वासुदेव उवाच:
एवमुक्तस्तु कौन्तेय़ सूतपुत्रस्तदा मृधे |
१ क
वासुदेव उवाच:
प्रद्युम्नमव्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ||
१ ख
वासुदेव उवाच:
न मे भय़ं रौक्मिणेय़ सङ्ग्रामे यच्छतो हय़ान् |
२ क
वासुदेव उवाच:
युद्धज्ञश्चास्मि वृष्णीनां नात्र किञ्चिदतोऽन्यथा ||
२ ख
वासुदेव उवाच:
आय़ुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः |
३ क
वासुदेव उवाच:
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ||
३ ख
वासुदेव उवाच:
त्वं हि शाल्वप्रय़ुक्तेन पत्रिणाभिहतो भृशम् |
४ क
वासुदेव उवाच:
कश्मलाभिहतो वीर ततोऽहमपय़ातवान् ||
४ ख
वासुदेव उवाच:
स त्वं सात्वतमुख्याद्य लव्धसञ्ज्ञो यदृच्छय़ा |
५ क
वासुदेव उवाच:
पश्य मे हय़संय़ाने शिक्षां केशवनन्दन ||
५ ख
वासुदेव उवाच:
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः |
६ क
वासुदेव उवाच:
वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम् ||
६ ख
वासुदेव उवाच:
एवमुक्त्वा ततो वीर हय़ान्सञ्चोद्य सङ्गरे |
७ क
वासुदेव उवाच:
रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा ||
७ ख
वासुदेव उवाच:
मण्डलानि विचित्राणि यमकानीतराणि च |
८ क
वासुदेव उवाच:
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ||
८ ख
वासुदेव उवाच:
प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः |
९ क
वासुदेव उवाच:
उत्पतन्त इवाकाशं विवभुस्ते हय़ोत्तमाः ||
९ ख
वासुदेव उवाच:
ते हस्तलाघवोपेतं विज्ञाय़ नृप दारुकिम् |
१० क
वासुदेव उवाच:
दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम् ||
१० ख
वासुदेव उवाच:
सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ |
११ क
वासुदेव उवाच:
चकार नातिय़त्नेन तदद्भुतमिवाभवत् ||
११ ख
वासुदेव उवाच:
अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट् |
१२ क
वासुदेव उवाच:
यन्तारमस्य सहसा त्रिभिर्वाणैः समर्पय़त् ||
१२ ख
वासुदेव उवाच:
दारुकस्य सुतस्तं तु वाणवेगमचिन्तय़न् |
१३ क
वासुदेव उवाच:
भूय़ एव महावाहो प्रय़यौ हय़संमतः ||
१३ ख
वासुदेव उवाच:
ततो वाणान्वहुविधान्पुनरेव स सौभराट् |
१४ क
वासुदेव उवाच:
मुमोच तनय़े वीरे मम रुक्मिणिनन्दने ||
१४ ख
वासुदेव उवाच:
तानप्राप्ताञ्शितैर्वाणैश्चिच्छेद परवीरहा |
१५ क
वासुदेव उवाच:
रौक्मिणेय़ः स्मितं कृत्वा दर्शय़न्हस्तलाघवम् ||
१५ ख
वासुदेव उवाच:
छिन्नान्दृष्ट्वा तु तान्वाणान्प्रद्युम्नेन स सौभराट् |
१६ क
वासुदेव उवाच:
आसुरीं दारुणीं माय़ामास्थाय़ व्यसृजच्छरान् ||
१६ ख
वासुदेव उवाच:
प्रय़ुज्यमानमाज्ञाय़ दैतेय़ास्त्रं महावलः |
१७ क
वासुदेव उवाच:
व्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः ||
१७ ख
वासुदेव उवाच:
ते तदस्त्रं विधूय़ाशु विव्यधू रुधिराशनाः |
१८ क
वासुदेव उवाच:
शिरस्युरसि वक्त्रे च स मुमोह पपात च ||
१८ ख
वासुदेव उवाच:
तस्मिन्निपतिते क्षुद्रे शाल्वे वाणप्रपीडिते |
१९ क
वासुदेव उवाच:
रौक्मिणेय़ोऽपरं वाणं सन्दधे शत्रुनाशनम् ||
१९ ख
वासुदेव उवाच:
तमर्चितं सर्वदाशार्हपूगै; राशीर्भिरर्कज्वलनप्रकाशम् |
२० क
वासुदेव उवाच:
दृष्ट्वा शरं ज्यामभिनीय़मानं; वभूव हाहाकृतमन्तरिक्षम् ||
२० ख
वासुदेव उवाच:
ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः |
२१ क
वासुदेव उवाच:
नारदं प्रेषय़ामासुः श्वसनं च महावलम् ||
२१ ख
वासुदेव उवाच:
तौ रौक्मिणेय़मागम्य वचोऽव्रूतां दिवौकसाम् |
२२ क
वासुदेव उवाच:
नैष वध्यस्त्वय़ा वीर शाल्वराजः कथञ्चन ||
२२ ख
वासुदेव उवाच:
संहरस्व पुनर्वाणमवध्योऽय़ं त्वय़ा रणे |
२३ क
वासुदेव उवाच:
एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित् ||
२३ ख
वासुदेव उवाच:
मृत्युरस्य महावाहो रणे देवकिनन्दनः |
२४ क
वासुदेव उवाच:
कृष्णः सङ्कल्पितो धात्रा तन्न मिथ्या भवेदिति ||
२४ ख
वासुदेव उवाच:
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् |
२५ क
वासुदेव उवाच:
सञ्जहार धनुःश्रेष्ठात्तूणे चैव न्यवेशय़त् ||
२५ ख
वासुदेव उवाच:
तत उत्थाय़ राजेन्द्र शाल्वः परमदुर्मनाः |
२६ क
वासुदेव उवाच:
व्यपाय़ात्सवलस्तूर्णं प्रद्युम्नशरपीडितः ||
२६ ख
वासुदेव उवाच:
स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः |
२७ क
वासुदेव उवाच:
सौभमास्थाय़ राजेन्द्र दिवमाचक्रमे तदा ||
२७ ख