नारद उवाच:
शृणु मे विस्तरेणेममितिहासं पुरातनम् |
१ क
नारद उवाच:
भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर ||
१ ख
नारद उवाच:
महासुरस्यान्ववाय़े हिरण्यकशिपोः पुरा |
२ क
नारद उवाच:
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी वलवानभूत् ||
२ ख
नारद उवाच:
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ |
३ क
नारद उवाच:
सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः ||
३ ख
नारद उवाच:
अन्योन्यस्य प्रिय़करावन्योन्यस्य प्रिय़ंवदौ |
४ क
नारद उवाच:
एकशीलसमाचारौ द्विधैवैकं यथा कृतौ ||
४ ख
नारद उवाच:
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चय़ौ |
५ क
नारद उवाच:
त्रैलोक्यविजय़ार्थाय़ समास्थाय़ैकनिश्चय़म् ||
५ ख
नारद उवाच:
कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः |
६ क
नारद उवाच:
तौ तु दीर्घेण कालेन तपोय़ुक्तौ वभूवतुः ||
६ ख
नारद उवाच:
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ |
७ क
नारद उवाच:
मलोपचितसर्वाङ्गौ वाय़ुभक्षौ वभूवतुः ||
७ ख
नारद उवाच:
आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ |
८ क
नारद उवाच:
ऊर्ध्ववाहू चानिमिषौ दीर्घकालं धृतव्रतौ ||
८ ख
नारद उवाच:
तय़ोस्तपःप्रभावेण दीर्घकालं प्रतापितः |
९ क
नारद उवाच:
धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ||
९ ख
नारद उवाच:
ततो देवाभवन्भीता उग्रं दृष्ट्वा तय़ोस्तपः |
१० क
नारद उवाच:
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ||
१० ख
नारद उवाच:
रत्नैः प्रलोभय़ामासुः स्त्रीभिश्चोभौ पुनः पुनः |
११ क
नारद उवाच:
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ||
११ ख
नारद उवाच:
अथ माय़ां पुनर्देवास्तय़ोश्चक्रुर्महात्मनोः |
१२ क
नारद उवाच:
भगिन्यो मातरो भार्यास्तय़ोः परिजनस्तथा ||
१२ ख
नारद उवाच:
परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा |
१३ क
नारद उवाच:
स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः ||
१३ ख
नारद उवाच:
अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः |
१४ क
नारद उवाच:
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ||
१४ ख
नारद उवाच:
यदा क्षोभं नोपय़ाति नार्तिमन्यतरस्तय़ोः |
१५ क
नारद उवाच:
ततः स्त्रिय़स्ता भूतं च सर्वमन्तरधीय़त ||
१५ ख
नारद उवाच:
ततः पितामहः साक्षादभिगम्य महासुरौ |
१६ क
नारद उवाच:
वरेण छन्दय़ामास सर्वलोकपितामहः ||
१६ ख
नारद उवाच:
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ |
१७ क
नारद उवाच:
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ||
१७ ख
नारद उवाच:
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा |
१८ क
नारद उवाच:
आवय़ोस्तपसानेन यदि प्रीतः पितामहः ||
१८ ख
नारद उवाच:
माय़ाविदावस्त्रविदौ वलिनौ कामरूपिणौ |
१९ क
नारद उवाच:
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ||
१९ ख
पितामह उवाच:
ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति |
२० क
पितामह उवाच:
अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् ||
२० ख
पितामह उवाच:
करिष्यावेदमिति यन्महदभ्युत्थितं तपः |
२१ क
पितामह उवाच:
युवय़ोर्हेतुनानेन नामरत्वं विधीय़ते ||
२१ ख
पितामह उवाच:
त्रैलोक्यविजय़ार्थाय़ भवद्भ्यामास्थितं तपः |
२२ क
पितामह उवाच:
हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् ||
२२ ख
सुन्दोपसुन्दावू ऊचतुः:
त्रिषु लोकेषु यद्भूतं किञ्चित्स्थावरजङ्गमम् |
२३ क
सुन्दोपसुन्दावू ऊचतुः:
सर्वस्मान्नौ भय़ं न स्यादृतेऽन्योन्यं पितामह ||
२३ ख
पितामह उवाच:
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् |
२४ क
पितामह उवाच:
मृत्योर्विधानमेतच्च यथावद्वां भविष्यति ||
२४ ख
नारद उवाच:
ततः पितामहो दत्त्वा वरमेतत्तदा तय़ोः |
२५ क
नारद उवाच:
निवर्त्य तपसस्तौ च व्रह्मलोकं जगाम ह ||
२५ ख
नारद उवाच:
लव्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ |
२६ क
नारद उवाच:
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ||
२६ ख
नारद उवाच:
तौ तु लव्धवरौ दृष्ट्वा कृतकामौ महासुरौ |
२७ क
नारद उवाच:
सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् ||
२७ ख
नारद उवाच:
ततस्तौ तु जटा हित्वा मौलिनौ सम्वभूवतुः |
२८ क
नारद उवाच:
महार्हाभरणोपेतौ विरजोम्वरधारिणौ ||
२८ ख
नारद उवाच:
अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् |
२९ क
नारद उवाच:
दैत्येन्द्रौ परमप्रीतौ तय़ोश्चैव सुहृज्जनः ||
२९ ख
नारद उवाच:
भक्ष्यतां भुज्यतां नित्यं रम्यतां गीय़तामिति |
३० क
नारद उवाच:
पीय़तां दीय़तां चेति वाच आसन्गृहे गृहे ||
३० ख
नारद उवाच:
तत्र तत्र महापानैरुत्कृष्टतलनादितैः |
३१ क
नारद उवाच:
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ||
३१ ख
नारद उवाच:
तैस्तैर्विहारैर्वहुभिर्दैत्यानां कामरूपिणाम् |
३२ क
नारद उवाच:
समाः सङ्क्रीडतां तेषामहरेकमिवाभवत् ||
३२ ख