्सेनां सिंहवद्विनदन्मुहुः |
४९ क
सञ्जय़ उवाच:
समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् ||
४९ ख
सञ्जय़ उवाच:
द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः |
५० क