chevron_left शान्ति पर्व अध्याय २०३
युधिष्ठिर उवाच:
योगं मे परमं तात मोक्षस्य वद भारत |
१ क
युधिष्ठिर उवाच:
तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
संवादं मोक्षसंय़ुक्तं शिष्यस्य गुरुणा सह ||
२ ख
भीष्म उवाच:
कश्चिद्व्राह्मणमासीनमाचार्यमृषिसत्तमम् |
३ क
भीष्म उवाच:
शिष्यः परममेधावी श्रेय़ोर्थी सुसमाहितः |
३ ख
भीष्म उवाच:
चरणावुपसङ्गृह्य स्थितः प्राञ्जलिरव्रवीत् ||
३ ग
भीष्म उवाच:
उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम |
४ क
भीष्म उवाच:
संशय़ो मे महान्कश्चित्तन्मे व्याख्यातुमर्हसि ||
४ ख
भीष्म उवाच:
कुतश्चाहं कुतश्च त्वं तत्सम्यग्व्रूहि यत्परम् |
५ क
भीष्म उवाच:
कथं च सर्वभूतेषु समेषु द्विजसत्तम |
५ ख
भीष्म उवाच:
सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षय़ोदय़ाः ||
५ ग
भीष्म उवाच:
वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत् |
६ क
भीष्म उवाच:
एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि ||
६ ख
गुरुरु उवाच:
शृणु शिष्य महाप्राज्ञ व्रह्मगुह्यमिदं परम् |
७ क
गुरुरु उवाच:
अध्यात्मं सर्वभूतानामागमानां च यद्वसु ||
७ ख
गुरुरु उवाच:
वासुदेवः सर्वमिदं विश्वस्य व्रह्मणो मुखम् |
८ क
गुरुरु उवाच:
सत्यं दानमथो यज्ञस्तितिक्षा दम आर्जवम् ||
८ ख
गुरुरु उवाच:
पुरुषं सनातनं विष्णुं यत्तद्वेदविदो विदुः |
९ क
गुरुरु उवाच:
सर्गप्रलय़कर्तारमव्यक्तं व्रह्म शाश्वतम् |
९ ख
गुरुरु उवाच:
तदिदं व्रह्म वार्ष्णेय़मितिहासं शृणुष्व मे ||
९ ग
गुरुरु उवाच:
व्राह्मणो व्राह्मणैः श्राव्यो राजन्यः क्षत्रिय़ैस्तथा |
१० क
गुरुरु उवाच:
माहात्म्यं देवदेवस्य विष्णोरमिततेजसः |
१० ख
गुरुरु उवाच:
अर्हस्त्वमसि कल्याण वार्ष्णेय़ं शृणु यत्परम् ||
१० ग
गुरुरु उवाच:
कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम् |
११ क
गुरुरु उवाच:
त्रैलोक्यं सर्वभूतेषु चक्रवत्परिवर्तते ||
११ ख
गुरुरु उवाच:
यत्तदक्षरमव्यक्तममृतं व्रह्म शाश्वतम् |
१२ क
गुरुरु उवाच:
वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम् ||
१२ ख
गुरुरु उवाच:
पितॄन्देवानृषींश्चैव तथा वै यक्षदानवान् |
१३ क
गुरुरु उवाच:
नागासुरमनुष्यांश्च सृजते परमोऽव्ययः ||
१३ ख
गुरुरु उवाच:
तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान् |
१४ क
गुरुरु उवाच:
प्रलय़े प्रकृतिं प्राप्य युगादौ सृजते प्रभुः ||
१४ ख
गुरुरु उवाच:
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये |
१५ क
गुरुरु उवाच:
दृश्यन्ते तानि तान्येव तथा व्रह्माहरात्रिषु ||
१५ ख
गुरुरु उवाच:
अथ यद्यद्यदा भावि कालय़ोगाद्युगादिषु |
१६ क
गुरुरु उवाच:
तत्तदुत्पद्यते ज्ञानं लोकय़ात्राविधानजम् ||
१६ ख
गुरुरु उवाच:
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षय़ः |
१७ क
गुरुरु उवाच:
लेभिरे तपसा पूर्वमनुज्ञाताः स्वय़म्भुवा ||
१७ ख
गुरुरु उवाच:
वेदविद्वेद भगवान्वेदाङ्गानि वृहस्पतिः |
१८ क
गुरुरु उवाच:
भार्गवो नीतिशास्त्रं च जगाद जगतो हितम् ||
१८ ख
गुरुरु उवाच:
गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम् |
१९ क
गुरुरु उवाच:
देवर्षिचरितं गार्ग्यः कृष्णात्रेय़श्चिकित्सितम् ||
१९ ख
गुरुरु उवाच:
न्याय़तन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः |
२० क
गुरुरु उवाच:
हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते ||
२० ख
गुरुरु उवाच:
अनाद्यं यत्परं व्रह्म न देवा नर्षय़ो विदुः |
२१ क
गुरुरु उवाच:
एकस्तद्वेद भगवान्धाता नाराय़णः प्रभुः ||
