सञ्जय़ उवाच:
ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम् |
१ क
सञ्जय़ उवाच:
महता शरवर्षेण प्रत्यगृह्णादभीतवत् ||
१ ख
सञ्जय़ उवाच:
ततो हलहलाशव्द आसीद्यौधिष्ठिरे वले |
२ क
सञ्जय़ उवाच:
जिघृक्षति महासिंहे गजानामिव यूथपम् ||
२ ख
सञ्जय़ उवाच:
दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः |
३ क
सञ्जय़ उवाच:
युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत् ||
३ ख
सञ्जय़ उवाच:
तत आचार्यपाञ्चाल्यौ युय़ुधाते परस्परम् |
४ क
सञ्जय़ उवाच:
विक्षोभय़न्तौ तत्सैन्यमिन्द्रवैरोचनाविव ||
४ ख
सञ्जय़ उवाच:
ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः |
५ क
सञ्जय़ उवाच:
अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः ||
५ ख
सञ्जय़ उवाच:
स शीघ्रतरमादाय़ धनुरन्यत्प्रतापवान् |
६ क
सञ्जय़ उवाच:
द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः ||
६ ख
सञ्जय़ उवाच:
ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे |
७ क
सञ्जय़ उवाच:
वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दय़त् ||
७ ख
सञ्जय़ उवाच:
सञ्छाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् |
८ क
सञ्जय़ उवाच:
चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह ||
८ ख
सञ्जय़ उवाच:
वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे |
९ क
सञ्जय़ उवाच:
विव्याध वलवान्राजंस्तदद्भुतमिवाभवत् ||
९ ख
सञ्जय़ उवाच:
द्रोणस्तु शरवर्षेण छाद्यमानो महारथः |
१० क
सञ्जय़ उवाच:
वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी ||
१० ख
सञ्जय़ उवाच:
ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च |
११ क
सञ्जय़ उवाच:
षड्भिः ससूतं सहय़ं शरैर्द्रोणोऽवधीद्वृकम् ||
११ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ सत्यजिद्वेगवत्तरम् |
१२ क
सञ्जय़ उवाच:
साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम् ||
१२ ख
सञ्जय़ उवाच:
स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे |
१३ क
सञ्जय़ उवाच:
ततस्तस्य विनाशाय़ सत्वरं व्यसृजच्छरान् ||
१३ ख
सञ्जय़ उवाच:
हय़ान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी |
१४ क
सञ्जय़ उवाच:
अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः ||
१४ ख
सञ्जय़ उवाच:
तथा सञ्छिद्यमानेषु कार्मुकेषु पुनः पुनः |
१५ क
सञ्जय़ उवाच:
पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समय़ोधय़त् ||
१५ ख
सञ्जय़ उवाच:
स सत्यजितमालक्ष्य तथोदीर्णं महाहवे |
१६ क
सञ्जय़ उवाच:
अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः ||
१६ ख
सञ्जय़ उवाच:
तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे |
१७ क
सञ्जय़ उवाच:
अपाय़ाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः ||
१७ ख
सञ्जय़ उवाच:
पाञ्चालाः केकय़ा मत्स्याश्चेदिकारूषकोसलाः |
१८ क
सञ्जय़ उवाच:
युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन् ||
१८ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा |
१९ क
सञ्जय़ उवाच:
व्यधमत्तान्यनीकानि तूलराशिमिवानिलः ||
१९ ख
सञ्जय़ उवाच:
निर्दहन्तमनीकानि तानि तानि पुनः पुनः |
२० क
सञ्जय़ उवाच:
द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत ||
२० ख
सञ्जय़ उवाच:
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः |
२१ क
सञ्जय़ उवाच:
षड्भिः ससूतं सहय़ं द्रोणं विद्ध्वानदद्भृशम् ||
२१ ख
सञ्जय़ उवाच:
तस्य नानदतो द्रोणः शिरः काय़ात्सकुण्डलम् |
२२ क
सञ्जय़ उवाच:
क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः ||
२२ ख
सञ्जय़ उवाच:
मत्स्याञ्जित्वाजय़च्चेदीन्कारूषान्केकय़ानपि |
२३ क
सञ्जय़ उवाच:
पाञ्चालान्सृञ्जय़ान्पाण्डून्भारद्वाजः पुनः पुनः ||
२३ ख
सञ्जय़ उवाच:
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् |
२४ क
सञ्जय़ उवाच:
दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जय़ाः ||
२४ ख
सञ्जय़ उवाच:
उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः |
२५ क
सञ्जय़ उवाच:
ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे ||
२५ ख
सञ्जय़ उवाच:
नागानश्वान्पदातींश्च रथिनो गजसादिनः |
२६ क
सञ्जय़ उवाच:
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म साय़काः ||
२६ ख
सञ्जय़ उवाच:
नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये |
२७ क
सञ्जय़ उवाच:
अश्मवर्षमिवावर्षत्परेषां भय़मादधत् ||
२७ ख
सञ्जय़ उवाच:
सर्वा दिशः समचरत्सैन्यं विक्षोभय़न्निव |
२८ क
सञ्जय़ उवाच:
वली शूरो महेष्वासो मित्राणामभय़ङ्करः ||
२८ ख
सञ्जय़ उवाच:
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् |
२९ क
सञ्जय़ उवाच:
दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः ||
२९ ख
सञ्जय़ उवाच:
द्रोणस्तु पाण्डवानीके चकार कदनं महत् |
३० क
सञ्जय़ उवाच:
यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः ||
३० ख
सञ्जय़ उवाच:
स शूरः सत्यवाक्प्राज्ञो वलवान्सत्यविक्रमः |
३१ क
सञ्जय़ उवाच:
महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम् ||
३१ ख
सञ्जय़ उवाच:
कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् |
३२ क
सञ्जय़ उवाच:
गजवाजिमहाग्राहामसिमीनां दुरासदाम् ||
३२ ख
सञ्जय़ उवाच:
वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् |
३३ क
सञ्जय़ उवाच:
चर्मवर्मप्लवां घोरां केशशैवलशाड्वलाम् ||
३३ ख
सञ्जय़ उवाच:
शरौघिणीं धनुःस्रोतां वाहुपन्नगसङ्कुलाम् |
३४ क
सञ्जय़ उवाच:
रणभूमिवहां घोरां कुरुसृञ्जय़वाहिनीम् |
३४ ख
सञ्जय़ उवाच:
मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् ||
३४ ग
सञ्जय़ उवाच:
उष्णीषफेनवसनां निष्कीर्णान्त्रसरीसृपाम् |
३५ क
सञ्जय़ उवाच:
वीरापहारिणीमुग्रां मांसशोणितकर्दमाम् ||
३५ ख
सञ्जय़ उवाच:
हस्तिग्राहां केतुवृक्षां क्षत्रिय़ाणां निमज्जनीम् |
३६ क
सञ्जय़ उवाच:
क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम् |
३६ ख
सञ्जय़ उवाच:
द्रोणः प्रावर्तय़त्तत्र नदीमन्तकगामिनीम् ||
३६ ग
सञ्जय़ उवाच:
क्रव्यादगणसङ्घुष्टां श्वशृगालगणाय़ुताम् |
३७ क
सञ्जय़ उवाच:
निषेवितां महारौद्रैः पिशिताशैः समन्ततः ||
३७ ख
सञ्जय़ उवाच:
तं दहन्तमनीकानि रथोदारं कृतान्तवत् |
३८ क
सञ्जय़ उवाच:
सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः ||
३८ ख
सञ्जय़ उवाच:
तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यताय़ुधाः |
३९ क
सञ्जय़ उवाच:
राजानो राजपुत्राश्च समन्तात्पर्यवारय़न् ||
३९ ख
सञ्जय़ उवाच:
ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः |
४० क
सञ्जय़ उवाच:
अभ्यतीत्य रथानीकं दृढसेनमपातय़त् ||
४० ख
सञ्जय़ उवाच:
ततो राजानमासाद्य प्रहरन्तमभीतवत् |
४१ क
सञ्जय़ उवाच:
अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात् ||
४१ ख
सञ्जय़ उवाच:
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः |
४२ क
सञ्जय़ उवाच:
त्राता ह्यभवदन्येषां न त्रातव्यः कथञ्चन ||
४२ ख
सञ्जय़ उवाच:
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् |
४३ क
सञ्जय़ उवाच:
वसुदानं च भल्लेन प्रेषय़द्यमसादनम् ||
४३ ख
सञ्जय़ उवाच:
अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् |
४४ क
सञ्जय़ उवाच:
क्षत्रदेवं तु भल्लेन रथनीडादपाहरत् ||
४४ ख
सञ्जय़ उवाच:
युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् |
४५ क
सञ्जय़ उवाच:
विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् ||
४५ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः |
४६ क
सञ्जय़ उवाच:
अपाय़ाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् ||
४६ ख
सञ्जय़ उवाच:
तं द्रोणः सधनुष्कं तु साश्वय़न्तारमक्षिणोत् |
४७ क
सञ्जय़ उवाच:
स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्वरात् ||
४७ ख
सञ्जय़ उवाच:
तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे |
४८ क
सञ्जय़ उवाच:
हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत् ||
४८ ख
सञ्जय़ उवाच:
तांस्तथा भृशसङ्क्रुद्धान्पाञ्चालान्मत्स्यकेकय़ान् |
४९ क
सञ्जय़ उवाच:
सृञ्जय़ान्पाण्डवांश्चैव द्रोणो व्यक्षोभय़द्वली ||
४९ ख