वर्गो उवाच:
ततो वय़ं प्रव्यथिताः सर्वा भरतसत्तम |
१ क
वर्गो उवाच:
आय़ाम शरणं विप्रं तं तपोधनमच्युतम् ||
१ ख
वर्गो उवाच:
रूपेण वय़सा चैव कन्दर्पेण च दर्पिताः |
२ क
वर्गो उवाच:
अय़ुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ||
२ ख
वर्गो उवाच:
एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन |
३ क
वर्गो उवाच:
यद्वय़ं संशितात्मानं प्रलोव्धुं त्वामिहागताः ||
३ ख
वर्गो उवाच:
अवध्यास्तु स्त्रिय़ः सृष्टा मन्यन्ते धर्मचिन्तकाः |
४ क
वर्गो उवाच:
तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि ||
४ ख
वर्गो उवाच:
सर्वभूतेषु धर्मज्ञ मैत्रो व्राह्मण उच्यते |
५ क
वर्गो उवाच:
सत्यो भवतु कल्याण एष वादो मनीषिणाम् ||
५ ख
वर्गो उवाच:
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् |
६ क
वर्गो उवाच:
शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ||
६ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु धर्मात्मा व्राह्मणः शुभकर्मकृत् |
७ क
वैशम्पाय़न उवाच:
प्रसादं कृतवान्वीर रविसोमसमप्रभः ||
७ ख
व्राह्मण उवाच:
शतं सहस्रं विश्वं च सर्वमक्षय़वाचकम् |
८ क
व्राह्मण उवाच:
परिमाणं शतं त्वेतन्नैतदक्षय़वाचकम् ||
८ ख
व्राह्मण उवाच:
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले |
९ क
व्राह्मण उवाच:
उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः ||
९ ख
व्राह्मण उवाच:
तदा यूय़ं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ |
१० क
व्राह्मण उवाच:
अनृतं नोक्तपूर्वं मे हसतापि कदाचन ||
१० ख
व्राह्मण उवाच:
तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह |
११ क
व्राह्मण उवाच:
नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः |
११ ख
व्राह्मण उवाच:
पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् ||
११ ग
वर्गो उवाच:
ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् |
१२ क
वर्गो उवाच:
अचिन्तय़ामोपसृत्य तस्माद्देशात्सुदुःखिताः ||
१२ ख
वर्गो उवाच:
क्व नु नाम वय़ं सर्वाः कालेनाल्पेन तं नरम् |
१३ क
वर्गो उवाच:
समागच्छेम यो नस्तद्रूपमापादय़ेत्पुनः ||
१३ ख
वर्गो उवाच:
ता वय़ं चिन्तय़ित्वैवं मुहूर्तादिव भारत |
१४ क
वर्गो उवाच:
दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ||
१४ ख
वर्गो उवाच:
सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् |
१५ क
वर्गो उवाच:
अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः ||
१५ ख
वर्गो उवाच:
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वय़ं च तत् |
१६ क
वर्गो उवाच:
श्रुत्वा तच्च यथावृत्तमिदं वचनमव्रवीत् ||
१६ ख
वर्गो उवाच:
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै |
१७ क
वर्गो उवाच:
पुण्यानि रमणीय़ानि तानि गच्छत माचिरम् ||
१७ ख
वर्गो उवाच:
तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनञ्जय़ः |
१८ क
वर्गो उवाच:
मोक्षय़िष्यति शुद्धात्मा दुःखादस्मान्न संशय़ः ||
१८ ख
वर्गो उवाच:
तस्य सर्वा वय़ं वीर श्रुत्वा वाक्यमिहागताः |
१९ क
वर्गो उवाच:
तदिदं सत्यमेवाद्य मोक्षिताहं त्वय़ानघ ||
१९ ख
वर्गो उवाच:
एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः |
२० क
वर्गो उवाच:
कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय़ ||
२० ख
वैशम्पाय़न उवाच:
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते |
२१ क
वैशम्पाय़न उवाच:
तस्माच्छापाददीनात्मा मोक्षय़ामास वीर्यवान् ||
२१ ख
वैशम्पाय़न उवाच:
उत्थाय़ च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् |
२२ क
वैशम्पाय़न उवाच:
तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा ||
२२ ख
वैशम्पाय़न उवाच:
तीर्थानि शोधय़ित्वा तु तथानुज्ञाय़ ताः प्रभुः |
२३ क
वैशम्पाय़न उवाच:
चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं यय़ौ ||
२३ ख
वैशम्पाय़न उवाच:
तस्यामजनय़त्पुत्रं राजानं वभ्रुवाहनम् |
२४ क
वैशम्पाय़न उवाच:
तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् ||
२४ ख