व्राह्मण उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
व्राह्मण उवाच:
निवोध दशहोतॄणां विधानमिह यादृशम् ||
१ ख
व्राह्मण उवाच:
सर्वमेवात्र विज्ञेय़ं चित्तं ज्ञानमवेक्षते |
२ क
व्राह्मण उवाच:
रेतः शरीरभृत्काय़े विज्ञाता तु शरीरभृत् ||
२ ख
व्राह्मण उवाच:
शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीय़ते |
३ क
व्राह्मण उवाच:
ततश्चाहवनीय़स्तु तस्मिन्सङ्क्षिप्यते हविः ||
३ ख
व्राह्मण उवाच:
ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते |
४ क
व्राह्मण उवाच:
रूपं भवति वै व्यक्तं तदनुद्रवते मनः ||
४ ख
व्राह्मण्यु उवाच:
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् |
५ क
व्राह्मण्यु उवाच:
मनसा चिन्तितं वाक्यं यदा समभिपद्यते ||
५ ख
व्राह्मण्यु उवाच:
केन विज्ञानय़ोगेन मतिश्चित्तं समास्थिता |
६ क
व्राह्मण्यु उवाच:
समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति ||
६ ख
व्राह्मण उवाच:
तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् |
७ क
व्राह्मण उवाच:
तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते ||
७ ख
व्राह्मण उवाच:
प्रश्नं तु वाङ्मनसोर्मां यस्मात्त्वमनुपृच्छसि |
८ क
व्राह्मण उवाच:
तस्मात्ते वर्तय़िष्यामि तय़ोरेव समाह्वय़म् ||
८ ख
व्राह्मण उवाच:
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम् |
९ क
व्राह्मण उवाच:
आवय़ोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशय़ं विभो ||
९ ख
व्राह्मण उवाच:
मन इत्येव भगवांस्तदा प्राह सरस्वतीम् |
१० क
व्राह्मण उवाच:
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ||
१० ख
व्राह्मण उवाच:
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम |
११ क
व्राह्मण उवाच:
स्थावरं मत्सकाशे वै जङ्गमं विषय़े तव ||
११ ख
व्राह्मण उवाच:
यस्तु ते विषय़ं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा |
१२ क
व्राह्मण उवाच:
तन्मनो जङ्गमं नाम तस्मादसि गरीय़सी ||
१२ ख
व्राह्मण उवाच:
यस्मादसि च मा वोचः स्वय़मभ्येत्य शोभने |
१३ क
व्राह्मण उवाच:
तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति ||
१३ ख
व्राह्मण उवाच:
प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति |
१४ क
व्राह्मण उवाच:
प्रेर्यमाणा महाभागे विना प्राणमपानती |
१४ ख
व्राह्मण उवाच:
प्रजापतिमुपाधावत्प्रसीद भगवन्निति ||
१४ ग
व्राह्मण उवाच:
ततः प्राणः प्रादुरभूद्वाचमाप्याय़यन्पुनः |
१५ क
व्राह्मण उवाच:
तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित् ||
१५ ख
व्राह्मण उवाच:
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते |
१६ क
व्राह्मण उवाच:
तय़ोरपि च घोषिण्योर्निर्घोषैव गरीय़सी ||
१६ ख
व्राह्मण उवाच:
गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी |
१७ क
व्राह्मण उवाच:
सततं स्यन्दते ह्येषा शाश्वतं व्रह्मवादिनी ||
१७ ख
व्राह्मण उवाच:
दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते |
१८ क
व्राह्मण उवाच:
एतय़ोरन्तरं पश्य सूक्ष्मय़ोः स्यन्दमानय़ोः ||
१८ ख
व्राह्मण उवाच:
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षय़ा |
१९ क
व्राह्मण उवाच:
किं नु पूर्वं ततो देवी व्याजहार सरस्वती ||
१९ ख
व्राह्मण उवाच:
प्राणेन या सम्भवते शरीरे; प्राणादपानं प्रतिपद्यते च |
२० क
व्राह्मण उवाच:
उदानभूता च विसृज्य देहं; व्यानेन सर्वं दिवमावृणोति ||
२० ख
व्राह्मण उवाच:
ततः समाने प्रतितिष्ठतीह; इत्येव पूर्वं प्रजजल्प चापि |
२१ क
व्राह्मण उवाच:
तस्मान्मनः स्थावरत्वाद्विशिष्टं; तथा देवी जङ्गमत्वाद्विशिष्टा ||
२१ ख