धृतराष्ट्र उवाच:
सूर्योदय़े सञ्जय़ के नु पूर्वं; युय़ुत्सवो हृष्यमाणा इवासन् |
१ क
धृतराष्ट्र उवाच:
मामका वा भीष्मनेत्राः समीके; पाण्डवा वा भीमनेत्रास्तदानीम् ||
१ ख
धृतराष्ट्र उवाच:
केषां जघन्यौ सोमसूर्यौ सवाय़ू; केषां सेनां श्वापदा व्याभषन्त |
२ क
धृतराष्ट्र उवाच:
केषां यूनां मुखवर्णाः प्रसन्नाः; सर्वं ह्येतद्व्रूहि तत्त्वं यथावत् ||
२ ख
सञ्जय़ उवाच:
उभे सेने तुल्यमिवोपय़ाते; उभे व्यूहे हृष्टरूपे नरेन्द्र |
३ क
सञ्जय़ उवाच:
उभे चित्रे वनराजिप्रकाशे; तथैवोभे नागरथाश्वपूर्णे ||
३ ख
सञ्जय़ उवाच:
उभे सेने वृहती भीमरूपे; तथैवोभे भारत दुर्विषह्ये |
४ क
सञ्जय़ उवाच:
तथैवोभे स्वर्गजय़ाय़ सृष्टे; तथा ह्युभे सत्पुरुषार्यगुप्ते ||
४ ख
सञ्जय़ उवाच:
पश्चान्मुखाः कुरवो धार्तराष्ट्राः; स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः |
५ क
सञ्जय़ उवाच:
दैत्येन्द्रसेनेव च कौरवाणां; देवेन्द्रसेनेव च पाण्डवानाम् ||
५ ख
सञ्जय़ उवाच:
शुक्रो वाय़ुः पृष्ठतः पाण्डवानां; धार्तराष्ट्राञ्श्वापदा व्याभषन्त |
६ क
सञ्जय़ उवाच:
गजेन्द्राणां मदगन्धांश्च तीव्रा; न्न सेहिरे तव पुत्रस्य नागाः ||
६ ख
सञ्जय़ उवाच:
दुर्योधनो हस्तिनं पद्मवर्णं; सुवर्णकक्ष्यं जातिवलं प्रभिन्नम् |
७ क
सञ्जय़ उवाच:
समास्थितो मध्यगतः कुरूणां; संस्तूय़मानो वन्दिभिर्मागधैश्च ||
७ ख
सञ्जय़ उवाच:
चन्द्रप्रभं श्वेतमस्यातपत्रं; सौवर्णी स्रग्भ्राजते चोत्तमाङ्गे |
८ क
सञ्जय़ उवाच:
तं सर्वतः शकुनिः पार्वतीय़ैः; सार्धं गान्धारैः पाति गान्धारराजः ||
८ ख
सञ्जय़ उवाच:
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः; श्वेतच्छत्रः श्वेतधनुः सशङ्खः |
९ क
सञ्जय़ उवाच:
श्वेतोष्णीषः पाण्डुरेण ध्वजेन; श्वेतैरश्वैः श्वेतशैलप्रकाशः ||
९ ख
सञ्जय़ उवाच:
तस्य सैन्यं धार्तराष्ट्राश्च सर्वे; वाह्लीकानामेकदेशः शलश्च |
१० क
सञ्जय़ उवाच:
ये चाम्वष्ठाः क्षत्रिय़ा ये च सिन्धौ; तथा सौवीराः पञ्चनदाश्च शूराः ||
१० ख
सञ्जय़ उवाच:
शोणैर्हय़ै रुक्मरथो महात्मा; द्रोणो महावाहुरदीनसत्त्वः |
११ क
सञ्जय़ उवाच:
आस्ते गुरुः प्रय़शाः सर्वराज्ञां; पश्चाच्चमूमिन्द्र इवाभिरक्षन् ||
११ ख
सञ्जय़ उवाच:
वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रो जय़श्च |
१२ क
सञ्जय़ उवाच:
शाल्वा मत्स्याः केकय़ाश्चापि सर्वे; गजानीकैर्भ्रातरो योत्स्यमानाः ||
१२ ख
सञ्जय़ उवाच:
शारद्वतश्चोत्तरधूर्महात्मा; महेष्वासो गौतमश्चित्रय़ोधी |
१३ क
सञ्जय़ उवाच:
शकैः किरातैर्यवनैः पह्लवैश्च; सार्धं चमूमुत्तरतोऽभिपाति ||
१३ ख
सञ्जय़ उवाच:
महारथैरन्धकवृष्णिभोजैः; सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः |
१४ क
सञ्जय़ उवाच:
वृहद्वलः कृतवर्माभिगुप्तो; वलं त्वदीय़ं दक्षिणतोऽभिपाति ||
१४ ख
सञ्जय़ उवाच:
संशप्तकानामय़ुतं रथानां; मृत्युर्जय़ो वार्जुनस्येति सृष्टाः |
१५ क
सञ्जय़ उवाच:
येनार्जुनस्तेन राजन्कृतास्त्राः; प्रय़ाता वै ते त्रिगर्ताश्च शूराः ||
१५ ख
सञ्जय़ उवाच:
साग्रं शतसहस्रं तु नागानां तव भारत |
१६ क
सञ्जय़ उवाच:
नागे नागे रथशतं शतं चाश्वा रथे रथे ||
१६ ख
सञ्जय़ उवाच:
अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः |
१७ क
सञ्जय़ उवाच:
एवं व्यूढान्यनीकानि भीष्मेण तव भारत ||
१७ ख
सञ्जय़ उवाच:
अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम् |
१८ क
सञ्जय़ उवाच:
दिवसे दिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः ||
१८ ख
सञ्जय़ उवाच:
महारथौघविपुलः समुद्र इव पर्वणि |
१९ क
सञ्जय़ उवाच:
भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ||
१९ ख
सञ्जय़ उवाच:
अनन्तरूपा ध्वजिनी त्वदीय़ा; नरेन्द्र भीमा न तु पाण्डवानाम् |
२० क
सञ्जय़ उवाच:
तां त्वेव मन्ये वृहतीं दुष्प्रधृष्यां; यस्या नेतारौ केशवश्चार्जुनश्च ||
२० ख