chevron_left आदि पर्व अध्याय २०८
वैशम्पाय़न उवाच:
ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः |
१ क
वैशम्पाय़न उवाच:
अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ||
१ ख
वैशम्पाय़न उवाच:
वर्जय़न्ति स्म तीर्थानि पञ्च तत्र तु तापसाः |
२ क
वैशम्पाय़न उवाच:
आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः ||
२ ख
वैशम्पाय़न उवाच:
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् |
३ क
वैशम्पाय़न उवाच:
कारन्धमं प्रसन्नं च हय़मेधफलं च यत् |
३ ख
वैशम्पाय़न उवाच:
भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ||
३ ग
वैशम्पाय़न उवाच:
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः |
४ क
वैशम्पाय़न उवाच:
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मवुद्धिभिः ||
४ ख
वैशम्पाय़न उवाच:
तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः |
५ क
वैशम्पाय़न उवाच:
तीर्थानीमानि वर्ज्यन्ते किमर्थं व्रह्मवादिभिः ||
५ ख
तापसा ऊचुः:
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् |
६ क
तापसा ऊचुः:
अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ||
६ ख
वैशम्पाय़न उवाच:
तेषां श्रुत्वा महावाहुर्वार्यमाणस्तपोधनैः |
७ क
वैशम्पाय़न उवाच:
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ||
७ ख
वैशम्पाय़न उवाच:
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् |
८ क
वैशम्पाय़न उवाच:
विगाह्य तरसा शूरः स्नानं चक्रे परन्तपः ||
८ ख
वैशम्पाय़न उवाच:
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् |
९ क
वैशम्पाय़न उवाच:
निजग्राह जले ग्राहः कुन्तीपुत्रं धनञ्जय़म् ||
९ ख
वैशम्पाय़न उवाच:
स तमादाय़ कौन्तेय़ो विस्फुरन्तं जलेचरम् |
१० क
वैशम्पाय़न उवाच:
उदतिष्ठन्महावाहुर्वलेन वलिनां वरः ||
१० ख
वैशम्पाय़न उवाच:
उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना |
११ क
वैशम्पाय़न उवाच:
वभूव नारी कल्याणी सर्वाभरणभूषिता |
११ ख
वैशम्पाय़न उवाच:
दीप्यमाना श्रिय़ा राजन्दिव्यरूपा मनोरमा ||
११ ग
वैशम्पाय़न उवाच:
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जय़ः |
१२ क
वैशम्पाय़न उवाच:
तां स्त्रिय़ं परमप्रीत इदं वचनमव्रवीत् ||
१२ ख
वैशम्पाय़न उवाच:
का वै त्वमसि कल्याणि कुतो वासि जलेचरी |
१३ क
वैशम्पाय़न उवाच:
किमर्थं च महत्पापमिदं कृतवती पुरा ||
१३ ख
नार्यु उवाच:
अप्सरास्मि महावाहो देवारण्यविचारिणी |
१४ क
नार्यु उवाच:
इष्टा धनपतेर्नित्यं वर्गा नाम महावल ||
१४ ख
नार्यु उवाच:
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः |
१५ क
नार्यु उवाच:
ताभिः सार्धं प्रय़ातास्मि लोकपालनिवेशनम् ||
१५ ख
नार्यु उवाच:
ततः पश्यामहे सर्वा व्राह्मणं संशितव्रतम् |
१६ क
नार्यु उवाच:
रूपवन्तमधीय़ानमेकमेकान्तचारिणम् ||
१६ ख
नार्यु उवाच:
तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् |
१७ क
नार्यु उवाच:
आदित्य इव तं देशं कृत्स्नं स व्यवभासय़त् ||
१७ ख
नार्यु उवाच:
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् |
१८ क
नार्यु उवाच:
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षय़ा ||
१८ ख
नार्यु उवाच:
अहं च सौरभेय़ी च समीची वुद्वुदा लता |
१९ क
नार्यु उवाच:
यौगपद्येन तं विप्रमभ्यगच्छाम भारत ||
१९ ख
नार्यु उवाच:
गाय़न्त्यो वै हसन्त्यश्च लोभय़न्त्यश्च तं द्विजम् |
२० क
नार्यु उवाच:
स च नास्मासु कृतवान्मनो वीर कथञ्चन |
२० ख
नार्यु उवाच:
नाकम्पत महातेजाः स्थितस्तपसि निर्मले ||
२० ग
नार्यु उवाच:
सोऽशपत्कुपितोऽस्मांस्तु व्राह्मणः क्षत्रिय़र्षभ |
२१ क
नार्यु उवाच:
ग्राहभूता जले यूय़ं चरिष्यध्वं शतं समाः ||
२१ ख