गुरुरु उवाच:
चतुर्विधानि भूतानि स्थावराणि चराणि च |
१ क
गुरुरु उवाच:
अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च |
१ ख
गुरुरु उवाच:
अव्यक्तनिधनं विद्यादव्यक्तात्मात्मकं मनः ||
१ ग
गुरुरु उवाच:
यथाश्वत्थकणीकाय़ामन्तर्भूतो महाद्रुमः |
२ क
गुरुरु उवाच:
निष्पन्नो दृश्यते व्यक्तमव्यक्तात्सम्भवस्तथा ||
२ ख
गुरुरु उवाच:
अभिद्रवत्ययस्कान्तमय़ो निश्चेतनावुभौ |
३ क
गुरुरु उवाच:
स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् ||
३ ख
गुरुरु उवाच:
तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः |
४ क
गुरुरु उवाच:
अचेतनाश्चेतय़ितुः कारणादभिसंहिताः ||
४ ख
गुरुरु उवाच:
न भूः खं द्यौर्न भूतानि नर्षय़ो न सुरासुराः |
५ क
गुरुरु उवाच:
नान्यदासीदृते जीवमासेदुर्न तु संहितम् ||
५ ख
गुरुरु उवाच:
सर्वनीत्या सर्वगतं मनोहेतु सलक्षणम् |
६ क
गुरुरु उवाच:
अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम् ||
६ ख
गुरुरु उवाच:
तत्कारणैर्हि संय़ुक्तं कार्यसङ्ग्रहकारकम् |
७ क
गुरुरु उवाच:
येनैतद्वर्तते चक्रमनादिनिधनं महत् ||
७ ख
गुरुरु उवाच:
अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् |
८ क
गुरुरु उवाच:
क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् ||
८ ख
गुरुरु उवाच:
स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत् |
९ क
गुरुरु उवाच:
तिलपीडैरिवाक्रम्य भोगैरज्ञानसम्भवैः ||
९ ख
गुरुरु उवाच:
कर्म तत्कुरुते तर्षादहङ्कारपरिग्रहम् |
१० क
गुरुरु उवाच:
कार्यकारणसंय़ोगे स हेतुरुपपादितः ||
१० ख
गुरुरु उवाच:
नात्येति कारणं कार्यं न कार्यं कारणं तथा |
११ क
गुरुरु उवाच:
कार्याणां तूपकरणे कालो भवति हेतुमान् ||
११ ख
गुरुरु उवाच:
हेतुय़ुक्ताः प्रकृतय़ो विकाराश्च परस्परम् |
१२ क
गुरुरु उवाच:
अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा ||
१२ ख
गुरुरु उवाच:
सरजस्तामसैर्भावैश्च्युतो हेतुवलान्वितः |
१३ क
गुरुरु उवाच:
क्षेत्रज्ञमेवानुय़ाति पांसुर्वातेरितो यथा |
१३ ख
गुरुरु उवाच:
न च तैः स्पृश्यते भावो न ते तेन महात्मना ||
१३ ग
गुरुरु उवाच:
सरजस्कोऽरजस्कश्च स वै वाय़ुर्यथा भवेत् |
१४ क
गुरुरु उवाच:
तथैतदन्तरं विद्यात्क्षेत्रक्षेत्रज्ञय़ोर्वुधः |
१४ ख
गुरुरु उवाच:
अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः ||
१४ ग
गुरुरु उवाच:
सन्देहमेतमुत्पन्नमच्छिनद्भगवानृषिः |
१५ क
गुरुरु उवाच:
तथा वार्तां समीक्षेत कृतलक्षणसंमिताम् ||
१५ ख
गुरुरु उवाच:
वीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः |
१६ क
गुरुरु उवाच:
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्वध्यते पुनः ||
१६ ख