chevron_left आश्रमवासिक पर्व अध्याय २१
वैशम्पाय़न उवाच:
ततः प्रभाते राजा स धृतराष्ट्रोऽम्विकासुतः |
१ क
वैशम्पाय़न उवाच:
आहूय़ पाण्डवान्वीरान्वनवासकृतक्षणः ||
१ ख
वैशम्पाय़न उवाच:
गान्धारीसहितो धीमानभिनन्द्य यथाविधि |
२ क
वैशम्पाय़न उवाच:
कार्त्तिक्यां कारय़ित्वेष्टिं व्राह्मणैर्वेदपारगैः ||
२ ख
वैशम्पाय़न उवाच:
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः |
३ क
वैशम्पाय़न उवाच:
वधूपरिवृतो राजा निर्ययौ भवनात्ततः ||
३ ख
वैशम्पाय़न उवाच:
ततः स्त्रिय़ः कौरवपाण्डवानां; याश्चाप्यन्याः कौरवराजवंश्याः |
४ क
वैशम्पाय़न उवाच:
तासां नादः प्रादुरासीत्तदानीं; वैचित्रवीर्ये नृपतौ प्रय़ाते ||
४ ख
वैशम्पाय़न उवाच:
ततो लाजैः सुमनोभिश्च राजा; विचित्राभिस्तद्गृहं पूजय़ित्वा |
५ क
वैशम्पाय़न उवाच:
संय़ोज्यार्थैर्भृत्यजनं च सर्वं; ततः समुत्सृज्य यय़ौ नरेन्द्रः ||
५ ख
वैशम्पाय़न उवाच:
ततो राजा प्राञ्जलिर्वेपमानो; युधिष्ठिरः सस्वनं वाष्पकण्ठः |
६ क
वैशम्पाय़न उवाच:
विलप्योच्चैर्हा महाराज साधो; क्व गन्तासीत्यपतत्तात भूमौ ||
६ ख
वैशम्पाय़न उवाच:
तथार्जुनस्तीव्रदुःखाभितप्तो; मुहुर्मुहुर्निःश्वसन्भारताग्र्यः |
७ क
वैशम्पाय़न उवाच:
युधिष्ठिरं मैवमित्येवमुक्त्वा; निगृह्याथोदीधरत्सीदमानः ||
७ ख
वैशम्पाय़न उवाच:
वृकोदरः फल्गुनश्चैव वीरौ; माद्रीपुत्रौ विदुरः सञ्जय़श्च |
८ क
वैशम्पाय़न उवाच:
वैश्यापुत्रः सहितो गौतमेन; धौम्यो विप्राश्चान्वय़ुर्वाष्पकण्ठाः ||
८ ख
वैशम्पाय़न उवाच:
कुन्ती गान्धारीं वद्धनेत्रां व्रजन्तीं; स्कन्धासक्तं हस्तमथोद्वहन्ती |
९ क
वैशम्पाय़न उवाच:
राजा गान्धार्याः स्कन्धदेशेऽवसज्य; पाणिं यय़ौ धृतराष्ट्रः प्रतीतः ||
९ ख
वैशम्पाय़न उवाच:
तथा कृष्णा द्रौपदी यादवी च; वालापत्या चोत्तरा कौरवी च |
१० क
वैशम्पाय़न उवाच:
चित्राङ्गदा याश्च काश्चित्स्त्रिय़ोऽन्याः; सार्धं राज्ञा प्रस्थितास्ता वधूभिः ||
१० ख
वैशम्पाय़न उवाच:
तासां नादो रुदतीनां तदासी; द्राजन्दुःखात्कुररीणामिवोच्चैः |
११ क
वैशम्पाय़न उवाच:
ततो निष्पेतुर्व्राह्मणक्षत्रिय़ाणां; विट्शूद्राणां चैव नार्यः समन्तात् ||
११ ख
वैशम्पाय़न उवाच:
तन्निर्याणे दुःखितः पौरवर्गो; गजाह्वय़ेऽतीव वभूव राजन् |
१२ क
वैशम्पाय़न उवाच:
यथा पूर्वं गच्छतां पाण्डवानां; द्यूते राजन्कौरवाणां सभाय़ाम् ||
१२ ख
वैशम्पाय़न उवाच:
या नापश्यच्चन्द्रमा नैव सूर्यो; रामाः कदाचिदपि तस्मिन्नरेन्द्रे |
१३ क
वैशम्पाय़न उवाच:
महावनं गच्छति कौरवेन्द्रे; शोकेनार्ता राजमार्गं प्रपेदुः ||
१३ ख