chevron_left द्रोण पर्व अध्याय ११३
धृतराष्ट्र उवाच:
महानपनय़ः सूत ममैवात्र विशेषतः |
१ क
धृतराष्ट्र उवाच:
स इदानीमनुप्राप्तो मन्ये सञ्जय़ शोचतः ||
१ ख
धृतराष्ट्र उवाच:
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् |
२ क
धृतराष्ट्र उवाच:
इदानीमत्र किं कार्यं प्रकरिष्यामि सञ्जय़ ||
२ ख
धृतराष्ट्र उवाच:
यथा त्वेष क्षय़ो वृत्तो ममापनय़सम्भवः |
३ क
धृतराष्ट्र उवाच:
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि सञ्जय़ ||
३ ख
सञ्जय़ उवाच:
कर्णभीमौ महाराज पराक्रान्तौ महाहवे |
४ क
सञ्जय़ उवाच:
वाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्वुदौ ||
४ ख
सञ्जय़ उवाच:
भीमनामाङ्किता वाणाः स्वर्णपुङ्खाः शिलाशिताः |
५ क
सञ्जय़ उवाच:
विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् ||
५ ख
सञ्जय़ उवाच:
तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः |
६ क
सञ्जय़ उवाच:
आकीर्यत रणे भीमः शतशोऽथ सहस्रशः ||
६ ख
सञ्जय़ उवाच:
तय़ोः शरैर्महाराज सम्पतद्भिः समन्ततः |
७ क
सञ्जय़ उवाच:
वभूव तव सैन्यानां सङ्क्षोभः सागरोपमः ||
७ ख
सञ्जय़ उवाच:
भीमचापच्युतैर्वाणैस्तव सैन्यमरिन्दम |
८ क
सञ्जय़ उवाच:
अवध्यत चमूमध्ये घोरैराशीविषोपमैः ||
८ ख
सञ्जय़ उवाच:
वारणैः पतितै राजन्वाजिभिश्च नरैः सह |
९ क
सञ्जय़ उवाच:
अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव ||
९ ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे भीमचापच्युतैः शरैः |
१० क
सञ्जय़ उवाच:
प्राद्रवंस्तावका योधाः किमेतदिति चाव्रुवन् ||
१० ख
सञ्जय़ उवाच:
ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् |
११ क
सञ्जय़ उवाच:
प्रोत्सारितं महावेगैः कर्णपाण्डवय़ोः शरैः ||
११ ख
सञ्जय़ उवाच:
ते शरातुरभूय़िष्ठा हताश्वनरवाहनाः |
१२ क
सञ्जय़ उवाच:
उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् ||
१२ ख
सञ्जय़ उवाच:
नूनं पार्थार्थमेवास्मान्मोहय़न्ति दिवौकसः |
१३ क
सञ्जय़ उवाच:
यत्कर्णभीमप्रभवैर्वध्यते नो वलं शरैः ||
१३ ख
सञ्जय़ उवाच:
एवं व्रुवन्तो योधास्ते तावका भय़पीडिताः |
१४ क
सञ्जय़ उवाच:
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ||
१४ ख
सञ्जय़ उवाच:
ततः प्रावर्तत नदी घोररूपा महाहवे |
१५ क
सञ्जय़ उवाच:
वभूव च विशेषेण भीरूणां भय़वर्धिनी ||
१५ ख
सञ्जय़ उवाच:
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा |
१६ क
सञ्जय़ उवाच:
संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः ||
१६ ख
सञ्जय़ उवाच:
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः |
१७ क
सञ्जय़ उवाच:
स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूवरैः ||
१७ ख
सञ्जय़ उवाच:
जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः |
१८ क
सञ्जय़ उवाच:
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ||
१८ ख
सञ्जय़ उवाच:
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः |
१९ क
सञ्जय़ उवाच:
प्रासतोमरसङ्घातैः खड्गैश्च सपरश्वधैः ||
१९ ख
सञ्जय़ उवाच:
सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः |
२० क
सञ्जय़ उवाच:
वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि |
२० ख
सञ्जय़ उवाच:
शतघ्नीभिश्च चित्राभिर्वभौ भारत मेदिनी ||
२० ग
सञ्जय़ उवाच:
कनकाङ्गदकेय़ूरैः कुण्डलैर्मणिभिः शुभैः |
२१ क
सञ्जय़ उवाच:
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ||
२१ ख
सञ्जय़ उवाच:
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि |
२२ क
सञ्जय़ उवाच:
गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः ||
२२ ख
सञ्जय़ उवाच:
तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुन्धरा |
२३ क
सञ्जय़ उवाच:
पतितैरपविद्धैश्च सम्वभौ द्यौरिव ग्रहैः ||
२३ ख
सञ्जय़ उवाच:
अचिन्त्यमद्भुतं चैव तय़ोः कर्मातिमानुषम् |
२४ क
सञ्जय़ उवाच:
दृष्ट्वा चारणसिद्धानां विस्मय़ः समपद्यत ||
२४ ख
सञ्जय़ उवाच:
अग्नेर्वाय़ुसहाय़स्य गतिः कक्ष इवाहवे |
२५ क
सञ्जय़ उवाच:
आसीद्भीमसहाय़स्य रौद्रमाधिरथेर्गतम् |
२५ ख
सञ्जय़ उवाच:
निपातितध्वजरथं हतवाजिनरद्विपम् ||
२५ ग
सञ्जय़ उवाच:
गजाभ्यां सम्प्रय़ुक्ताभ्यामासीन्नडवनं यथा |
२६ क
सञ्जय़ उवाच:
तथाभूतं महत्सैन्यमासीद्भारत संय़ुगे |
२६ ख
सञ्जय़ उवाच:
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ||
२६ ग