व्याध उवाच:
ततो मोक्षे प्रय़तते नानुपाय़ादुपाय़तः ||
४९ ख
व्याध उवाच:
एवं निर्वेदमादत्ते पापं कर्म जहाति च |
५० क
व्याध उवाच:
धार्मिकश्चापि भवति मोक्षं च लभते परम् ||
५० ख
व्याध उवाच:
तपो निःश्रेय़सं जन्तोस्तस्य मूलं शमो दमः |
५१ क
व्याध उवाच:
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ||
५१ ख
व्याध उवाच:
इन्द्रिय़ाणां निरोधेन सत्येन च दमेन च |
५२ क
व्याध उवाच:
व्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ||
५२ ख
व्राह्मण उवाच:
इन्द्रिय़ाणि तु यान्याहुः कानि तानि यतव्रत |
५३ क
व्राह्मण उवाच:
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ||
५३ ख
व्राह्मण उवाच:
कथं च फलमाप्नोति तेषां धर्मभृतां वर |
५४ क
व्राह्मण उवाच:
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ||
५४ ख