गुरुरु उवाच:
अत्रोपाय़ं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा |
१ क
गुरुरु उवाच:
तद्विज्ञानाच्चरन्प्राज्ञः प्राप्नुय़ात्परमां गतिम् ||
१ ख
गुरुरु उवाच:
सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते |
२ क
गुरुरु उवाच:
पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रवादिनः ||
२ ख
गुरुरु उवाच:
सर्वभूतविशिष्टास्ते सर्वज्ञाः सर्वदर्शिनः |
३ क
गुरुरु उवाच:
व्राह्मणा वेदतत्त्वज्ञास्तत्त्वार्थगतिनिश्चय़ाः ||
३ ख
गुरुरु उवाच:
नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि |
४ क
गुरुरु उवाच:
ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः ||
४ ख
गुरुरु उवाच:
तांस्तानुपासते धर्मान्धर्मकामा यथागमम् |
५ क
गुरुरु उवाच:
न त्वेषामर्थसामान्यमन्तरेण गुणानिमान् ||
५ ख
गुरुरु उवाच:
वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः |
६ क
गुरुरु उवाच:
सर्वधर्मेषु धर्मज्ञा ज्ञापय़न्ति गुणानिमान् ||
६ ख
गुरुरु उवाच:
यदिदं व्रह्मणो रूपं व्रह्मचर्यमिति स्मृतम् |
७ क
गुरुरु उवाच:
परं तत्सर्वभूतेभ्यस्तेन यान्ति परां गतिम् ||
७ ख
गुरुरु उवाच:
लिङ्गसंय़ोगहीनं यच्छरीरस्पर्शवर्जितम् |
८ क
गुरुरु उवाच:
श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम् ||
८ ख
गुरुरु उवाच:
जिह्वय़ा रसनं यच्च तदेव परिवर्जितम् |
९ क
गुरुरु उवाच:
वुद्ध्या च व्यवसाय़ेन व्रह्मचर्यमकल्मषम् ||
९ ख
गुरुरु उवाच:
सम्यग्वृत्तिर्व्रह्मलोकं प्राप्नुय़ान्मध्यमः सुरान् |
१० क
गुरुरु उवाच:
द्विजाग्र्यो जाय़ते विद्वान्कन्यसीं वृत्तिमास्थितः ||
१० ख
गुरुरु उवाच:
सुदुष्करं व्रह्मचर्यमुपाय़ं तत्र मे शृणु |
११ क
गुरुरु उवाच:
सम्प्रवृत्तमुदीर्णं च निगृह्णीय़ाद्द्विजो मनः ||
११ ख
गुरुरु उवाच:
योषितां न कथाः श्राव्या न निरीक्ष्या निरम्वराः |
१२ क
गुरुरु उवाच:
कदाचिद्दर्शनादासां दुर्वलानाविशेद्रजः ||
१२ ख
गुरुरु उवाच:
रागोत्पत्तौ चरेत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः |
१३ क
गुरुरु उवाच:
मग्नः स्वप्ने च मनसा त्रिर्जपेदघमर्षणम् ||
१३ ख
गुरुरु उवाच:
पाप्मानं निर्दहेदेवमन्तर्भूतं रजोमय़म् |
१४ क
गुरुरु उवाच:
ज्ञानय़ुक्तेन मनसा सन्ततेन विचक्षणः ||
१४ ख
गुरुरु उवाच:
कुणपामेध्यसंय़ुक्तं यद्वदच्छिद्रवन्धनम् |
१५ क
गुरुरु उवाच:
तद्वद्देहगतं विद्यादात्मानं देहवन्धनम् ||
१५ ख
गुरुरु उवाच:
वातपित्तकफान्रक्तं त्वङ्मांसं स्नाय़ुमस्थि च |
१६ क
गुरुरु उवाच:
मज्जां चैव सिराजालैस्तर्पय़न्ति रसा नृणाम् ||
१६ ख
गुरुरु उवाच:
दश विद्याद्धमन्योऽत्र पञ्चेन्द्रिय़गुणावहाः |
१७ क
गुरुरु उवाच:
याभिः सूक्ष्माः प्रताय़न्ते धमन्योऽन्याः सहस्रशः ||
१७ ख
गुरुरु उवाच:
एवमेताः सिरानद्यो रसोदा देहसागरम् |
१८ क
गुरुरु उवाच:
तर्पय़न्ति यथाकालमापगा इव सागरम् ||
१८ ख
गुरुरु उवाच:
मध्ये च हृदय़स्यैका सिरा त्वत्र मनोवहा |
१९ क
गुरुरु उवाच:
शुक्रं सङ्कल्पजं नॄणां सर्वगात्रैर्विमुञ्चति ||
१९ ख
गुरुरु उवाच:
सर्वगात्रप्रताय़िन्यस्तस्या ह्यनुगताः सिराः |
२० क
गुरुरु उवाच:
नेत्रय़ोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम् ||
२० ख
गुरुरु उवाच:
पय़स्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः |
२१ क
गुरुरु उवाच:
शुक्रं निर्मथ्यते तद्वद्देहसङ्कल्पजैः खजैः ||
२१ ख
गुरुरु उवाच:
स्वप्नेऽप्येवं यथाभ्येति मनःसङ्कल्पजं रजः |
२२ क
गुरुरु उवाच:
शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहा ||
२२ ख
गुरुरु उवाच:
महर्षिर्भगवानत्रिर्वेद तच्छुक्रसम्भवम् |
२३ क
गुरुरु उवाच:
त्रिवीजमिन्द्रदैवत्यं तस्मादिन्द्रिय़मुच्यते ||
२३ ख
गुरुरु उवाच:
ये वै शुक्रगतिं विद्युर्भूतसङ्करकारिकाम् |
२४ क
गुरुरु उवाच:
विरागा दग्धदोषास्ते नाप्नुय़ुर्देहसम्भवम् ||
२४ ख
गुरुरु उवाच:
गुणानां साम्यमागम्य मनसैव मनोवहम् |
२५ क
गुरुरु उवाच:
देहकर्म नुदन्प्राणानन्तकाले विमुच्यते ||
२५ ख
गुरुरु उवाच:
भविता मनसो ज्ञानं मन एव प्रताय़ते |
२६ क
गुरुरु उवाच:
ज्योतिष्मद्विरजो दिव्यमत्र सिद्धं महात्मनाम् ||
२६ ख
गुरुरु उवाच:
तस्मात्तदविघाताय़ कर्म कुर्यादकल्मषम् |
२७ क
गुरुरु उवाच:
रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुय़ात् ||
२७ ख
गुरुरु उवाच:
तरुणाधिगतं ज्ञानं जरादुर्वलतां गतम् |
२८ क
गुरुरु उवाच:
परिपक्ववुद्धिः कालेन आदत्ते मानसं वलम् ||
२८ ख
गुरुरु उवाच:
सुदुर्गमिव पन्थानमतीत्य गुणवन्धनम् |
२९ क
गुरुरु उवाच:
यदा पश्येत्तदा दोषानतीत्यामृतमश्नुते ||
२९ ख