वासुदेव उवाच:
आनर्तनगरं मुक्तं ततोऽहमगमं तदा |
१ क
वासुदेव उवाच:
महाक्रतौ राजसूय़े निवृत्ते नृपते तव ||
१ ख
वासुदेव उवाच:
अपश्यं द्वारकां चाहं महाराज हतत्विषम् |
२ क
वासुदेव उवाच:
निःस्वाध्याय़वषट्कारां निर्भूषणवरस्त्रिय़म् ||
२ ख
वासुदेव उवाच:
अनभिज्ञेय़रूपाणि द्वारकोपवनानि च |
३ क
वासुदेव उवाच:
दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ||
३ ख
वासुदेव उवाच:
अस्वस्थनरनारीकमिदं वृष्णिपुरं भृषम् |
४ क
वासुदेव उवाच:
किमिदं नरशार्दूल श्रोतुमिच्छामहे वय़म् ||
४ ख
वासुदेव उवाच:
एवमुक्तस्तु स मय़ा विस्तरेणेदमव्रवीत् |
५ क
वासुदेव उवाच:
रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम ||
५ ख
वासुदेव उवाच:
ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः |
६ क
वासुदेव उवाच:
विनाशे शाल्वराजस्य तदैवाकरवं मतिम् ||
६ ख
वासुदेव उवाच:
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् |
७ क
वासुदेव उवाच:
राजानमाहुकं चैव तथैवानकदुन्दुभिम् |
७ ख
वासुदेव उवाच:
सर्ववृष्णिप्रवीरांश्च हर्षय़न्नव्रुवं तदा ||
७ ग
वासुदेव उवाच:
अप्रमादः सदा कार्यो नगरे यादवर्षभाः |
८ क
वासुदेव उवाच:
शाल्वराजविनाशाय़ प्रय़ातं मां निवोधत ||
८ ख
वासुदेव उवाच:
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति |
९ क
वासुदेव उवाच:
सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः |
९ ख
वासुदेव उवाच:
त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी ||
९ ग
वासुदेव उवाच:
ते मय़ाश्वासिता वीरा यथावद्भरतर्षभ |
१० क
वासुदेव उवाच:
सर्वे मामव्रुवन्हृष्टाः प्रय़ाहि जहि शात्रवान् ||
१० ख
वासुदेव उवाच:
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः |
११ क
वासुदेव उवाच:
वाचय़ित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् ||
११ ख
वासुदेव उवाच:
सैन्यसुग्रीवय़ुक्तेन रथेनानादय़न्दिशः |
१२ क
वासुदेव उवाच:
प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप ||
१२ ख
वासुदेव उवाच:
प्रय़ातोऽस्मि नरव्याघ्र वलेन महता वृतः |
१३ क
वासुदेव उवाच:
कॢप्तेन चतुरङ्गेण वलेन जितकाशिना ||
१३ ख
वासुदेव उवाच:
समतीत्य वहून्देशान्गिरींश्च वहुपादपान् |
१४ क
वासुदेव उवाच:
सरांसि सरितश्चैव मार्त्तिकावतमासदम् ||
१४ ख
वासुदेव उवाच:
तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात् |
१५ क
वासुदेव उवाच:
प्रय़ातं सौभमास्थाय़ तमहं पृष्ठतोऽन्वय़ाम् ||
१५ ख
वासुदेव उवाच:
ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः |
१६ क
वासुदेव उवाच:
समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय़ शत्रुहन् ||
१६ ख
वासुदेव उवाच:
स समालोक्य दूरान्मां स्मय़न्निव युधिष्ठिर |
१७ क
वासुदेव उवाच:
आह्वय़ामास दुष्टात्मा युद्धाय़ैव मुहुर्मुहुः ||
१७ ख
वासुदेव उवाच:
तस्य शार्ङ्गविनिर्मुक्तैर्वहुभिर्मर्मभेदिभिः |
१८ क
वासुदेव उवाच:
पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ||
१८ ख
वासुदेव उवाच:
स चापि पापप्रकृतिर्दैतेय़ापसदो नृप |
१९ क
वासुदेव उवाच:
मय़्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ||