२१ ख
गुरुरु उवाच:
नाराय़णादृषिगणास्तथा मुख्याः सुरासुराः |
२२ क
गुरुरु उवाच:
राजर्षय़ः पुराणाश्च परमं दुःखभेषजम् ||
२२ ख
गुरुरु उवाच:
पुरुषाधिष्ठितं भावं प्रकृतिः सूय़ते सदा |
२३ क
गुरुरु उवाच:
हेतुय़ुक्तमतः सर्वं जगत्सम्परिवर्तते ||
२३ ख
गुरुरु उवाच:
दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः |
२४ क
गुरुरु उवाच:
प्रकृतिः सृजते तद्वदानन्त्यान्नापचीय़ते ||
२४ ख
गुरुरु उवाच:
अव्यक्तकर्मजा वुद्धिरहङ्कारं प्रसूय़ते |
२५ क
गुरुरु उवाच:
आकाशं चाप्यहङ्काराद्वाय़ुराकाशसम्भवः ||
२५ ख
गुरुरु उवाच:
वाय़ोस्तेजस्ततश्चापस्त्वद्भ्यो हि वसुधोद्गता |
२६ क
गुरुरु उवाच:
मूलप्रकृतय़ोऽष्टौ ता जगदेतास्ववस्थितम् ||
२६ ख
गुरुरु उवाच:
ज्ञानेन्द्रिय़ाण्यतः पञ्च पञ्च कर्मेन्द्रिय़ाण्यपि |
२७ क
गुरुरु उवाच:
विषय़ाः पञ्च चैकं च विकारे षोडशं मनः ||
२७ ख
गुरुरु उवाच:
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रिय़ाण्यपि |
२८ क
गुरुरु उवाच:
पादौ पाय़ुरुपस्थश्च हस्तौ वाक्कर्मणामपि ||
२८ ख
गुरुरु उवाच:
शव्दः स्पर्शोऽथ रूपं च रसो गन्धस्तथैव च |
२९ क
गुरुरु उवाच:
विज्ञेय़ं व्यापकं चित्तं तेषु सर्वगतं मनः ||
२९ ख
गुरुरु उवाच:
रसज्ञाने तु जिह्वेय़ं व्याहृते वाक्तथैव च |
३० क
गुरुरु उवाच:
इन्द्रिय़ैर्विविधैर्युक्तं सर्वं व्यस्तं मनस्तथा ||
३० ख
गुरुरु उवाच:
विद्यात्तु षोडशैतानि दैवतानि विभागशः |
३१ क
गुरुरु उवाच:
देहेषु ज्ञानकर्तारमुपासीनमुपासते ||
३१ ख
गुरुरु उवाच:
तद्वत्सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः |
३२ क
गुरुरु उवाच:
श्रोत्रं शव्दगुणं चैव चक्षुरग्नेर्गुणस्तथा |
३२ ख
गुरुरु उवाच:
स्पर्शं वाय़ुगुणं विद्यात्सर्वभूतेषु सर्वदा ||
३२ ग
गुरुरु उवाच:
मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा |
३३ क
गुरुरु उवाच:
सर्वभूतात्मभूतस्थं तस्माद्वुध्येत वुद्धिमान् ||
३३ ख
गुरुरु उवाच:
एते भावा जगत्सर्वं वहन्ति सचराचरम् |
३४ क
गुरुरु उवाच:
श्रिता विरजसं देवं यमाहुः परमं पदम् ||
३४ ख
गुरुरु उवाच:
नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम् |
३५ क
गुरुरु उवाच:
व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते ||
३५ ख
गुरुरु उवाच:
अजरः सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान् |
३६ क
गुरुरु उवाच:
व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रय़ः ||
३६ ख
गुरुरु उवाच:
यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् |
३७ क
गुरुरु उवाच:
ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु ||
३७ ख
गुरुरु उवाच:
सोऽत्र वेदय़ते वेद्यं स शृणोति स पश्यति |
३८ क
गुरुरु उवाच:
कारणं तस्य देहोऽय़ं स कर्ता सर्वकर्मणाम् ||
३८ ख
गुरुरु उवाच:
अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते |
३९ क
गुरुरु उवाच:
तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ||
३९ ख
गुरुरु उवाच:
नदीष्वापो यथा युक्ता यथा सूर्ये मरीचय़ः |
४० क
गुरुरु उवाच:
सन्तन्वाना यथा यान्ति तथा देहाः शरीरिणाम् ||
४० ख
गुरुरु उवाच:
स्वप्नय़ोगे यथैवात्मा पञ्चेन्द्रिय़समागतः |
४१ क
गुरुरु उवाच:
देहमुत्सृज्य वै याति तथैवात्रोपलभ्यते ||
४१ ख
गुरुरु उवाच:
कर्मणा व्याप्यते पूर्वं कर्मणा चोपपद्यते |
४२ क
गुरुरु उवाच:
कर्मणा नीय़तेऽन्यत्र स्वकृतेन वलीय़सा ||
४२ ख
गुरुरु उवाच:
स तु देहाद्यथा देहं त्यक्त्वान्यं प्रतिपद्यते |
४३ क
गुरुरु उवाच:
तथा तं सम्प्रवक्ष्यामि भूतग्रामं स्वकर्मजम् ||
४३ ख