वैशम्पाय़न उवाच:
एवं ते समय़ं कृत्वा न्यवसंस्तत्र पाण्डवाः |
१ क
वैशम्पाय़न उवाच:
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ||
१ ख
वैशम्पाय़न उवाच:
तेषां मनुजसिंहानां पञ्चानाममितौजसाम् |
२ क
वैशम्पाय़न उवाच:
वभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ||
२ ख
वैशम्पाय़न उवाच:
ते तय़ा तैश्च सा वीरैः पतिभिः सह पञ्चभिः |
३ क
वैशम्पाय़न उवाच:
वभूव परमप्रीता नागैरिव सरस्वती ||
३ ख
वैशम्पाय़न उवाच:
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु |
४ क
वैशम्पाय़न उवाच:
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ||
४ ख
वैशम्पाय़न उवाच:
अथ दीर्घेण कालेन व्राह्मणस्य विशां पते |
५ क
वैशम्पाय़न उवाच:
कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ||
५ ख
वैशम्पाय़न उवाच:
ह्रिय़माणे धने तस्मिन्व्राह्मणः क्रोधमूर्च्छितः |
६ क
वैशम्पाय़न उवाच:
आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ||
६ ख
वैशम्पाय़न उवाच:
ह्रिय़ते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः |
७ क
वैशम्पाय़न उवाच:
प्रसह्य वोऽस्माद्विषय़ादभिधावत पाण्डवाः ||
७ ख
वैशम्पाय़न उवाच:
व्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते |
८ क
वैशम्पाय़न उवाच:
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ||
८ ख
वैशम्पाय़न उवाच:
व्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते |
९ क
वैशम्पाय़न उवाच:
रोरूय़माणे च मय़ि क्रिय़तामस्त्रधारणम् ||
९ ख
वैशम्पाय़न उवाच:
रोरूय़माणस्याभ्याशे तस्य विप्रस्य पाण्डवः |
१० क
वैशम्पाय़न उवाच:
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जय़ः ||
१० ख
वैशम्पाय़न उवाच:
श्रुत्वा चैव महावाहुर्मा भैरित्याह तं द्विजम् |
११ क
वैशम्पाय़न उवाच:
आय़ुधानि च यत्रासन्पाण्डवानां महात्मनाम् |
११ ख
वैशम्पाय़न उवाच:
कृष्णय़ा सह तत्रासीद्धर्मराजो युधिष्ठिरः ||
११ ग
वैशम्पाय़न उवाच:
स प्रवेशाय़ चाशक्तो गमनाय़ च पाण्डवः |
१२ क
वैशम्पाय़न उवाच:
तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः |
१२ ख
वैशम्पाय़न उवाच:
आक्रन्दे तत्र कौन्तेय़श्चिन्तय़ामास दुःखितः ||
१२ ग
वैशम्पाय़न उवाच:
ह्रिय़माणे धने तस्मिन्व्राह्मणस्य तपस्विनः |
१३ क
वैशम्पाय़न उवाच:
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ||
१३ ख
वैशम्पाय़न उवाच:
उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः |
१४ क
वैशम्पाय़न उवाच:
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ||
१४ ख
वैशम्पाय़न उवाच:
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे |
१५ क
वैशम्पाय़न उवाच:
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ||
१५ ख
वैशम्पाय़न उवाच:
अनापृच्छ्य च राजानं गते मय़ि न संशय़ः |
१६ क
वैशम्पाय़न उवाच:
अजातशत्रोर्नृपतेर्मम चैवाप्रिय़ं भवेत् ||
१६ ख
वैशम्पाय़न उवाच:
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम |
१७ क
वैशम्पाय़न उवाच:
अधर्मो वा महानस्तु वने वा मरणं मम |
१७ ख
वैशम्पाय़न उवाच:
शरीरस्यापि नाशेन धर्म एव विशिष्यते ||
१७ ग
वैशम्पाय़न उवाच:
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जय़ः |
१८ क
वैशम्पाय़न उवाच:
अनुप्रविश्य राजानमापृच्छ्य च विशां पते ||
१८ ख
वैशम्पाय़न उवाच:
धनुरादाय़ संहृष्टो व्राह्मणं प्रत्यभाषत |
१९ क
वैशम्पाय़न उवाच:
व्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ||
१९ ख
वैशम्पाय़न उवाच:
न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह |
२० क
वैशम्पाय़न उवाच:
यावदावर्तय़ाम्यद्य चोरहस्ताद्धनं तव ||
२० ख
वैशम्पाय़न उवाच:
सोऽनुसृत्य महावाहुर्धन्वी वर्मी रथी ध्वजी |
२१ क
वैशम्पाय़न उवाच:
शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ||
२१ ख
वैशम्पाय़न उवाच:
व्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः |
२२ क
वैशम्पाय़न उवाच:
आजगाम पुरं वीरः सव्यसाची परन्तपः ||
२२ ख
वैशम्पाय़न उवाच:
सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः |
२३ क
वैशम्पाय़न उवाच:
धर्मराजमुवाचेदं व्रतमादिश्यतां मम ||
२३ ख
वैशम्पाय़न उवाच:
समय़ः समतिक्रान्तो भवत्सन्दर्शनान्मय़ा |
२४ क
वैशम्पाय़न उवाच:
वनवासं गमिष्यामि समय़ो ह्येष नः कृतः ||
२४ ख
वैशम्पाय़न उवाच:
इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रिय़म् |
२५ क
वैशम्पाय़न उवाच:
कथमित्यव्रवीद्वाचा शोकार्तः सज्जमानय़ा |
२५ ख
वैशम्पाय़न उवाच:
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ||
२५ ग
वैशम्पाय़न उवाच:
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ |
२६ क
वैशम्पाय़न उवाच:
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रिय़म् |
२६ ख
वैशम्पाय़न उवाच:
सर्वं तदनुजानामि व्यलीकं न च मे हृदि ||
२६ ग
वैशम्पाय़न उवाच:
गुरोरनुप्रवेशो हि नोपघातो यवीय़सः |
२७ क
वैशम्पाय़न उवाच:
यवीय़सोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ||
२७ ख
वैशम्पाय़न उवाच:
निवर्तस्व महावाहो कुरुष्व वचनं मम |
२८ क
वैशम्पाय़न उवाच:
न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ||
२८ ख
अर्जुन उवाच:
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् |
२९ क
अर्जुन उवाच:
न सत्याद्विचलिष्यामि सत्येनाय़ुधमालभे ||
२९ ख
वैशम्पाय़न उवाच:
सोऽभ्यनुज्ञाप्य राजानं व्रह्मचर्याय़ दीक्षितः |
३० क
वैशम्पाय़न उवाच:
वने द्वादश वर्षाणि वासाय़ोपजगाम ह ||
३० ख