chevron_left स्त्री पर्व अध्याय २१
गान्धार्यु उवाच:
एष वैकर्तनः शेते महेष्वासो महारथः |
१ क
गान्धार्यु उवाच:
ज्वलितानलवत्सङ्ख्ये संशान्तः पार्थतेजसा ||
१ ख
गान्धार्यु उवाच:
पश्य वैकर्तनं कर्णं निहत्यातिरथान्वहून् |
२ क
गान्धार्यु उवाच:
शोणितौघपरीताङ्गं शय़ानं पतितं भुवि ||
२ ख
गान्धार्यु उवाच:
अमर्षी दीर्घरोषश्च महेष्वासो महारथः |
३ क
गान्धार्यु उवाच:
रणे विनिहतः शेते शूरो गाण्डीवधन्वना ||
३ ख
गान्धार्यु उवाच:
यं स्म पाण्डवसन्त्रासान्मम पुत्रा महारथाः |
४ क
गान्धार्यु उवाच:
प्राय़ुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम् ||
४ ख
गान्धार्यु उवाच:
शार्दूलमिव सिंहेन समरे सव्यसाचिना |
५ क
गान्धार्यु उवाच:
मातङ्गमिव मत्तेन मातङ्गेन निपातितम् ||
५ ख
गान्धार्यु उवाच:
समेताः पुरुषव्याघ्र निहतं शूरमाहवे |
६ क
गान्धार्यु उवाच:
प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते ||
६ ख
गान्धार्यु उवाच:
उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः |
७ क
गान्धार्यु उवाच:
त्रय़ोदश समा निद्रां चिन्तय़न्न्नाध्यगच्छत ||
७ ख
गान्धार्यु उवाच:
अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव |
८ क
गान्धार्यु उवाच:
युगान्ताग्निरिवार्चिष्मान्हिमवानिव च स्थिरः ||
८ ख
गान्धार्यु उवाच:
स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव |
९ क
गान्धार्यु उवाच:
भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः ||
९ ख
गान्धार्यु उवाच:
पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम् |
१० क
गान्धार्यु उवाच:
लालप्यमानाः करुणं रुदतीं पतितां भुवि ||
१० ख
गान्धार्यु उवाच:
आचार्यशापोऽनुगतो ध्रुवं त्वां; यदग्रसच्चक्रमिय़ं धरा ते |
११ क
गान्धार्यु उवाच:
ततः शरेणापहृतं शिरस्ते; धनञ्जय़ेनाहवे शत्रुमध्ये ||
११ ख
गान्धार्यु उवाच:
अहो धिगेषा पतिता विसञ्ज्ञा; समीक्ष्य जाम्वूनदवद्धनिष्कम् |
१२ क
गान्धार्यु उवाच:
कर्णं महावाहुमदीनसत्त्वं; सुषेणमाता रुदती भृशार्ता ||
१२ ख
गान्धार्यु उवाच:
अल्पावशेषो हि कृतो महात्मा; शरीरभक्षैः परिभक्षय़द्भिः |
१३ क
गान्धार्यु उवाच:
द्रष्टुं न सम्प्रीतिकरः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे ||
१३ ख
गान्धार्यु उवाच:
सावर्तमाना पतिता पृथिव्या; मुत्थाय़ दीना पुनरेव चैषा |
१४ क
गान्धार्यु उवाच:
कर्णस्य वक्त्रं परिजिघ्रमाणा; रोरूय़ते पुत्रवधाभितप्ता ||
१४ ख