भीष्म उवाच:
अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति |
१ क
भीष्म उवाच:
तैलं दिव्यमुपादाय़ स्नानशाटीमुपानय़त् ||
१ ख
भीष्म उवाच:
अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना |
२ क
भीष्म उवाच:
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षय़त् ||
२ ख
भीष्म उवाच:
शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत् |
३ क
भीष्म उवाच:
भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम् ||
३ ख
भीष्म उवाच:
अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा |
४ क
भीष्म उवाच:
स्नापय़ामास शनकैस्तमृषिं सुखहस्तवत् |
४ ख
भीष्म उवाच:
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ||
४ ग
भीष्म उवाच:
स तेन सुसुखोष्णेन तस्या हस्तसुखेन च |
५ क
भीष्म उवाच:
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ||
५ ख
भीष्म उवाच:
तत उत्थाय़ स मुनिस्तदा परमविस्मितः |
६ क
भीष्म उवाच:
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ||
६ ख
भीष्म उवाच:
तस्य वुद्धिरिय़ं किं नु मोहस्तत्त्वमिदं भवेत् |
७ क
भीष्म उवाच:
अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम् ||
७ ख
भीष्म उवाच:
सा चामृतरसप्रख्यमृषेरन्नमुपाहरत् |
८ क
भीष्म उवाच:
तस्य स्वादुतय़ान्नस्य न प्रभूतं चकार सः |
८ ख
भीष्म उवाच:
व्यगमच्चाप्यहःशेषं ततः सन्ध्यागमत्पुनः ||
८ ग
भीष्म उवाच:
अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदय़त् |
९ क
भीष्म उवाच:
तत्र वै शय़ने दिव्ये तस्य तस्याश्च कल्पिते ||
९ ख
अष्टावक्र उवाच:
न भद्रे परदारेषु मनो मे सम्प्रसज्जति |
१० क
अष्टावक्र उवाच:
उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च ||
१० ख
भीष्म उवाच:
सा तदा तेन विप्रेण तथा धृत्या निवर्तिता |
११ क
भीष्म उवाच:
स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते ||
११ ख
अष्टावक्र उवाच:
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः |
१२ क
अष्टावक्र उवाच:
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ||
१२ ख
स्त्र्यु उवाच:
वाधते मैथुनं विप्र मम भक्तिं च पश्य वै |
१३ क
स्त्र्यु उवाच:
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ||
१३ ख
अष्टावक्र उवाच:
हरन्ति दोषजातानि नरं जातं यथेच्छकम् |
१४ क
अष्टावक्र उवाच:
प्रभवामि सदा धृत्या भद्रे स्वं शय़नं व्रज ||
१४ ख
स्त्र्यु उवाच:
शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि |
१५ क
स्त्र्यु उवाच:
भूमौ निपतमानाय़ाः शरणं भव मेऽनघ ||
१५ ख
स्त्र्यु उवाच:
यदि वा दोषजातं त्वं परदारेषु पश्यसि |
१६ क
स्त्र्यु उवाच:
आत्मानं स्पर्शय़ाम्यद्य पाणिं गृह्णीष्व मे द्विज ||
१६ ख
स्त्र्यु उवाच:
न दोषो भविता चैव सत्येनैतद्व्रवीम्यहम् |
१७ क
स्त्र्यु उवाच:
स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मय़ि ||
१७ ख
अष्टावक्र उवाच:
स्वतन्त्रा त्वं कथं भद्रे व्रूहि कारणमत्र वै |
१८ क
अष्टावक्र उवाच:
नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति ||
१८ ख
अष्टावक्र उवाच:
पिता रक्षति कौमारे भर्ता रक्षति यौवने |
१९ क
अष्टावक्र उवाच:
पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ||
१९ ख
स्त्र्यु उवाच:
कौमारं व्रह्मचर्यं मे कन्यैवास्मि न संशय़ः |
२० क
स्त्र्यु उवाच:
कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम ||
२० ख
अष्टावक्र उवाच:
यथा मम तथा तुभ्यं यथा तव तथा मम |
२१ क
अष्टावक्र उवाच:
जिज्ञासेय़मृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ||
२१ ख
अष्टावक्र उवाच:
आश्चर्यं परमं हीदं किं नु श्रेय़ो हि मे भवेत् |
२२ क
अष्टावक्र उवाच:
दिव्याभरणवस्त्रा हि कन्येय़ं मामुपस्थिता ||
२२ ख
अष्टावक्र उवाच:
किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः |
२३ क
अष्टावक्र उवाच:
कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत् ||
२३ ख
अष्टावक्र उवाच:
यथा परं शक्तिधृतेर्न व्युत्थास्ये कथञ्चन |
२४ क
अष्टावक्र उवाच:
न रोचय़े हि व्युत्थानं धृत्यैवं साधय़ाम्यहम् ||
२४ ख