युधिष्ठिर उवाच:
के पूर्वमासन्पतय़ः प्रजानां भरतर्षभ |
१ क
युधिष्ठिर उवाच:
के चर्षय़ो महाभागा दिक्षु प्रत्येकशः स्मृताः ||
१ ख
भीष्म उवाच:
श्रूय़तां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि |
२ क
भीष्म उवाच:
प्रजानां पतय़ो ये स्म दिक्षु प्रत्येकशः स्मृताः ||
२ ख
भीष्म उवाच:
एकः स्वय़म्भूर्भगवानाद्यो व्रह्मा सनातनः |
३ क
भीष्म उवाच:
व्रह्मणः सप्त पुत्रा वै महात्मानः स्वय़म्भुवः ||
३ ख
भीष्म उवाच:
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः |
४ क
भीष्म उवाच:
वसिष्ठश्च महाभागः सदृशा वै स्वय़म्भुवा ||
४ ख
भीष्म उवाच:
सप्त व्रह्माण इत्येष पुराणे निश्चय़ो गतः |
५ क
भीष्म उवाच:
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् ||
५ ख
भीष्म उवाच:
अत्रिवंशसमुत्पन्नो व्रह्मय़ोनिः सनातनः |
६ क
भीष्म उवाच:
प्राचीनवर्हिर्भगवांस्तस्मात्प्राचेतसो दश ||
६ ख
भीष्म उवाच:
दशानां तनय़स्त्वेको दक्षो नाम प्रजापतिः |
७ क
भीष्म उवाच:
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते ||
७ ख
भीष्म उवाच:
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुते |
८ क
भीष्म उवाच:
अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः ||
८ ख
भीष्म उवाच:
अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान् |
९ क
भीष्म उवाच:
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ||
९ ख
भीष्म उवाच:
अर्यमा चैव भगवान्ये चान्ये तनय़ा विभो |
१० क
भीष्म उवाच:
एते प्रदेशाः कथिता भुवनानां प्रभावनाः ||
१० ख
भीष्म उवाच:
शशविन्दोश्च भार्याणां सहस्राणि दशाच्युत |
११ क
भीष्म उवाच:
एकैकस्यां सहस्रं तु तनय़ानामभूत्तदा ||
११ ख
भीष्म उवाच:
एवं शतसहस्राणां शतं तस्य महात्मनः |
१२ क
भीष्म उवाच:
पुत्राणां न च ते कञ्चिदिच्छन्त्यन्यं प्रजापतिम् ||
१२ ख
भीष्म उवाच:
प्रजामाचक्षते विप्राः पौराणीं शाशविन्दवीम् |
१३ क
भीष्म उवाच:
स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः ||
१३ ख
भीष्म उवाच:
एते प्रजानां पतय़ः समुद्दिष्टा यशस्विनः |
१४ क
भीष्म उवाच:
अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ||
१४ ख
भीष्म उवाच:
भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा |
१५ क
भीष्म उवाच:
सविता चैव धाता च विवस्वांश्च महावलः ||
१५ ख
भीष्म उवाच:
पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यते |
१६ क
भीष्म उवाच:
त एते द्वादशादित्याः कश्यपस्यात्मसम्भवाः ||
१६ ख
भीष्म उवाच:
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि |
१७ क
भीष्म उवाच:
मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ||
१७ ख
भीष्म उवाच:
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महाय़शाः |
१८ क
भीष्म उवाच:
अजैकपादहिर्वुध्न्यो विरूपाक्षोऽथ रैवतः ||
१८ ख
भीष्म उवाच:
हरश्च वहुरूपश्च त्र्यम्वकश्च सुरेश्वरः |
१९ क
भीष्म उवाच:
सावित्रश्च जय़न्तश्च पिनाकी चापराजितः |
१९ ख
भीष्म उवाच:
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः ||
१९ ग
भीष्म उवाच:
एत एवंविधा देवा मनोरेव प्रजापतेः |
२० क
भीष्म उवाच:
ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः ||
२० ख
भीष्म उवाच:
शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोः |
२१ क
भीष्म उवाच:
ऋभवो मरुतश्चैव देवानां चोदिता गणाः ||
२१ ख
भीष्म उवाच:
एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ |
२२ क
भीष्म उवाच:
आदित्याः क्षत्रिय़ास्तेषां विशस्तु मरुतस्तथा ||
२२ ख
भीष्म उवाच:
अश्विनौ तु मतौ शूद्रौ तपस्युग्रे समाहितौ |
२३ क
भीष्म उवाच:
स्मृतास्त्वङ्गिरसो देवा व्राह्मणा इति निश्चय़ः |
२३ ख
भीष्म उवाच:
इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् ||
२३ ग
भीष्म उवाच:
एतान्वै प्रातरुत्थाय़ देवान्यस्तु प्रकीर्तय़ेत् |
२४ क
भीष्म उवाच:
स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते ||
२४ ख
भीष्म उवाच:
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू |
२५ क
भीष्म उवाच:
औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः ||
२५ ख
भीष्म उवाच:
ऋषेर्मेधातिथेः पुत्रः कण्वो वर्हिषदस्तथा |
२६ क
भीष्म उवाच:
त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षय़स्तथा ||
२६ ख
भीष्म उवाच:
उन्मुचो विमुचश्चैव स्वस्त्यात्रेय़श्च वीर्यवान् |
२७ क
भीष्म उवाच:
प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः ||
२७ ख
भीष्म उवाच:
मित्रावरुणय़ोः पुत्रस्तथागस्त्यः प्रतापवान् |
२८ क
भीष्म उवाच:
एते व्रह्मर्षय़ो नित्यमाश्रिता दक्षिणां दिशम् ||
२८ ख
भीष्म उवाच:
रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् |
२९ क
भीष्म उवाच:
एकतश्च द्वितश्चैव त्रितश्चैव महर्षय़ः ||
२९ ख
भीष्म उवाच:
अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः |
३० क
भीष्म उवाच:
एते नव महात्मानः पश्चिमामाश्रिता दिशम् ||
३० ख
भीष्म उवाच:
आत्रेय़श्च वसिष्ठश्च कश्यपश्च महानृषिः |
३१ क
भीष्म उवाच:
गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः ||
३१ ख
भीष्म उवाच:
तथैव पुत्रो भगवानृचीकस्य महात्मनः |
३२ क
भीष्म उवाच:
जमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः ||
३२ ख
भीष्म उवाच:
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः |
३३ क
भीष्म उवाच:
साक्षिभूता महात्मानो भुवनानां प्रभावनाः ||
३३ ख
भीष्म उवाच:
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशः |
३४ क
भीष्म उवाच:
एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते ||
३४ ख
भीष्म उवाच:
यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः |
३५ क
भीष्म उवाच:
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत् ||
३५ ख