मार्कण्डेय़ उवाच:
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर |
१ क
मार्कण्डेय़ उवाच:
विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः ||
१ ख
मार्कण्डेय़ उवाच:
श्रुतिप्रमाणो धर्मो हि वृद्धानामिति भाषितम् |
२ क
मार्कण्डेय़ उवाच:
सूक्ष्मा गतिर्हि धर्मस्य वहुशाखा ह्यनन्तिका ||
२ ख
मार्कण्डेय़ उवाच:
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् |
३ क
मार्कण्डेय़ उवाच:
अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत् ||
३ ख
मार्कण्डेय़ उवाच:
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा |
४ क
मार्कण्डेय़ उवाच:
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ||
४ ख
मार्कण्डेय़ उवाच:
यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम |
५ क
मार्कण्डेय़ उवाच:
अवश्यं तत्समाप्नोति पुरुषो नात्र संशय़ः ||
५ ख
मार्कण्डेय़ उवाच:
विषमां च दशां प्राप्य देवान्गर्हति वै भृशम् |
६ क
मार्कण्डेय़ उवाच:
आत्मनः कर्मदोषाणि न विजानात्यपण्डितः ||
६ ख
मार्कण्डेय़ उवाच:
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम |
७ क
मार्कण्डेय़ उवाच:
सुखदुःखविपर्यासो यदा समुपपद्यते |
७ ख
मार्कण्डेय़ उवाच:
नैनं प्रज्ञा सुनीतं वा त्राय़ते नैव पौरुषम् ||
७ ग
मार्कण्डेय़ उवाच:
यो यमिच्छेद्यथा कामं तं तं कामं समश्नुय़ात् |
८ क
मार्कण्डेय़ उवाच:
यदि स्यादपराधीनं पुरुषस्य क्रिय़ाफलम् ||
८ ख
मार्कण्डेय़ उवाच:
संय़ताश्चापि दक्षाश्च मतिमन्तश्च मानवाः |
९ क
मार्कण्डेय़ उवाच:
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ||
९ ख
मार्कण्डेय़ उवाच:
भूतानामपरः कश्चिद्धिंसाय़ां सततोत्थितः |
१० क
मार्कण्डेय़ उवाच:
वञ्चनाय़ां च लोकस्य स सुखेनेह जीवति ||
१० ख
मार्कण्डेय़ उवाच:
अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठति |
११ क
मार्कण्डेय़ उवाच:
कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ||
११ ख
मार्कण्डेय़ उवाच:
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः |
१२ क
मार्कण्डेय़ उवाच:
दशमासधृता गर्भे जाय़न्ते कुलपांसनाः ||
१२ ख
मार्कण्डेय़ उवाच:
अपरे धनधान्यैश्च भोगैश्च पितृसञ्चितैः |
१३ क
मार्कण्डेय़ उवाच:
विपुलैरभिजाय़न्ते लव्धास्तैरेव मङ्गलैः ||
१३ ख
मार्कण्डेय़ उवाच:
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशय़ः |
१४ क
मार्कण्डेय़ उवाच:
आधिभिश्चैव वाध्यन्ते व्याधैः क्षुद्रमृगा इव ||
१४ ख
मार्कण्डेय़ उवाच:
ते चापि कुशलैर्वैद्यैर्निपुणैः सम्भृतौषधैः |
१५ क
मार्कण्डेय़ उवाच:
व्याधय़ो विनिवार्यन्ते मृगा व्याधैरिव द्विज ||
१५ ख
मार्कण्डेय़ उवाच:
येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः |
१६ क
मार्कण्डेय़ उवाच:
न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर ||
१६ ख
मार्कण्डेय़ उवाच:
अपरे वाहुवलिनः क्लिश्यन्ते वहवो जनाः |
१७ क
मार्कण्डेय़ उवाच:
दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम ||
१७ ख
मार्कण्डेय़ उवाच:
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् |
१८ क
मार्कण्डेय़ उवाच:
स्रोतसासकृदाक्षिप्तं ह्रिय़माणं वलीय़सा ||
१८ ख
मार्कण्डेय़ उवाच:
न म्रिय़ेय़ुर्न जीर्येय़ुः सर्वे स्युः सार्वकामिकाः |
१९ क
मार्कण्डेय़ उवाच:
नाप्रिय़ं प्रतिपश्येय़ुर्वशित्वं यदि वै भवेत् ||
१९ ख
मार्कण्डेय़ उवाच:
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते |
२० क
मार्कण्डेय़ उवाच:
यतते च यथाशक्ति न च तद्वर्तते तथा ||
२० ख
मार्कण्डेय़ उवाच:
वहवः सम्प्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः |
२१ क
मार्कण्डेय़ उवाच:
महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु ||
२१ ख
मार्कण्डेय़ उवाच:
न कश्चिदीशते व्रह्मन्स्वय़ङ्ग्राहस्य सत्तम |
२२ क
मार्कण्डेय़ उवाच:
कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ||
२२ ख
मार्कण्डेय़ उवाच:
यथा श्रुतिरिय़ं व्रह्मञ्जीवः किल सनातनः |
२३ क
मार्कण्डेय़ उवाच:
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ||
२३ ख
मार्कण्डेय़ उवाच:
वध्यमाने शरीरे तु देहनाशो भवत्युत |
२४ क
मार्कण्डेय़ उवाच:
जीवः सङ्क्रमतेऽन्यत्र कर्मवन्धनिवन्धनः ||
२४ ख
व्राह्मण उवाच:
कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः |
२५ क
व्राह्मण उवाच:
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर ||
२५ ख
व्याध उवाच:
न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्म्रिय़तेति मूढाः |
२६ क
व्याध उवाच:
जीवस्तु देहान्तरितः प्रय़ाति; दशार्धतैवास्य शरीरभेदः ||
२६ ख
व्याध उवाच:
अन्यो हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी |
२७ क
व्याध उवाच:
यत्तेन किञ्चिद्धि कृतं हि कर्म; तदश्नुते नास्ति कृतस्य नाशः ||
२७ ख
व्याध उवाच:
अपुण्यशीलाश्च भवन्ति पुण्या; नरोत्तमाः पापकृतो भवन्ति |
२८ क
व्याध उवाच:
नरोऽनुय़ातस्त्विह कर्मभिः स्वै; स्ततः समुत्पद्यति भावितस्तैः ||
२८ ख
व्राह्मण उवाच:
कथं सम्भवते योनौ कथं वा पुण्यपापय़ोः |
२९ क
व्राह्मण उवाच:
जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम ||
२९ ख
व्याध उवाच:
गर्भाधानसमाय़ुक्तं कर्मेदं सम्प्रदृश्यते |
३० क
व्याध उवाच:
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम ||
३० ख
व्याध उवाच:
यथा सम्भृतसम्भारः पुनरेव प्रजाय़ते |
३१ क
व्याध उवाच:
शुभकृच्छुभय़ोनीषु पापकृत्पापय़ोनिषु ||
३१ ख
व्याध उवाच:
शुभैः प्रय़ोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् |
३२ क
व्याध उवाच:
मोहनीय़ैर्विय़ोनीषु त्वधोगामी च किल्विषैः ||
३२ ख
व्याध उवाच:
जातिमृत्युजरादुःखैः सततं समभिद्रुतः |
३३ क
व्याध उवाच:
संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः ||
३३ ख
व्याध उवाच:
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च |
३४ क
व्याध उवाच:
जीवाः सम्परिवर्तन्ते कर्मवन्धनिवन्धनाः ||
३४ ख
व्याध उवाच:
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः |
३५ क
व्याध उवाच:
तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते ||
३५ ख
व्याध उवाच:
ततः कर्म समादत्ते पुनरन्यन्नवं वहु |
३६ क
व्याध उवाच:
पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः ||
३६ ख
व्याध उवाच:
अजस्रमेव दुःखार्तोऽदुःखितः सुखसञ्ज्ञितः |
३७ क
व्याध उवाच:
ततोऽनिवृत्तवन्धत्वात्कर्मणामुदय़ादपि |
३७ ख
व्याध उवाच:
परिक्रामति संसारे चक्रवद्वहुवेदनः ||
३७ ग
व्याध उवाच:
स चेन्निवृत्तवन्धस्तु विशुद्धश्चापि कर्मभिः |
३८ क
व्याध उवाच:
प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति ||
३८ ख
व्याध उवाच:
पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति |
३९ क
व्याध उवाच:
तस्मात्पुण्यं यतेत्कर्तुं वर्जय़ेत च पातकम् ||
३९ ख
व्याध उवाच:
अनसूय़ुः कृतज्ञश्च कल्याणान्येव सेवते |
४० क
व्याध उवाच:
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ||
४० ख
व्याध उवाच:
संस्कृतस्य हि दान्तस्य निय़तस्य यतात्मनः |
४१ क
व्याध उवाच:
प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च ||
४१ ख
व्याध उवाच:
सतां धर्मेण वर्तेत क्रिय़ां शिष्टवदाचरेत् |
४२ क
व्याध उवाच:
असङ्क्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज ||
४२ ख
व्याध उवाच:
सन्ति ह्यागतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः |
४३ क
व्याध उवाच:
स्वधर्मेण क्रिय़ा लोके कर्मणः सोऽप्यसङ्करः ||
४३ ख
व्याध उवाच:
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति |
४४ क
व्याध उवाच:
तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम |
४४ ख
व्याध उवाच:
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ||
४४ ग
व्याध उवाच:
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति |
४५ क
व्याध उवाच:
स मैत्रजनसन्तुष्ट इह प्रेत्य च नन्दति ||
४५ ख
व्याध उवाच:
शव्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम |
४६ क
व्याध उवाच:
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ||
४६ ख
व्याध उवाच:
धर्मस्य च फलं लव्ध्वा न तृप्यति महाद्विज |
४७ क
व्याध उवाच:
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ||
४७ ख
व्याध उवाच:
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते |
४८ क
व्याध उवाच:
विरज्यति यथाकामं न च धर्मं विमुञ्चति ||
४८ ख
व्याध उवाच:
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षय़ात्मकम् |
४९ क