chevron_left शान्ति पर्व अध्याय २०५
गुरुरु उवाच:
प्रवृत्तिलक्षणो धर्मो यथाय़मुपपद्यते |
१ क
गुरुरु उवाच:
तेषां विज्ञाननिष्ठानामन्यत्तत्त्वं न रोचते ||
१ ख
गुरुरु उवाच:
दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः |
२ क
गुरुरु उवाच:
प्रय़ोजनमतस्त्वत्र मार्गमिच्छन्ति संस्तुतम् ||
२ ख
गुरुरु उवाच:
सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम् |
३ क
गुरुरु उवाच:
इय़ं सा वुद्धिरन्येय़ं यय़ा याति परां गतिम् ||
३ ख
गुरुरु उवाच:
शरीरवानुपादत्ते मोहात्सर्वपरिग्रहान् |
४ क
गुरुरु उवाच:
कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः ||
४ ख
गुरुरु उवाच:
नाशुद्धमाचरेत्तस्मादभीप्सन्देहय़ापनम् |
५ क
गुरुरु उवाच:
कर्मणो विवरं कुर्वन्न लोकानाप्नुय़ाच्छुभान् ||
५ ख
गुरुरु उवाच:
लोहय़ुक्तं यथा हेम विपक्वं न विराजते |
६ क
गुरुरु उवाच:
तथापक्वकषाय़ाख्यं विज्ञानं न प्रकाशते ||
६ ख
गुरुरु उवाच:
यश्चाधर्मं चरेन्मोहात्कामलोभावनु प्लवन् |
७ क
गुरुरु उवाच:
धर्म्यं पन्थानमाक्रम्य सानुवन्धो विनश्यति ||
७ ख
गुरुरु उवाच:
शन्दादीन्विषय़ांस्तस्मादसंरागादनुप्लवेत् |
८ क
गुरुरु उवाच:
क्रोधहर्षौ विषादश्च जाय़न्ते हि परस्परम् ||
८ ख
गुरुरु उवाच:
पञ्चभूतात्मके देहे सत्त्वराजसतामसे |
९ क
गुरुरु उवाच:
कमभिष्टुवते चाय़ं कं वा क्रोशति किं वदेत् ||
९ ख
गुरुरु उवाच:
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति वालिशाः |
१० क
गुरुरु उवाच:
नावगच्छन्त्यविज्ञानादात्मजं पार्थिवं गुणम् ||
१० ख
गुरुरु उवाच:
मृन्मय़ं शरणं यद्वन्मृदैव परिलिप्यते |
११ क
गुरुरु उवाच:
पार्थिवोऽय़ं तथा देहो मृद्विकारैर्विलिप्यते ||
११ ख
गुरुरु उवाच:
मधु तैलं पय़ः सर्पिर्मांसानि लवणं गुडः |
१२ क
गुरुरु उवाच:
धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा ||
१२ ख
गुरुरु उवाच:
यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत् |
१३ क
गुरुरु उवाच:
श्रमादाहारमादद्यादस्वाद्वपि हि यापनम् ||
१३ ख
गुरुरु उवाच:
तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः |
१४ क
गुरुरु उवाच:
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा ||
१४ ख
गुरुरु उवाच:
सत्यशौचार्जवत्यागैर्यशसा विक्रमेण च |
१५ क
गुरुरु उवाच:
क्षान्त्या धृत्या च वुद्ध्या च मनसा तपसैव च ||
१५ ख
गुरुरु उवाच:
भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम् |
१६ क
गुरुरु उवाच:
शान्तिमिच्छन्नदीनात्मा संय़च्छेदिन्द्रिय़ाणि च ||
१६ ख
गुरुरु उवाच:
सत्त्वेन रजसा चैव तमसा चैव मोहिताः |
१७ क
गुरुरु उवाच:
चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम् ||
१७ ख
गुरुरु उवाच:
तस्मात्सम्यक्परीक्षेत दोषानज्ञानसम्भवान् |
१८ क
गुरुरु उवाच:
अज्ञानप्रभवं नित्यमहङ्कारं परित्यजेत् ||
१८ ख
गुरुरु उवाच:
महाभूतानीन्द्रिय़ाणि गुणाः सत्त्वं रजस्तमः |
१९ क
गुरुरु उवाच:
त्रैलोक्यं सेश्वरं सर्वमहङ्कारे प्रतिष्ठितम् ||
१९ ख
गुरुरु उवाच:
यथेह निय़तं कालो दर्शय़त्यार्तवान्गुणान् |
२० क
गुरुरु उवाच:
तद्वद्भूतेष्वहङ्कारं विद्याद्भूतप्रवर्तकम् ||
२० ख
गुरुरु उवाच:
संमोहकं तमो विद्यात्कृष्णमज्ञानसम्भवम् |
२१ क
गुरुरु उवाच:
प्रीतिदुःखनिवद्धांश्च समस्तांस्त्रीनथो गुणान् |
२१ ख
गुरुरु उवाच:
सत्त्वस्य रजसश्चैव तमसश्च निवोध तान् ||
२१ ग
गुरुरु उवाच:
प्रमोहो हर्षजः प्रीतिरसन्देहो धृतिः स्मृतिः |
२२ क
गुरुरु उवाच:
एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान् ||
२२ ख
गुरुरु उवाच:
कामक्रोधौ प्रमादश्च लोभमोहौ भय़ं क्लमः |
२३ क
गुरुरु उवाच:
विषादशोकावरतिर्मानदर्पावनार्यता ||
२३ ख
गुरुरु उवाच:
दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम् |
२४ क
गुरुरु उवाच:
विमृशेदात्मसंस्थानामेकैकमनुसन्ततम् ||
२४ ख
शिष्य उवाच:
के दोषा मनसा त्यक्ताः के वुद्ध्या शिथिलीकृताः |
२५ क
शिष्य उवाच:
के पुनः पुनराय़ान्ति के मोहादफला इव ||
२५ ख
शिष्य उवाच:
केषां वलावलं वुद्ध्या हेतुभिर्विमृशेद्वुधः |
२६ क
शिष्य उवाच:
एतत्सर्वं समाचक्ष्व यथा विद्यामहं प्रभो ||
२६ ख
गुरुरु उवाच:
दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते |
२७ क
गुरुरु उवाच:
विनाशय़ति सम्भूतमय़स्मय़मय़ो यथा |
२७ ख
गुरुरु उवाच:
तथाकृतात्मा सहजैर्दोषैर्नश्यति राजसैः ||
२७ ग
गुरुरु उवाच:
राजसं तामसं चैव शुद्धात्माकर्मसम्भवम् |
२८ क
गुरुरु उवाच:
तत्सर्वं देहिनां वीजं सर्वमात्मवतः समम् ||
२८ ख
गुरुरु उवाच:
तस्मादात्मवता वर्ज्यं रजश्च तम एव च |
२९ क
गुरुरु उवाच:
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामिय़ात् ||
२९ ख
गुरुरु उवाच:
अथ वा मन्त्रवद्व्रूय़ुर्मांसादानां यजुष्कृतम् |
३० क
गुरुरु उवाच:
हेतुः स एवानादाने शुद्धधर्मानुपालने ||
३० ख
गुरुरु उवाच:
रजसा धर्मय़ुक्तानि कार्याण्यपि समाप्नुय़ात् |
३१ क
गुरुरु उवाच:
अर्थय़ुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते ||
३१ ख
गुरुरु उवाच:
तमसा लोभय़ुक्तानि क्रोधजानि च सेवते |
३२ क
गुरुरु उवाच:
हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः ||
३२ ख
गुरुरु उवाच:
सत्त्वस्थः सात्त्विकान्भावाञ्शुद्धान्पश्यति संश्रितः |
३३ क
गुरुरु उवाच:
स देही विमलः श्रीमाञ्शुद्धो विद्यासमन्वितः ||
३३ ख