वैशम्पाय़न उवाच:
तं प्रय़ान्तं महावाहुं कौरवाणां यशस्करम् |
१ क
वैशम्पाय़न उवाच:
अनुजग्मुर्महात्मानो व्राह्मणा वेदपारगाः ||
१ ख
वैशम्पाय़न उवाच:
वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः |
२ क
वैशम्पाय़न उवाच:
चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ||
२ ख
वैशम्पाय़न उवाच:
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः |
३ क
वैशम्पाय़न उवाच:
दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ||
३ ख
वैशम्पाय़न उवाच:
एतैश्चान्यैश्च वहुभिः सहाय़ैः पाण्डुनन्दनः |
४ क
वैशम्पाय़न उवाच:
वृतः श्लक्ष्णकथैः प्राय़ान्मरुद्भिरिव वासवः ||
४ ख
वैशम्पाय़न उवाच:
रमणीय़ानि चित्राणि वनानि च सरांसि च |
५ क
वैशम्पाय़न उवाच:
सरितः सागरांश्चैव देशानपि च भारत ||
५ ख
वैशम्पाय़न उवाच:
पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ |
६ क
वैशम्पाय़न उवाच:
स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः ||
६ ख
वैशम्पाय़न उवाच:
तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय़ |
७ क
वैशम्पाय़न उवाच:
कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी ||
७ ख
वैशम्पाय़न उवाच:
निविष्टे तत्र कौन्तेय़े व्राह्मणेषु च भारत |
८ क
वैशम्पाय़न उवाच:
अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ||
८ ख
वैशम्पाय़न उवाच:
तेषु प्रवोध्यमानेषु ज्वलितेषु हुतेषु च |
९ क
वैशम्पाय़न उवाच:
कृतपुष्पोपहारेषु तीरान्तरगतेषु च ||
९ ख
वैशम्पाय़न उवाच:
कृताभिषेकैर्विद्वद्भिर्निय़तैः सत्पथि स्थितैः |
१० क
वैशम्पाय़न उवाच:
शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ||
१० ख
वैशम्पाय़न उवाच:
तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः |
११ क
वैशम्पाय़न उवाच:
अभिषेकाय़ कौन्तेय़ो गङ्गामवततार ह ||
११ ख
वैशम्पाय़न उवाच:
तत्राभिषेकं कृत्वा स तर्पय़ित्वा पितामहान् |
१२ क
वैशम्पाय़न उवाच:
उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षय़ा ||
१२ ख
वैशम्पाय़न उवाच:
अपकृष्टो महावाहुर्नागराजस्य कन्यया |
१३ क
वैशम्पाय़न उवाच:
अन्तर्जले महाराज उलूप्या कामय़ानय़ा ||
१३ ख
वैशम्पाय़न उवाच:
ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् |
१४ क
वैशम्पाय़न उवाच:
कौरव्यस्याथ नागस्य भवने परमार्चिते ||
१४ ख
वैशम्पाय़न उवाच:
तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जय़ः |
१५ क
वैशम्पाय़न उवाच:
अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ||
१५ ख
वैशम्पाय़न उवाच:
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा |
१६ क
वैशम्पाय़न उवाच:
प्रहसन्निव कौन्तेय़ इदं वचनमव्रवीत् ||
१६ ख
वैशम्पाय़न उवाच:
किमिदं साहसं भीरु कृतवत्यसि भामिनि |
१७ क
वैशम्पाय़न उवाच:
कश्चाय़ं सुभगो देशः का च त्वं कस्य चात्मजा ||
१७ ख
उलूप्यु उवाच:
ऐरावतकुले जातः कौरव्यो नाम पन्नगः |
१८ क
उलूप्यु उवाच:
तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी ||
१८ ख
उलूप्यु उवाच:
साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् |
१९ क
उलूप्यु उवाच:
दृष्टवत्येव कौन्तेय़ कन्दर्पेणास्मि मूर्च्छिता ||
१९ ख
उलूप्यु उवाच:
तां मामनङ्गमथितां त्वत्कृते कुरुनन्दन |
२० क
उलूप्यु उवाच:
अनन्यां नन्दय़स्वाद्य प्रदानेनात्मनो रहः ||
२० ख
अर्जुन उवाच:
व्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम् |
२१ क
अर्जुन उवाच:
धर्मराजेन चादिष्टं नाहमस्मि स्वय़ंवशः ||
२१ ख
अर्जुन उवाच:
तव चापि प्रिय़ं कर्तुमिच्छामि जलचारिणि |
२२ क
अर्जुन उवाच:
अनृतं नोक्तपूर्वं च मय़ा किञ्चन कर्हिचित् ||
२२ ख
अर्जुन उवाच:
कथं च नानृतं तत्स्यात्तव चापि प्रिय़ं भवेत् |
२३ क
अर्जुन उवाच:
न च पीड्येत मे धर्मस्तथा कुर्यां भुजङ्गमे ||
२३ ख
उलूप्यु उवाच:
जानाम्यहं पाण्डवेय़ यथा चरसि मेदिनीम् |
२४ क
उलूप्यु उवाच:
यथा च ते व्रह्मचर्यमिदमादिष्टवान्गुरुः ||
२४ ख
उलूप्यु उवाच:
परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति |
२५ क
उलूप्यु उवाच:
यो नोऽनुप्रविशेन्मोहात्स नो द्वादशवार्षिकम् |
२५ ख
उलूप्यु उवाच:
वने चरेद्व्रह्मचर्यमिति वः समय़ः कृतः ||
२५ ग
उलूप्यु उवाच:
तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् |
२६ क
उलूप्यु उवाच:
कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ||
२६ ख
उलूप्यु उवाच:
परित्राणं च कर्तव्यमार्तानां पृथुलोचन |
२७ क
उलूप्यु उवाच:
कृत्वा मम परित्राणं तव धर्मो न लुप्यते ||
२७ ख
उलूप्यु उवाच:
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः |
२८ क
उलूप्यु उवाच:
स च ते धर्म एव स्याद्दात्त्वा प्राणान्ममार्जुन ||
२८ ख
उलूप्यु उवाच:
भक्तां भजस्व मां पार्थ सतामेतन्मतं प्रभो |
२९ क
उलूप्यु उवाच:
न करिष्यसि चेदेवं मृतां मामुपधारय़ ||
२९ ख
उलूप्यु उवाच:
प्राणदानान्महावाहो चर धर्ममनुत्तमम् |
३० क
उलूप्यु उवाच:
शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ||
३० ख
उलूप्यु उवाच:
दीनाननाथान्कौन्तेय़ परिरक्षसि नित्यशः |
३१ क
उलूप्यु उवाच:
साहं शरणमभ्येमि रोरवीमि च दुःखिता ||
३१ ख
उलूप्यु उवाच:
याचे त्वामभिकामाहं तस्मात्कुरु मम प्रिय़म् |
३२ क
उलूप्यु उवाच:
स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि ||
३२ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु कौन्तेय़ः पन्नगेश्वरकन्यया |
३३ क
वैशम्पाय़न उवाच:
कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ||
३३ ख
वैशम्पाय़न उवाच:
स नागभवने रात्रिं तामुषित्वा प्रतापवान् |
३४ क
वैशम्पाय़न उवाच:
उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ||
३४ ख