chevron_left उद्योग पर्व अध्याय २०
वैशम्पाय़न उवाच:
स तु कौरव्यमासाद्य द्रुपदस्य पुरोहितः |
१ क
वैशम्पाय़न उवाच:
सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च ||
१ ख
वैशम्पाय़न उवाच:
सर्वं कौशल्यमुक्त्वादौ पृष्ट्वा चैवमनामय़म् |
२ क
वैशम्पाय़न उवाच:
सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह ||
२ ख
वैशम्पाय़न उवाच:
सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः |
३ क
वैशम्पाय़न उवाच:
वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति ||
३ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ |
४ क
वैशम्पाय़न उवाच:
तय़ोः समानं द्रविणं पैतृकं नात्र संशय़ः ||
४ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रस्य ये पुत्रास्ते प्राप्ताः पैतृकं वसु |
५ क
वैशम्पाय़न उवाच:
पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु ||
५ ख
वैशम्पाय़न उवाच:
एवं गते पाण्डवेय़ैर्विदितं वः पुरा यथा |
६ क
वैशम्पाय़न उवाच:
न प्राप्तं पैतृकं द्रव्यं धार्तराष्ट्रेण संवृतम् ||
६ ख
वैशम्पाय़न उवाच:
प्राणान्तिकैरप्युपाय़ैः प्रय़तद्भिरनेकशः |
७ क
वैशम्पाय़न उवाच:
शेषवन्तो न शकिता नय़ितुं यमसादनम् ||
७ ख
वैशम्पाय़न उवाच:
पुनश्च वर्धितं राज्यं स्ववलेन महात्मभिः |
८ क
वैशम्पाय़न उवाच:
छद्मनापहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौवलैः ||
८ ख
वैशम्पाय़न उवाच:
तदप्यनुमतं कर्म तथाय़ुक्तमनेन वै |
९ क
वैशम्पाय़न उवाच:
वासिताश्च महारण्ये वर्षाणीह त्रय़ोदश ||
९ ख
वैशम्पाय़न उवाच:
सभाय़ां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम् |
१० क
वैशम्पाय़न उवाच:
अरण्ये विविधाः क्लेशाः सम्प्राप्तास्तैः सुदारुणाः ||
१० ख
वैशम्पाय़न उवाच:
तथा विराटनगरे योन्यन्तरगतैरिव |
११ क
वैशम्पाय़न उवाच:
प्राप्तः परमसङ्क्लेशो यथा पापैर्महात्मभिः ||
११ ख
वैशम्पाय़न उवाच:
ते सर्वे पृष्ठतः कृत्वा तत्सर्वं पूर्वकिल्विषम् |
१२ क
वैशम्पाय़न उवाच:
सामैव कुरुभिः सार्धमिच्छन्ति कुरुपुङ्गवाः ||
१२ ख
वैशम्पाय़न उवाच:
तेषां च वृत्तमाज्ञाय़ वृत्तं दुर्योधनस्य च |
१३ क
वैशम्पाय़न उवाच:
अनुनेतुमिहार्हन्ति धृतराष्ट्रं सुहृज्जनाः ||
१३ ख
वैशम्पाय़न उवाच:
न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह |
१४ क
वैशम्पाय़न उवाच:
अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् ||
१४ ख
वैशम्पाय़न उवाच:
यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति |
१५ क
वैशम्पाय़न उवाच:
स च हेतुर्न मन्तव्यो वलीय़ांसस्तथा हि ते ||
१५ ख
वैशम्पाय़न उवाच:
अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य सङ्गताः |
१६ क
वैशम्पाय़न उवाच:
युय़ुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् ||
१६ ख
वैशम्पाय़न उवाच:
अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः |
१७ क
वैशम्पाय़न उवाच:
सात्यकिर्भीमसेनश्च यमौ च सुमहावलौ ||
१७ ख
वैशम्पाय़न उवाच:
एकादशैताः पृतना एकतश्च समागताः |
१८ क
वैशम्पाय़न उवाच:
एकतश्च महावाहुर्वहुरूपो धनञ्जय़ः ||
१८ ख
वैशम्पाय़न उवाच:
यथा किरीटी सेनाभ्यः सर्वाभ्यो व्यतिरिच्यते |
१९ क
वैशम्पाय़न उवाच:
एवमेव महावाहुर्वासुदेवो महाद्युतिः ||
१९ ख
वैशम्पाय़न उवाच:
वहुलत्वं च सेनानां विक्रमं च किरीटिनः |
२० क
वैशम्पाय़न उवाच:
वुद्धिमत्तां च कृष्णस्य वुद्ध्वा युध्येत को नरः ||
२० ख
वैशम्पाय़न उवाच:
ते भवन्तो यथाधर्मं यथासमय़मेव च |
२१ क
वैशम्पाय़न उवाच:
प्रय़च्छन्तु प्रदातव्यं मा वः कालोऽत्यगादय़म् ||
२१ ख