१९ ख
वासुदेव उवाच:
सैनिकान्मम सूतं च हय़ांश्च समवाकिरत् |
२० क
वासुदेव उवाच:
अचिन्तय़न्तस्तु शरान्वय़ं युध्याम भारत ||
२० ख
वासुदेव उवाच:
ततः शतसहस्राणि शराणां नतपर्वणाम् |
२१ क
वासुदेव उवाच:
चिक्षिपुः समरे वीरा मय़ि शाल्वपदानुगाः ||
२१ ख
वासुदेव उवाच:
ते हय़ान्मे रथं चैव तदा दारुकमेव च |
२२ क
वासुदेव उवाच:
छादय़ामासुरसुरा वाणैर्मर्मविभेदिभिः ||
२२ ख
वासुदेव उवाच:
न हय़ा न रथो वीर न यन्ता मम दारुकः |
२३ क
वासुदेव उवाच:
अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ||
२३ ख
वासुदेव उवाच:
ततोऽहमपि कौरव्य शराणामय़ुतान्वहून् |
२४ क
वासुदेव उवाच:
अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् ||
२४ ख
वासुदेव उवाच:
न तत्र विषय़स्त्वासीन्मम सैन्यस्य भारत |
२५ क
वासुदेव उवाच:
खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ||
२५ ख
वासुदेव उवाच:
ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः |
२६ क
वासुदेव उवाच:
हर्षय़ामासुरुच्चैर्मां सिंहनादतलस्वनैः ||
२६ ख
वासुदेव उवाच:
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे |
२७ क
वासुदेव उवाच:
अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ||
२७ ख
वासुदेव उवाच:
ततो हलहलाशव्दः सौभमध्ये व्यवर्धत |
२८ क
वासुदेव उवाच:
वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ||
२८ ख
वासुदेव उवाच:
ते निकृत्तभुजस्कन्धाः कवन्धाकृतिदर्शनाः |
२९ क
वासुदेव उवाच:
नदन्तो भैरवान्नादन्निपतन्ति स्म दानवाः ||
२९ ख
वासुदेव उवाच:
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् |
३० क
वासुदेव उवाच:
जलजं पाञ्चजन्यं वै प्राणेनाहमपूरय़म् ||
३० ख
वासुदेव उवाच:
तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्तदा |
३१ क
वासुदेव उवाच:
माय़ाय़ुद्धेन महता योधय़ामास मां युधि ||
३१ ख
वासुदेव उवाच:
ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः |
३२ क
वासुदेव उवाच:
पट्टिशाश्च भुशुण्ड्यश्च प्रापतन्ननिशं मय़ि ||
३२ ख
वासुदेव उवाच:
तानहं माय़यैवाशु प्रतिगृह्य व्यनाशय़म् |
३३ क
वासुदेव उवाच:
तस्यां हताय़ां माय़ाय़ां गिरिशृङ्गैरय़ोधय़त् ||
३३ ख
वासुदेव उवाच:
ततोऽभवत्तम इव प्रभातमिव चाभवत् |
३४ क
वासुदेव उवाच:
दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ||
३४ ख
वासुदेव उवाच:
एवं माय़ां विकुर्वाणो योधय़ामास मां रिपुः |
३५ क
वासुदेव उवाच:
विज्ञाय़ तदहं सर्वं माय़यैव व्यनाशय़म् |
३५ ख
वासुदेव उवाच:
यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ||
३५ ग
वासुदेव उवाच:
ततो व्योम महाराज शतसूर्यमिवाभवत् |
३६ क
वासुदेव उवाच:
शतचन्द्रं च कौन्तेय़ सहस्राय़ुततारकम् ||
३६ ख
वासुदेव उवाच:
ततो नाज्ञाय़त तदा दिवारात्रं तथा दिशः |
३७ क
वासुदेव उवाच:
ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समय़ोजय़म् |
३७ ख
वासुदेव उवाच:
ततस्तदस्त्रमस्त्रेण विधूतं शरतूलवत् ||
३७ ग
वासुदेव उवाच:
तथा तदभवद्युद्धं तुमुलं लोमहर्षणम् |
३८ क
वासुदेव उवाच:
लव्धालोकश्च राजेन्द्र पुनः शत्रुमय़ोधय़म् ||
३८ ख