वैशम्पाय़न उवाच:
श्रुत्वेमां धर्मसंय़ुक्तां धर्मराजः कथां शुभाम् |
१ क
वैशम्पाय़न उवाच:
पुनः पप्रच्छ तमृषिं मार्कण्डेय़ं तपस्विनम् ||
१ ख
युधिष्ठिर उवाच:
कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा |
२ क
युधिष्ठिर उवाच:
नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महानृषिः ||
२ ख
युधिष्ठिर उवाच:
अग्निर्यदा त्वेक एव वहुत्वं चास्य कर्मसु |
३ क
युधिष्ठिर उवाच:
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् ||
३ ख
युधिष्ठिर उवाच:
कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् |
४ क
युधिष्ठिर उवाच:
यथा रुद्राच्च सम्भूतो गङ्गाय़ां कृत्तिकासु च ||
४ ख
युधिष्ठिर उवाच:
एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन |
५ क
युधिष्ठिर उवाच:
कौतूहलसमाविष्टो यथातथ्यं महामुने ||
५ ख
मार्कण्डेय़ उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
६ क
मार्कण्डेय़ उवाच:
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ||
६ ख
मार्कण्डेय़ उवाच:
यथा च भगवानग्निः स्वय़मेवाङ्गिराभवत् |
७ क
मार्कण्डेय़ उवाच:
सन्तापय़न्स्वप्रभय़ा नाशय़ंस्तिमिराणि च ||
७ ख
मार्कण्डेय़ उवाच:
आश्रमस्थो महाभागो हव्यवाहं विशेषय़न् |
८ क
मार्कण्डेय़ उवाच:
तथा स भूत्वा तु तदा जगत्सर्वं प्रकाशय़न् ||
८ ख
मार्कण्डेय़ उवाच:
तपश्चरंश्च हुतभुक्सन्तप्तस्तस्य तेजसा |
९ क
मार्कण्डेय़ उवाच:
भृशं ग्लानश्च तेजस्वी न स किञ्चित्प्रजज्ञिवान् ||
९ ख
मार्कण्डेय़ उवाच:
अथ सञ्चिन्तय़ामास भगवान्हव्यवाहनः |
१० क
मार्कण्डेय़ उवाच:
अन्योऽग्निरिह लोकानां व्रह्मणा सम्प्रवर्तितः |
१० ख
मार्कण्डेय़ उवाच:
अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः ||
१० ग
मार्कण्डेय़ उवाच:
कथमग्निः पुनरहं भवेय़मिति चिन्त्य सः |
११ क
मार्कण्डेय़ उवाच:
अपश्यदग्निवल्लोकांस्तापय़न्तं महामुनिम् ||
११ ख
मार्कण्डेय़ उवाच:
सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः |
१२ क
मार्कण्डेय़ उवाच:
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः |
१२ ख
मार्कण्डेय़ उवाच:
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ||
१२ ग
मार्कण्डेय़ उवाच:
त्वमग्ने प्रथमः सृष्टो व्रह्मणा तिमिरापहः |
१३ क
मार्कण्डेय़ उवाच:
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद ||
१३ ख
अग्निरु उवाच:
नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः |
१४ क
अग्निरु उवाच:
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ||
१४ ख
अग्निरु उवाच:
निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव |
१५ क
अग्निरु उवाच:
भविष्यामि द्वितीय़ोऽहं प्राजापत्यक एव च ||
१५ ख
अङ्गिरा उवाच:
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः |
१६ क
अङ्गिरा उवाच:
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ||
१६ ख
मार्कण्डेय़ उवाच:
तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत् |
१७ क
मार्कण्डेय़ उवाच:
राजन्वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ||
१७ ख
मार्कण्डेय़ उवाच:
ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम् |
१८ क
मार्कण्डेय़ उवाच:
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ||
१८ ख
मार्कण्डेय़ उवाच:
स तु पृष्टस्तदा देवैस्ततः कारणमव्रवीत् |
१९ क
मार्कण्डेय़ उवाच:
प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा ||
१९ ख
मार्कण्डेय़ उवाच:
अत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् |
२० क
मार्कण्डेय़ उवाच:
कर्मभिर्वहुभिः ख्यातान्नानात्वं व्राह्मणेष्विह ||
२० ख