chevron_left शल्य पर्व अध्याय २०
सञ्जय़ उवाच:
तस्मिंस्तु निहते शूरे शाल्वे समितिशोभने |
१ क
सञ्जय़ उवाच:
तवाभज्यद्वलं वेगाद्वातेनेव महाद्रुमः ||
१ ख
सञ्जय़ उवाच:
तत्प्रभग्नं वलं दृष्ट्वा कृतवर्मा महारथः |
२ क
सञ्जय़ उवाच:
दधार समरे शूरः शत्रुसैन्यं महावलः ||
२ ख
सञ्जय़ उवाच:
संनिवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे |
३ क
सञ्जय़ उवाच:
शैलोपमं स्थितं राजन्कीर्यमाणं शरैर्युधि ||
३ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह |
४ क
सञ्जय़ उवाच:
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ||
४ ख
सञ्जय़ उवाच:
तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सह |
५ क
सञ्जय़ उवाच:
यदेको वारय़ामास पाण्डुसेनां दुरासदाम् ||
५ ख
सञ्जय़ उवाच:
तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे |
६ क
सञ्जय़ उवाच:
सिंहनादः प्रहृष्टानां दिवःस्पृक्सुमहानभूत् ||
६ ख
सञ्जय़ उवाच:
तेन शव्देन वित्रस्तान्पाञ्चालान्भरतर्षभ |
७ क
सञ्जय़ उवाच:
शिनेर्नप्ता महावाहुरन्वपद्यत सात्यकिः ||
७ ख
सञ्जय़ उवाच:
स समासाद्य राजानं क्षेमधूर्तिं महावलम् |
८ क
सञ्जय़ उवाच:
सप्तभिर्निशितैर्वाणैरनय़द्यमसादनम् ||
८ ख
सञ्जय़ उवाच:
तमाय़ान्तं महावाहुं प्रवपन्तं शिताञ्शरान् |
९ क
सञ्जय़ उवाच:
जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुङ्गवम् ||
९ ख
सञ्जय़ उवाच:
तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ |
१० क
सञ्जय़ उवाच:
अन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ ||
१० ख
सञ्जय़ उवाच:
पाण्डवाः सह पाञ्चालैर्योधाश्चान्ये नृपोत्तमाः |
११ क
सञ्जय़ उवाच:
प्रेक्षकाः समपद्यन्त तय़ोः पुरुषसिंहय़ोः ||
११ ख
सञ्जय़ उवाच:
नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ |
१२ क
सञ्जय़ उवाच:
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ ||
१२ ख
सञ्जय़ उवाच:
चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ |
१३ क
सञ्जय़ उवाच:
मुहुरन्तर्दधाते तौ वाणवृष्ट्या परस्परम् ||
१३ ख
सञ्जय़ उवाच:
चापवेगवलोद्धूतान्मार्गणान्वृष्णिसिंहय़ोः |
१४ क
सञ्जय़ उवाच:
आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ||
१४ ख
सञ्जय़ उवाच:
तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः |
१५ क
सञ्जय़ उवाच:
अविध्यन्निशितैर्वाणैश्चतुर्भिश्चतुरो हय़ान् ||
१५ ख
सञ्जय़ उवाच:
स दीर्घवाहुः सङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः |
१६ क
सञ्जय़ उवाच:
अष्टाभिः कृतवर्माणमविध्यत्परमेषुभिः ||
१६ ख
सञ्जय़ उवाच:
ततः पूर्णाय़तोत्सृष्टैः कृतवर्मा शिलाशितैः |
१७ क
सञ्जय़ उवाच:
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ||
१७ ख
सञ्जय़ उवाच:
निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः |
१८ क
सञ्जय़ उवाच:
अन्यदादत्त वेगेन शैनेय़ः सशरं धनुः ||
१८ ख
सञ्जय़ उवाच:
तदादाय़ धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् |
१९ क
सञ्जय़ उवाच:
आरोप्य च महावीर्यो महावुद्धिर्महावलः ||
१९ ख
सञ्जय़ उवाच:
अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा |
२० क
सञ्जय़ उवाच:
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ||
२० ख
सञ्जय़ उवाच:
ततः सुनिशितैर्वाणैर्दशभिः शिनिपुङ्गवः |
२१ क
सञ्जय़ उवाच:
जघान सूतमश्वांश्च ध्वजं च कृतवर्मणः ||
२१ ख
सञ्जय़ उवाच:
ततो राजन्महेष्वासः कृतवर्मा महारथः |
२२ क
सञ्जय़ उवाच:
हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम् ||
२२ ख
सञ्जय़ उवाच:
रोषेण महताविष्टः शूलमुद्यम्य मारिष |
२३ क
सञ्जय़ उवाच:
चिक्षेप भुजवेगेन जिघांसुः शिनिपुङ्गवम् ||
२३ ख
सञ्जय़ उवाच:
तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः |
२४ क
सञ्जय़ उवाच:
चूर्णितं पातय़ामास मोहय़न्निव माधवम् |
२४ ख
सञ्जय़ उवाच:
ततोऽपरेण भल्लेन हृद्येनं समताडय़त् ||
२४ ग
सञ्जय़ उवाच:
स युद्धे युय़ुधानेन हताश्वो हतसारथिः |
२५ क
सञ्जय़ उवाच:
कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत ||
२५ ख
सञ्जय़ उवाच:
तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते |
२६ क
सञ्जय़ उवाच:
समपद्यत सर्वेषां सैन्यानां सुमहद्भय़म् ||
२६ ख
सञ्जय़ उवाच:
पुत्रस्य तव चात्यर्थं विषादः समपद्यत |
२७ क
सञ्जय़ उवाच:
हतसूते हताश्वे च विरथे कृतवर्मणि ||
२७ ख
सञ्जय़ उवाच:
हताश्वं च समालक्ष्य हतसूतमरिन्दमम् |
२८ क
सञ्जय़ उवाच:
अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम् ||
२८ ख
सञ्जय़ उवाच:
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् |
२९ क
सञ्जय़ उवाच:
अपोवाह महावाहुस्तूर्णमाय़ोधनादपि ||
२९ ख
सञ्जय़ उवाच:
शैनेय़ेऽधिष्ठिते राजन्विरथे कृतवर्मणि |
३० क
सञ्जय़ उवाच:
दुर्योधनवलं सर्वं पुनरासीत्पराङ्मुखम् ||
३० ख
सञ्जय़ उवाच:
तत्परे नाववुध्यन्त सैन्येन रजसावृते |
३१ क
सञ्जय़ उवाच:
तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ||
३१ ख
सञ्जय़ उवाच:
दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्ववलमन्तिकात् |
३२ क
सञ्जय़ उवाच:
जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारय़त् ||
३२ ख
सञ्जय़ उवाच:
पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम् |
३३ क
सञ्जय़ उवाच:
शिखण्डिनं द्रौपदेय़ान्पाञ्चालानां च ये गणाः ||
३३ ख
सञ्जय़ उवाच:
केकय़ान्सोमकांश्चैव पाञ्चालांश्चैव मारिष |
३४ क
सञ्जय़ उवाच:
असम्भ्रमं दुराधर्षः शितैरस्त्रैरवारय़त् ||
३४ ख
सञ्जय़ उवाच:
अतिष्ठदाहवे यत्तः पुत्रस्तव महावलः |
३५ क
सञ्जय़ उवाच:
यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशय़न् ||
३५ ख
सञ्जय़ उवाच:
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे |
३६ क
सञ्जय़ उवाच:
अथान्यं रथमास्थाय़ हार्दिक्यः समपद्यत ||
३६ ख