chevron_left आदि पर्व अध्याय २०३
नारद उवाच:
ततो देवर्षय़ः सर्वे सिद्धाश्च परमर्षय़ः |
१ क
नारद उवाच:
जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ||
१ ख
नारद उवाच:
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रिय़ाः |
२ क
नारद उवाच:
पितामहस्य भवनं जगतः कृपय़ा तदा ||
२ ख
नारद उवाच:
ततो ददृशुरासीनं सह देवैः पितामहम् |
३ क
नारद उवाच:
सिद्धैर्व्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ||
३ ख
नारद उवाच:
तत्र देवो महादेवस्तत्राग्निर्वाय़ुना सह |
४ क
नारद उवाच:
चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा वुधः ||
४ ख
नारद उवाच:
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः |
५ क
नारद उवाच:
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः |
५ ख
नारद उवाच:
ऋषय़ः सर्व एवैते पितामहमुपासते ||
५ ग
नारद उवाच:
ततोऽभिगम्य सहिताः सर्व एव महर्षय़ः |
६ क
नारद उवाच:
सुन्दोपसुन्दय़ोः कर्म सर्वमेव शशंसिरे ||
६ ख
नारद उवाच:
यथाकृतं यथा चैव कृतं येन क्रमेण च |
७ क
नारद उवाच:
न्यवेदय़ंस्ततः सर्वमखिलेन पितामहे ||
७ ख
नारद उवाच:
ततो देवगणाः सर्वे ते चैव परमर्षय़ः |
८ क
नारद उवाच:
तमेवार्थं पुरस्कृत्य पितामहमचोदय़न् ||
८ ख
नारद उवाच:
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा |
९ क
नारद उवाच:
मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चय़म् ||
९ ख
नारद उवाच:
तय़ोर्वधं समुद्दिश्य विश्वकर्माणमाह्वय़त् |
१० क
नारद उवाच:
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः |
१० ख
नारद उवाच:
सृज्यतां प्रार्थनीय़ेह प्रमदेति महातपाः ||
१० ग
नारद उवाच:
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च |
११ क
नारद उवाच:
निर्ममे योषितं दिव्यां चिन्तय़ित्वा प्रय़त्नतः ||
११ ख
नारद उवाच:
त्रिषु लोकेषु यत्किञ्चिद्भूतं स्थावरजङ्गमम् |
१२ क
नारद उवाच:
समानय़द्दर्शनीय़ं तत्तद्यत्नात्ततस्ततः ||
१२ ख
नारद उवाच:
कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशय़त् |
१३ क
नारद उवाच:
तां रत्नसङ्घातमय़ीमसृजद्देवरूपिणीम् ||
१३ ख
नारद उवाच:
सा प्रय़त्नेन महता निर्मिता विश्वकर्मणा |
१४ क
नारद उवाच:
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ||
१४ ख
नारद उवाच:
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा |
१५ क
नारद उवाच:
न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ||
१५ ख
नारद उवाच:
सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती |
१६ क
नारद उवाच:
जहार सर्वभूतानां चक्षूंषि च मनांसि च ||
१६ ख
नारद उवाच:
तिलं तिलं समानीय़ रत्नानां यद्विनिर्मिता |
१७ क
नारद उवाच:
तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ||
१७ ख
पितामह उवाच:
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे |
१८ क
पितामह उवाच:
प्रार्थनीय़ेन रूपेण कुरु भद्रे प्रलोभनम् ||
१८ ख
पितामह उवाच:
त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै |
१९ क
पितामह उवाच:
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ||
१९ ख
नारद उवाच:
सा तथेति प्रतिज्ञाय़ नमस्कृत्य पितामहम् |
२० क
नारद उवाच:
चकार मण्डलं तत्र विवुधानां प्रदक्षिणम् ||
२० ख
नारद उवाच:
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः |
२१ क
नारद उवाच:
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषय़ोऽभवन् ||
२१ ख
नारद उवाच:
कुर्वन्त्या तु तय़ा तत्र मण्डलं तत्प्रदक्षिणम् |
२२ क
नारद उवाच:
इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ||
२२ ख
नारद उवाच:
द्रष्टुकामस्य चात्यर्थं गताय़ाः पार्श्वतस्तदा |
२३ क
नारद उवाच:
अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ||
२३ ख
नारद उवाच:
पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् |
२४ क
नारद उवाच:
गताय़ाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ||
२४ ख
नारद उवाच:
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः |
२५ क
नारद उवाच:
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ||
२५ ख
नारद उवाच:
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा |
२६ क
नारद उवाच:
तथा सहस्रनेत्रश्च वभूव वलसूदनः ||
२६ ख
नारद उवाच:
तथा देवनिकाय़ानामृषीणां चैव सर्वशः |
२७ क
नारद उवाच:
मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ||
२७ ख
नारद उवाच:
तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् |
२८ क
नारद उवाच:
सर्वेषामेव भूय़िष्ठमृते देवं पितामहम् ||
२८ ख
नारद उवाच:
गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षय़ः |
२९ क
नारद उवाच:
कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा ||
२९ ख
नारद उवाच:
तिलोत्तमाय़ां तु तदा गताय़ां लोकभावनः |
३० क
नारद उवाच:
सर्वान्विसर्जय़ामास देवानृषिगणांश्च तान् ||
३० ख