chevron_left वन पर्व अध्याय २०२
मार्कण्डेय़ उवाच:
एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत |
१ क
मार्कण्डेय़ उवाच:
कथामकथय़द्भूय़ो मनसः प्रीतिवर्धनीम् ||
१ ख
व्राह्मण उवाच:
महाभूतानि यान्याहुः पञ्च धर्मविदां वर |
२ क
व्राह्मण उवाच:
एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद ||
२ ख
व्याध उवाच:
भूमिरापस्तथा ज्योतिर्वाय़ुराकाशमेव च |
३ क
व्याध उवाच:
गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान् ||
३ ख
व्याध उवाच:
भूमिः पञ्चगुणा व्रह्मन्नुदकं च चतुर्गुणम् |
४ क
व्याध उवाच:
गुणास्त्रय़स्तेजसि च त्रय़श्चाकाशवातय़ोः ||
४ ख
व्याध उवाच:
शव्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः |
५ क
व्याध उवाच:
एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः ||
५ ख
व्याध उवाच:
शव्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम |
६ क
व्याध उवाच:
अपामेते गुणा व्रह्मन्कीर्तितास्तव सुव्रत ||
६ ख
व्याध उवाच:
शव्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रय़ः |
७ क
व्याध उवाच:
शव्दः स्पर्शश्च वाय़ौ तु शव्द आकाश एव च ||
७ ख
व्याध उवाच:
एते पञ्चदश व्रह्मन्गुणा भूतेषु पञ्चसु |
८ क
व्याध उवाच:
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः |
८ ख
व्याध उवाच:
अन्योन्यं नातिवर्तन्ते सम्पच्च भवति द्विज ||
८ ग
व्याध उवाच:
यदा तु विषमीभावमाचरन्ति चराचराः |
९ क
व्याध उवाच:
तदा देही देहमन्यं व्यतिरोहति कालतः ||
९ ख
व्याध उवाच:
आनुपूर्व्या विनश्यन्ति जाय़न्ते चानुपूर्वशः |
१० क
व्याध उवाच:
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः |
१० ख
व्याध उवाच:
यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् ||
१० ग
व्याध उवाच:
इन्द्रिय़ैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् |
११ क
व्याध उवाच:
अव्यक्तमिति विज्ञेय़ं लिङ्गग्राह्यमतीन्द्रिय़म् ||
११ ख
व्याध उवाच:
यथास्वं ग्राहकान्येषां शव्दादीनामिमानि तु |
१२ क
व्याध उवाच:
इन्द्रिय़ाणि यदा देही धारय़न्निह तप्यते ||
१२ ख
व्याध उवाच:
लोके विततमात्मानं लोकं चात्मनि पश्यति |
१३ क
व्याध उवाच:
परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति ||
१३ ख
व्याध उवाच:
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा |
१४ क
व्याध उवाच:
व्रह्मभूतस्य संय़ोगो नाशुभेनोपपद्यते ||
१४ ख
व्याध उवाच:
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् |
१५ क
व्याध उवाच:
लोको वुद्धिप्रकाशेन ज्ञेय़मार्गेण दृश्यते ||
१५ ख
व्याध उवाच:
अनादिनिधनं जन्तुमात्मय़ोनिं सदाव्ययम् |
१६ क
व्याध उवाच:
अनौपम्यममूर्तं च भगवानाह वुद्धिमान् |
१६ ख
व्याध उवाच:
तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि ||
१६ ग
व्याध उवाच:
इन्द्रिय़ाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ |
१७ क
व्याध उवाच:
निगृहीतविसृष्टानि स्वर्गाय़ नरकाय़ च ||
१७ ख
व्याध उवाच:
एष योगविधिः कृत्स्नो यावदिन्द्रिय़धारणम् |
१८ क
व्याध उवाच:
एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च ||
१८ ख
व्याध उवाच:
इन्द्रिय़ाणां प्रसङ्गेन दोषमृच्छत्यसंशय़म् |
१९ क
व्याध उवाच:
संनिय़म्य तु तान्येव ततः सिद्धिमवाप्नुते ||
१९ ख
व्याध उवाच:
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति |
२० क
व्याध उवाच:
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रिय़ः ||
२० ख
व्याध उवाच:
रथः शरीरं पुरुषस्य दृष्ट; मात्मा निय़न्तेन्द्रिय़ाण्याहुरश्वान् |
२१ क
व्याध उवाच:
तैरप्रमत्तः कुशली सदश्वै; र्दान्तैः सुखं याति रथीव धीरः ||
२१ ख
व्याध उवाच:
षण्णामात्मनि नित्यानामिन्द्रिय़ाणां प्रमाथिनाम् |
२२ क
व्याध उवाच:
यो धीरो धारय़ेद्रश्मीन्स स्यात्परमसारथिः ||
२२ ख
व्याध उवाच:
इन्द्रिय़ाणां प्रसृष्टानां हय़ानामिव वर्त्मसु |
२३ क
व्याध उवाच:
धृतिं कुर्वीत सारथ्ये धृत्या तानि जय़ेद्ध्रुवम् ||
२३ ख
व्याध उवाच:
इन्द्रिय़ाणां हि चरतां यन्मनोऽनुविधीय़ते |
२४ क
व्याध उवाच:
तदस्य हरते वुद्धिं नावं वाय़ुरिवाम्भसि ||
२४ ख
व्याध उवाच:
येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे |
२५ क
व्याध उवाच:
तेष्वध्यवसिताध्याय़ी विन्दते ध्यानजं फलम् ||
२५ ख