chevron_left आदि पर्व अध्याय २००
जनमेजय़ उवाच:
एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन |
१ क
जनमेजय़ उवाच:
अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः ||
१ ख
जनमेजय़ उवाच:
सर्व एव महात्मानः पूर्वे मम पितामहाः |
२ क
जनमेजय़ उवाच:
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ||
२ ख
जनमेजय़ उवाच:
कथं वा पञ्च कृष्णाय़ामेकस्यां ते नराधिपाः |
३ क
जनमेजय़ उवाच:
वर्तमाना महाभागा नाभिद्यन्त परस्परम् ||
३ ख
जनमेजय़ उवाच:
श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन |
४ क
जनमेजय़ उवाच:
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णय़ा तय़ा ||
४ ख
वैशम्पाय़न उवाच:
धृतराष्ट्राभ्यनुज्ञाताः कृष्णय़ा सह पाण्डवाः |
५ क
वैशम्पाय़न उवाच:
रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परन्तपाः ||
५ ख
वैशम्पाय़न उवाच:
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः |
६ क
वैशम्पाय़न उवाच:
पालय़ामास धर्मेण पृथिवीं भ्रातृभिः सह ||
६ ख
वैशम्पाय़न उवाच:
जितारय़ो महाप्राज्ञाः सत्यधर्मपराय़णाः |
७ क
वैशम्पाय़न उवाच:
मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः ||
७ ख
वैशम्पाय़न उवाच:
कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः |
८ क
वैशम्पाय़न उवाच:
आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ||
८ ख
वैशम्पाय़न उवाच:
अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु |
९ क
वैशम्पाय़न उवाच:
नारदस्त्वथ देवर्षिराजगाम यदृच्छय़ा |
९ ख
वैशम्पाय़न उवाच:
आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ||
९ ग
वैशम्पाय़न उवाच:
देवर्षेरुपविष्टस्य स्वय़मर्घ्यं यथाविधि |
१० क
वैशम्पाय़न उवाच:
प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदय़त् ||
१० ख
वैशम्पाय़न उवाच:
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् |
११ क
वैशम्पाय़न उवाच:
आशीर्भिर्वर्धय़ित्वा तु तमुवाचास्यतामिति ||
११ ख
वैशम्पाय़न उवाच:
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः |
१२ क
वैशम्पाय़न उवाच:
प्रेषय़ामास कृष्णाय़ै भगवन्तमुपस्थितम् ||
१२ ख
वैशम्पाय़न उवाच:
श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता |
१३ क
वैशम्पाय़न उवाच:
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ||
१३ ख
वैशम्पाय़न उवाच:
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी |
१४ क
वैशम्पाय़न उवाच:
कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा ||
१४ ख
वैशम्पाय़न उवाच:
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः |
१५ क
वैशम्पाय़न उवाच:
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः |
१५ ख
वैशम्पाय़न उवाच:
गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ||
१५ ग
वैशम्पाय़न उवाच:
गताय़ामथ कृष्णाय़ां युधिष्ठिरपुरोगमान् |
१६ क
वैशम्पाय़न उवाच:
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ||
१६ ख
वैशम्पाय़न उवाच:
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी |
१७ क
वैशम्पाय़न उवाच:
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीय़ताम् ||
१७ ख
वैशम्पाय़न उवाच:
सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ |
१८ क
वैशम्पाय़न उवाच:
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ||
१८ ख
वैशम्पाय़न उवाच:
एकराज्यावेकगृहावेकशय़्यासनाशनौ |
१९ क
वैशम्पाय़न उवाच:
तिलोत्तमाय़ास्तौ हेतोरन्योन्यमभिजघ्नतुः ||
१९ ख
वैशम्पाय़न उवाच:
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् |
२० क
वैशम्पाय़न उवाच:
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ||
२० ख
युधिष्ठिर उवाच:
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने |
२१ क
युधिष्ठिर उवाच:
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ||
२१ ख
युधिष्ठिर उवाच:
अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा |
२२ क
युधिष्ठिर उवाच:
यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ||
२२ ख
युधिष्ठिर उवाच:
एतत्सर्वं यथावृत्तं विस्तरेण तपोधन |
२३ क
युधिष्ठिर उवाच:
श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः ||
२३ ख