chevron_left शान्ति पर्व अध्याय २०९
गुरुरु उवाच:
निष्कल्मषं व्रह्मचर्यमिच्छता चरितुं सदा |
१ क
गुरुरु उवाच:
निद्रा सर्वात्मना त्याज्या स्वप्नदोषानवेक्षता ||
१ ख
गुरुरु उवाच:
स्वप्ने हि रजसा देही तमसा चाभिभूय़ते |
२ क
गुरुरु उवाच:
देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः ||
२ ख
गुरुरु उवाच:
ज्ञानाभ्यासाज्जागरतो जिज्ञासार्थमनन्तरम् |
३ क
गुरुरु उवाच:
विज्ञानाभिनिवेशात्तु जागरत्यनिशं सदा ||
३ ख
गुरुरु उवाच:
अत्राह को न्वय़ं भावः स्वप्ने विषय़वानिव |
४ क
गुरुरु उवाच:
प्रलीनैरिन्द्रिय़ैर्देही वर्तते देहवानिव ||
४ ख
गुरुरु उवाच:
अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः |
५ क
गुरुरु उवाच:
तथैतदुपपन्नार्थं वर्णय़न्ति महर्षय़ः ||
५ ख
गुरुरु उवाच:
इन्द्रिय़ाणां श्रमात्स्वप्नमाहुः सर्वगतं वुधाः |
६ क
गुरुरु उवाच:
मनसस्तु प्रलीनत्वात्तत्तदाहुर्निदर्शनम् ||
६ ख
गुरुरु उवाच:
कार्यव्यासक्तमनसः सङ्कल्पो जाग्रतो ह्यपि |
७ क
गुरुरु उवाच:
यद्वन्मनोरथैश्वर्यं स्वप्ने तद्वन्मनोगतम् ||
७ ख
गुरुरु उवाच:
संसाराणामसङ्ख्यानां कामात्मा तदवाप्नुय़ात् |
८ क
गुरुरु उवाच:
मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः ||
८ ख
गुरुरु उवाच:
गुणानामपि यद्यत्तत्कर्म जानात्युपस्थितम् |
९ क
गुरुरु उवाच:
तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा ||
९ ख
गुरुरु उवाच:
ततस्तमुपवर्तन्ते गुणा राजसतामसाः |
१० क
गुरुरु उवाच:
सात्त्विको वा यथाय़ोगमानन्तर्यफलोदय़ः ||
१० ख
गुरुरु उवाच:
ततः पश्यत्यसम्वद्धान्वातपित्तकफोत्तरान् |
११ क
गुरुरु उवाच:
रजस्तमोभवैर्भावैस्तदप्याहुर्दुरन्वय़म् ||
११ ख
गुरुरु उवाच:
प्रसन्नैरिन्द्रिय़ैर्यद्यत्सङ्कल्पय़ति मानसम् |
१२ क
गुरुरु उवाच:
तत्तत्स्वप्नेऽप्युपरते मनोदृष्टिर्निरीक्षते ||
१२ ख
गुरुरु उवाच:
व्यापकं सर्वभूतेषु वर्ततेऽप्रतिघं मनः |
१३ क
गुरुरु उवाच:
मनस्यन्तर्हितं द्वारं देहमास्थाय़ मानसम् ||
१३ ख
गुरुरु उवाच:
यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम् |
१४ क
गुरुरु उवाच:
सर्वभूतात्मभूतस्थं तदध्यात्मगुणं विदुः ||
१४ ख
गुरुरु उवाच:
लिप्सेत मनसा यश्च सङ्कल्पादैश्वरं गुणम् |
१५ क
गुरुरु उवाच:
आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः ||
१५ ख
गुरुरु उवाच:
एवं हि तपसा युक्तमर्कवत्तमसः परम् |
१६ क
गुरुरु उवाच:
त्रैलोक्यप्रकृतिर्देही तपसा तं महेश्वरम् ||
१६ ख
गुरुरु उवाच:
तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः |
१७ क
गुरुरु उवाच:
एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम् ||
१७ ख
गुरुरु उवाच:
सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः |
१८ क
गुरुरु उवाच:
सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ ||
१८ ख
गुरुरु उवाच:
व्रह्म तत्परमं वेद्यममृतं ज्योतिरक्षरम् |
१९ क
गुरुरु उवाच:
ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम् ||
१९ ख
गुरुरु उवाच:
हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा |
२० क
गुरुरु उवाच:
प्रत्याहारेण वा शक्यमव्यक्तं व्रह्म वेदितुम् ||
२० ख