नारद उवाच:
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ |
१ क
नारद उवाच:
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ वभूवतुः ||
१ ख
नारद उवाच:
देवगन्धर्वय़क्षाणां नागपार्थिवरक्षसाम् |
२ क
नारद उवाच:
आदाय़ सर्वरत्नानि परां तुष्टिमुपागतौ ||
२ ख
नारद उवाच:
यदा न प्रतिषेद्धारस्तय़ोः सन्तीह केचन |
३ क
नारद उवाच:
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ||
३ ख
नारद उवाच:
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः |
४ क
नारद उवाच:
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ||
४ ख
नारद उवाच:
अन्तःपुरे वनोद्याने पर्वतोपवनेषु च |
५ क
नारद उवाच:
यथेप्सितेषु देशेषु विजह्रातेऽमराविव ||
५ ख
नारद उवाच:
ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले |
६ क
नारद उवाच:
पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः ||
६ ख
नारद उवाच:
दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ |
७ क
नारद उवाच:
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः ||
७ ख
नारद उवाच:
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रिय़ः |
८ क
नारद उवाच:
गीतैश्च स्तुतिसंय़ुक्तैः प्रीत्यर्थमुपजग्मिरे ||
८ ख
नारद उवाच:
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती |
९ क
नारद उवाच:
वेषमाक्षिप्तमाधाय़ रक्तेनैकेन वाससा ||
९ ख
नारद उवाच:
नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती |
१० क
नारद उवाच:
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ||
१० ख
नारद उवाच:
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ |
११ क
नारद उवाच:
दृष्ट्वैव तां वरारोहां व्यथितौ सम्वभूवतुः ||
११ ख
नारद उवाच:
तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता |
१२ क
नारद उवाच:
उभौ च कामसंमत्तावुभौ प्रार्थय़तश्च ताम् ||
१२ ख
नारद उवाच:
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना |
१३ क
नारद उवाच:
उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् ||
१३ ख
नारद उवाच:
वरप्रदानमत्तौ तावौरसेन वलेन च |
१४ क
नारद उवाच:
धनरत्नमदाभ्यां च सुरापानमदेन च ||
१४ ख
नारद उवाच:
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ |
१५ क
नारद उवाच:
मदकामसमाविष्टौ परस्परमथोचतुः ||
१५ ख
नारद उवाच:
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत |
१६ क
नारद उवाच:
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ||
१६ ख
नारद उवाच:
नैषा तव ममैषेति तत्र तौ मन्युराविशत् |
१७ क
नारद उवाच:
तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् ||
१७ ख
नारद उवाच:
तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ |
१८ क
नारद उवाच:
अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ||
१८ ख
नारद उवाच:
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले |
१९ क
नारद उवाच:
रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ||
१९ ख
नारद उवाच:
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा |
२० क
नारद उवाच:
पातालमगमत्सर्वो विषादभय़कम्पितः ||
२० ख
नारद उवाच:
ततः पितामहस्तत्र सह देवैर्महर्षिभिः |
२१ क
नारद उवाच:
आजगाम विशुद्धात्मा पूजय़िष्यंस्तिलोत्तमाम् ||
२१ ख
नारद उवाच:
वरेण छन्दिता सा तु व्रह्मणा प्रीतिमेव ह |
२२ क
नारद उवाच:
वरय़ामास तत्रैनां प्रीतः प्राह पितामहः ||
२२ ख
नारद उवाच:
आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि |
२३ क
नारद उवाच:
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ||
२३ ख
नारद उवाच:
एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः |
२४ क
नारद उवाच:
इन्द्रे त्रैलोक्यमाधाय़ व्रह्मलोकं गतः प्रभुः ||
२४ ख
नारद उवाच:
एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चय़ौ |
२५ क
नारद उवाच:
तिलोत्तमार्थे सङ्क्रुद्धावन्योन्यमभिजघ्नतुः ||
२५ ख
नारद उवाच:
तस्माद्व्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् |
२६ क
नारद उवाच:
यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते |
२६ ख
नारद उवाच:
तथा कुरुत भद्रं वो मम चेत्प्रिय़मिच्छथ ||
२६ ग
वैशम्पाय़न उवाच:
एवमुक्ता महात्मानो नारदेन महर्षिणा |
२७ क
वैशम्पाय़न उवाच:
समय़ं चक्रिरे राजंस्तेऽन्योन्येन समागताः |
२७ ख
वैशम्पाय़न उवाच:
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ||
२७ ग
वैशम्पाय़न उवाच:
द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शय़ेत् |
२८ क
वैशम्पाय़न उवाच:
स नो द्वादश वर्षाणि व्रह्मचारी वने वसेत् ||
२८ ख
वैशम्पाय़न उवाच:
कृते तु समय़े तस्मिन्पाण्डवैर्धर्मचारिभिः |
२९ क
वैशम्पाय़न उवाच:
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ||
२९ ख
वैशम्पाय़न उवाच:
एवं तैः समय़ः पूर्वं कृतो नरदचोदितैः |
३० क
वैशम्पाय़न उवाच:
न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत ||
३० ख